54053: अभिविधौ सम्पदा च ======================= **Padacheda:** अभिविधौ | S | 7 | 1 | सम्पदा | S | 3 | 1 | च | S | 0 | 0 | Sutrartha --------- **अभूतपूर्वस्य विकारस्य अभिविध्या सम्पादनम् क्रियते चेत् विकारवाचिशब्दात् 'कृ' 'भू' तथा 'अस्' एतेषाम् योगे तथा च 'सम्पद्' धातोः योगे स्वार्थे विकल्पेन 'साति' प्रत्ययः भवति ।** **अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः** (5.4.50) इत्यनेन सूत्रेण 'च्वि' इति प्रत्ययः पाठ्यते । अभूतपूर्वस्य विकारस्य सम्पादने 'कृ' 'भू' तथा 'अस्' एतेषाम् योगे अयम् प्रत्ययः विकारवाचिशब्दात् विधीयते । (अस्य विषयस्य विस्तारः **अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः** (5.4.50) इत्यत्रैव द्रष्टव्यः) । यदि अयम् विकारः अभिविधिरूपेण सम्पद्यते, तर्हि तस्मात् विकारवाचिनः शब्दात् 'कृ' 'भू' ,'अस्' तथा च 'सम्पद्' एतेषाम् योगे 'साति' इति प्रत्ययः विकल्पेन भवति । पक्षे 'कृ' 'भू' ,'अस्' एतेषाम् योगे 'च्वि' प्रत्ययः अपि भवितुमर्हति । किम् नाम अभिविधिः ? यत्र बहूनाम् वस्तूनाम् कस्यचन अवयवस्य विकारः विधीयते, तत्र 'अभिविधिः' अस्तीति सम्बुध्यते । यथा, 'महत्याः वर्षायाः कारणात् नगरे विद्यमानम् सर्वम् लवणमंशरूपेण जलम् सम्पद्यते' - इति चिन्तयामः । The entire salt from all households in the city has become moist due to heavy rains । अस्यां स्थितौ 'सम्पूर्णमजलम् लवणम् जलम् सम्पद्यते' इति वाक्यप्रयोगं कृत्वा' जल' शब्दात् वर्तमानसूत्रेण साति-प्रत्ययः भवितुमर्हति । यथा - अ) सम्पूर्णमजलम् लवणम् जलम् करोति = जलसात् करोति । आ) सम्पूर्णमजलम् लवणम् जलम् भवति = जलसात् भवति । इ) सम्पूर्णमजलम् लवणम् जलम् स्यात् = जलसात् स्यात् । ई) सम्पूर्णमजलम् लवणम् जलम् सम्पद्यते = जलसात् सम्पद्यते । विशेषः - अस्मिन् सूत्रे 'सम्पद्यकर्तरि' इति न अनुवर्तते, अतः अत्र विग्रहवाक्येषु 'कृ', भू', 'अस्' एतेषां प्रयोगः भवितुमर्हति । एवमेव अन्यद् एकमुदाहरणम् एतादृशम् - युद्धे सर्वम् अनग्निः शस्त्रमग्निः सम्पद्यते । अस्यैव निर्देशार्थम् 'साति' प्रत्ययं कृत्वा एते प्रयोगाः सिद्ध्यन्ति - अ) युद्धम् सर्वम् शस्त्रमग्निसात् करोति । आ) सर्वं शस्त्रमग्निसात् भवति । इ) सर्वं शस्त्रम् अग्निसात् स्यात् । ई) सर्वं शस्त्रम् अग्निसात् सम्पद्यते । अत्र केचन बिन्दवः स्मर्तव्याः - 1. यत्र एकस्मिन् वस्तुनि सम्पूर्णरूपेण परिवर्तनं भवति, तत्र **विभाषा साति कार्त्स्न्ये** (5.4.52) इत्यनेन पूर्वसूत्रेणैव प्रत्ययः विधीयते । यथा - यदि केवलम् एकम् शस्त्रम् सम्पूर्णरूपेण अग्निः सम्पद्यते, तर्हि **विभाषा साति कार्त्स्न्ये** (5.4.52) इत्यनेन 'शस्त्रमग्निसात् भवति' इति प्रयोगः विधीयते । परन्तु यत्र अनेकानाम् वस्तूनाम् एकदेशस्य (= असकलरूपेण) परिवर्तनं भवति, तत्र वर्तमानसूत्रेण प्रत्ययः विधीयते । यथा - युद्धे विद्यमानानाम् सर्वेषां शस्त्राणां निर्देशम् कृत्वा 'सर्वम् शस्त्रमग्निः भवति' इति यदि उच्यते, तर्हि अस्य अर्थः 'प्रत्येकम् शस्त्रम् एकदेशरूपेण अवश्यमग्निः भवति, परन्तु सम्पूर्णरूपेण भवतीति आवश्यकम् न' - इति आशयः अस्ति । The context here is that 'the entire set of weapons was converted into fire'. This means that every weapon in the set was definitely converted to fire at least to some extent. But whether an individual weapon was converted fully or only partially is not the point of discussion here। अस्यां स्थितौ 'अभिविधिः अस्ति' इति मत्वा वर्तमानसूत्रस्य प्रयोगः भवति । अस्यैव स्पष्टीकरणार्थम् कौमुद्यामुच्यते - *एकस्याः व्यक्तेः सर्व-अवयव-अवच्छेदेन अन्यथाभावः कार्त्स्न्यम् ; बहूनां व्यक्तीनां किञ्चित्-अवयव-अवच्छेदेन अन्यथात्वं तु अभिविधिः* । 2. अनेन सूत्रेण उक्तः साति-प्रत्ययः विकल्पेन भवति । पक्षे 'च्वि' प्रत्ययः अपि भवितुमर्हति । परन्तु अयम् च्वि-प्रत्ययः 'सम्पद्यते' इत्यस्य विषये न भवति, केवलम् 'कृ / भू / अस्' एतेषाम् विषये एव विधीयते । अयम् च्वि-प्रत्ययः अपि विकल्पेन भवति, यतः **समर्थानां प्रथमाद्वा** (4.1.82) इत्यत्र पाठितायां महाविभाषायाम् इदम् सूत्रम् प्रवर्तते । अतः पक्षे वाक्यस्यापि प्रयोगः भवितुमर्हति । यथा - अ) युद्धम् सर्वम् शस्त्रमग्नीकरोति / युद्धम् सर्वम् शस्त्रमग्निं करोति । आ) सर्वम् शस्त्रमग्नीभवति / सर्वम् शस्त्रमग्निः भवति । इ) सर्वम् शस्त्रमग्नीस्युः / सर्वम् शस्त्रमग्निः स्यात् । ई) सर्वम् शस्त्रमग्निः सम्पद्यते । (अत्र च्वि-प्रत्ययः नैव प्रयुज्यते) । 3. साति-प्रत्ययान्तशब्दाः **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति । Vasu English Summary -------------------- The affix साति comes after a word in the sense of च्वि when it is in construction with the verb सम्पद् and the meaning is that all things of a kind are changed into something else, though partially. Vasu English Translation ------------------------ The affix साति comes after a word in the sense of च्वि when it is in construction with the verb सम्पद् and the meaning is that all things of a kind are changed into something else, though partially. The word अभिविधि means 'pervasion'. The force of the word च in the *sutra* is that the same sense is expressed when the verbs कृ, भू and अस् are in construction as well. By drawing the *anuvritti* of the word *vibhasha* into this *sutra*, we may, in the alternative, employ the affix च्वि in the same sense of *abhividhi*: but then it must be followed by the verbs कृ, भू and अस् only and not by the verb संपद ॥ Thus अग्निसात् संपद्यते or अग्निसात् भवति; उदकसात् संपद्यते or भवति &c. Or उदकी भवति or अग्नी भवति ॥ What is the difference between the words *abhividhi* and *kartsnya* of these two *sutras*? Where all things of similar origin get changed, though it be partially only, it is called *abhividhivikara* As, अस्यां सेनायाम् उत्पातेन सर्वम् शस्त्रम् अग्निसात् सम्पद्यते; or वर्षासु सर्वम् लवनम् उदकसात् सम्पद्यते ॥ Here सर्व has the force of प्रकार कार्त्स्न्य, namely, all things belonging to the kind of weapons such as swords, lances and all things of the nature of salt, but not these things individually in its totality. While the word *kartsnya* means that one thing in all its parts assumes the form of another thing. In short, the difference between these two words is this: when one object is changed in all its parts, it is *kartsnya* change, when many objects are changed in some of their parts, it is *abhividhi* change. Kashika ------- अभिविधिरभिव्याप्तिः। अभिविधौ गम्यमाने च्विविषये सातिः प्रत्ययो भवति संपदा योगे, चकारात् कृभ्वस्तिभिश्च। विभाषाग्रहणानुवृत्तेश्च्विरप्यभ्यनुज्ञायते। स तु कृभ्वस्तिभिरेव योगे भवति, न संपदा। अग्निसात्संपद्यते। अग्निसाद्भवति। उदकसात्संपद्यते। उदकसाद्भवति लवणम्। अग्नीभवति। उदकीभवति। अथाभिविधेः कार्त्स्न्यस्य च को विशेषः ? यत्रैकदेशेनापि सर्वा प्रकृतिर्विकारमापद्यते सोऽभिविधिः। यथास्यां सेनायामुत्पातेन सर्वं शस्त्रमग्निसात्संपद्यते, वर्षासु सर्वं लवणमुदकसात्संपद्यत इति। कार्त्स्न्यं तु सर्वात्मना द्रव्यस्य विकाररूपापत्तौ भवति॥ Siddhanta Kaumudi ----------------- संपदाकृभ्वस्तिभिश्च योगे सातिर्वा स्याद्व्याप्तौ । पक्षे कृभ्वस्तियोगे च्विः । संपदा तु वाक्यमेव । अग्निसात्संपद्यते अग्निसाद्भवति शस्त्रम् । अग्नीभवति । जलसात्संपद्यते जलाभवति लवणम् । एकस्या व्यक्तेः सर्वावयवावच्छेदेनान्यथात्वं त्वभिविधिः ॥ Tattvabodhini ------------- **अभिविधौ सम्पदा च** - अग्निसाद्भवति शस्त्रमिति । जातावेकवचनम् । सर्वाणि शस्त्राणीत्यर्थः । Padamanjari ----------- स तु कृभ्वस्तिभिरेव योगे भवतीति। विभाषाग्रहणस्य विकल्पार्थत्वात्स्वशास्त्रेणैव च्विर्भवतीति सम्पदायोगे तस्याप्रसङ्गात्। स्पष्टीकृतं चैतत्पूर्वग्रन्थे। विभाषाग्रहणानुवृतेश्च्विरप्यभ्यनुज्ञायत इति। समुच्चयार्थे तु तस्मिन्ननेनैव च्विर्भवन्सम्पदापि योगे स्याद्, अभ्यनुज्ञाय इति चानुपपन्नं स्यात्। अथेति। उभयत्र व्याप्तिसम्भवात्प्रश्नः। सर्वा प्रकृतिरिति। प्रकारकार्त्स्न्ये ऽत्र सर्वशब्दः, यथा - सर्वान्नीनो भिक्षुरिति। यथास्यां सेनायामित्यादि। अत्रापि प्रकारकार्त्स्न्य एव सर्वशब्दः, खङ्गप्रासादीनामशेषाणां सस्त्राणामेकदेशेनाप्यग्न्यात्मभावोऽत्र विवक्षितः, न त्वेकस्या अपि सस्त्रव्यक्तेः सर्वात्मना विकाररूपापतिः। एवं वर्षासु लवणमित्यत्रापि। कार्त्स्न्य त्वित्यादि। यत्रैकस्यापि द्रव्यस्य सर्वात्मना विकाररूपापतिः, न कश्चिदवयवः परिहाप्यते, तत्र कार्त्स्न्यं भवति। तस्मादर्थभेदादुभयमुक्तम्, न त्वेकत्रैवान्यतरत्र सम्पदो ग्रहणं कृतमिति ॥ Nyaas ----- `स तु कृभ्वस्तिभिरेव योगे भवति` इति। कृभ्वस्तिभिरित्येव योग इत्यनेन सम्बन्धस्यव तस्येहानुवृत्तेः। अभिविधेः कार्त्स्न्यस्य चावश्यं विशेषेण भवितव्यम्; अन्यथा सूत्रद्वयारम्भो निष्फलः स्यात्, एकेनैव सिद्धत्वात्।स च विशेषो न ज्ञायते, इत्यतस्तत्? पृच्छति - `अताभिविधेः` इत्यादि। `यथास्यां सेनायाम्` इत्यादि। अथ शेषाणां शस्त्राणामेकदेशेन ह्रात्मना सम्बन्धमात्रं विवक्षितम्, न सर्वात्मना विकाररूपापत्तिः। `वर्षासु सर्व लवणमुदकसात्सम्पद्यते` इति। अत्रापि सर्वासां लवणव्यक्तीनामेकदेशेनोदकात्मताविकारेण सम्बन्धमात्रं विवक्षितम्। न त्वेकस्य सर्वात्मना विकाररूपापत्तिः। `कात्स्न्यं तु` इत्यादि। यत्र ह्रेकस्यापि द्रव्यस्य सर्वात्मना विकाररूपापत्तिः, न त्वेकदेशेन, तत्र कार्त्स्न्य भवति। तत्र यदि पूर्वो योगो नारब्येत, यत्रैकद्रव्यविशेषविषयं कात्स्न्यं तत्र प्रत्ययोगो न स्यात्; अभिविधेरभावात्। अथायं नारभ्येत? यत्र सर्वाः प्रकृतय एकदेशेन विकारमापद्यन्ते न स्यत्। तस्मादुभयमारब्धध्यम्॥ Prakriyasarvasvam ----------------- सम्पद्यतिना कृभ्वस्तिभिश्च योगे व्याप्तौ द्योत्यायां वा सातिः स्यात् । जलसात्सम्पद्यते लवणम् । जलसाद् भवतीत्यादि । सर्वेषु लवणेषु जलत्वं स्पृष्टमित्यर्थः । विकल्पात् च्विः । स च कृभ्वस्तियोग एव । जलीभवति ॥ एकस्यापि हि कात्स्न्ये॑न तद्भावः कात्स्न्य॑मुच्यते । अंशेनापि तु सर्वत्र स्पर्शोऽभिविधिरिष्यते ॥ ३६९ ॥