54030: लोहितान्मणौ ================== **Padacheda:** लोहितात् | S | 5 | 1 | मणौ | S | 7 | 1 | Sutrartha --------- **'लोहित'शब्दात् मणेः निर्देशार्थम् स्वार्थे कन् प्रत्ययः भवति ।** 'लोहित' (red) शब्दात् मणेः (precious stone) निर्देशार्थम् स्वार्थे कन्-प्रत्ययः भवति । लोहितः मणिः स एव लोहितकः मणिः । **समर्थानां प्रथमाद्वा** (4.1.82) अनया महाविभाषया एतत् प्रत्ययविधानम् विकल्पेन भवति, अतः प्रत्ययं विना केवलम् 'लोहित' इति अपि प्रयोगः भवितुमर्हति । लोहितः मणिः । यत्र मणेः निर्देशः नास्ति तत्र तु कन्-प्रत्ययः न भवति । यथा - लोहितः खगः । Vasu English Summary -------------------- The affix कन् comes without changing the sense, after लोहित when it means a precious stone. Vasu English Translation ------------------------ The affix कन् comes without changing the sense, after लोहित when it means a precious stone. Thus लोहितकः = लोहितः "Ruby". Why do we say 'when it means a precious stone?' Observe, लोहितः 'red'. Bhashya ------- लोहितान्मणौ (2307) (कनोऽधिकरणम्) (5908 एकदेशिन उपसंख्यानवार्तिकम्॥ 1 ॥) - लोहिताल्लिङ्गबाधनं वा - (भाष्यम्) लोहिताल्लिङ्गबाधनं वेति वक्तव्यम्। लोहितिका, लोहिनिका॥ (5909 एकदेशिन उपसंख्यानवार्तिकम्॥ 2 ॥) - अक्षरसमूहे छन्दस उपसंख्यानम् - (भाष्यम्) अक्षरसमूहे छन्दस उपसंख्यानं कर्तव्यम्। ओ श्रावयेति चतुरक्षरम्। अस्तु श्रौषडिति चतुरक्षरम्। ये यजामह इति पञ्ञ्चाक्षरम्। यजेति द्व्यक्षरम्। द्व्यक्षरो वषट्कारः। एष वै सप्तदशाक्षरश्छन्दस्यः प्रजापतिर्यज्ञमनुविहितः॥ (5910 एकदेशिन उपसंख्यानवार्तिकम्॥ 3 ॥) - छन्दसि बहुभिर्वसव्यैरुपसंख्यानम् - (भाष्यम्) छन्दसि बहुभिर्वसव्यैरुपसंख्यानं कर्तव्यम्। हस्तौ पृणस्व बहुभिर्वसव्यैः॥ (5911 एकदेशिन उपसंख्यानवार्तिकम्॥ 4 ॥) - अग्निरीशे वसव्यस्येति - (भाष्यम्) अग्निरीशे वसव्यस्येत्युपसंख्यानं कर्तव्यम्॥ (5912 एकदेशिप्रत्याख्याने सिद्धान्तवार्तिकम्॥ 5 ॥) - उक्तं वा - (भाष्यम्) किमुक्तम्? ।स्वार्थविज्ञानात्सिद्धम् इति। अपस्यो वसानाः। अपो वसानाः॥ स्व ओक्ये। स्व ओके॥ कव्योऽसि हव्यसूदन। कविरसि॥ रौद्रेणानीकेन कव्यतायै। कवितायै॥ आमुष्यायणस्य। अमुष्यपुत्रस्य॥ क्षेम्यस्येशे। क्षेमस्येशे॥ क्षेम्यमध्यवस्यति। क्षेममध्यवस्यति॥ आयुर्वर्चस्यम्। वर्च एव वर्चस्यम्॥ निष्केवल्यम्। निष्केवलम्॥ उक्थ्यम्। उक्थम्॥ जन्यं ताभिः। सजन्यं ताभिः। जनं ताभिः सजनं ताभिः॥ स्तोमैर्जनयामि नव्यम्। नवम्॥ प्रणो नव्येभिः। नवैः॥ ब्रह्म पूर्व्यम्। पाथः पूर्व्यम्। तनुषु पूर्व्यम्। पूर्वम्॥ पूर्व्याहः। पूर्वाहः॥ पूर्व्या विशः। पूर्वा विशः॥ पूर्व्यासः। पूर्वासः॥ स प्र पूर्व्यः। स प्र पूर्वः॥ अग्निं वः पूर्व्यम्। पूर्वम्॥ तं जुषस्व यविष्ठय। यविष्ठ॥ होत्रवाहं यविष्ठयम्। यविष्ठम्॥ त्वं ह यद्यविष्ठ्य। यविष्ठ॥ समावद्वसति समावद्गृह्णाति। समं वसति समं गृह्णाति॥ समावद्देवयज्ञे हस्तौ। समम्॥ समावद्वीर्यावहानि। समानि॥ समावद्वीर्याणि करोति। समानि॥ य इर्वत उलोकम्। य इर्वते ब्रह्मणे। य इर्यते॥ (5913 उपसंख्यानवार्तिकम्॥ 6 ॥) - नवस्य नू त्नप्तनखाश्च - (भाष्यम्) नवस्य नू इत्ययमादेशो वक्तव्यः, त्नप्तनखाश्च प्रत्यया वक्तव्याः। नूत्नं, नूतनं, नवीनम्॥ (5914 उपसंख्यानवार्तिकम्॥ 7 ॥) - नश्च पुराणे प्रात् - (भाष्यम्) नश्च पुराणे प्राद् वक्तव्यः। त्नप्तनखाश्च प्रत्यया वक्तव्याः। प्रणम्, प्रत्नम्, प्रतनम्, प्रीणम्॥ Kashika ------- लोहितशब्दाद् मणौ वर्तमानात् स्वार्थे कन् प्रत्ययो भवति। लोहितो मणिर्लोहितकः। मणाविति किम् ? लोहितः॥ Siddhanta Kaumudi ----------------- लोहित एव मणिर्लोहितकः ॥ Balamanorama ------------ **लोहितान्मणौ** - लोहितान्मणौ । मणौ वर्तमानाल्लोहितशब्दात्स्वार्थे कन्स्यादित्यर्थः । माणिक्य मयो मणिरेवेह मणिर्विवक्षितः । यस्तु जपाकुसुमादिनिमित्तलौहित्यवान्स्फटिकमणिस्तस्य तु 'रक्ते' इत्युत्तरसूत्रेण सिद्धम् । Prakriyasarvasvam ----------------- लोहितकः पद्मरागः ॥ Vartika ------- लोहिताल्लिङ्गबाधनं वा ।