54029: यावादिभ्यः कन् ===================== **Padacheda:** यावादिभ्यः | S | 5 | 3 | कन् | S | 1 | 1 | Sutrartha --------- **यावादिगणस्य शब्देभ्यः स्वार्थे कन्-प्रत्यय भवति ।** यावादिगणस्य शब्देभ्यः स्वार्थे 'कन्' इति प्रत्ययः विधीयते । **समर्थानां प्रथमाद्वा** (4.1.82) अनया महाविभाषया एतत् प्रत्ययविधानम् विकल्पेन भवति, अतः प्रत्ययं विना अपि प्रयोगः भवितुमर्हति । कन्-प्रत्यये नकारस्य इत्संज्ञा भवति । **ञ्नित्यादिर्नित्यम्** (6.1.197) इत्यनेन स्वरविधानार्थमस्य ग्रहणम् कृतमस्ति । यावादिगणः अयम् - याव, मणि, अस्थि, चण्ड, पीत, स्तम्भ, ऋतौ उष्णशीते (गणसूत्रम्), पशौ लूनवियाते (गणसूत्रम्), अणु निपुणे (गणसूत्रम्), पुत्र कृत्रिमे (गणसूत्रम्), स्नात वेदसमाप्तौ (गणसूत्रम्), शून्य रिक्ते (गणसूत्रम्), दान कुत्सिते (गणसूत्रम्), तनु सूत्रे (गणसूत्रम्), ईयसश्च (गणसूत्रम्), ज्ञात, कुमारीक्रीडनकानि च (गणसूत्रम्) । उदाहरणानि - 1. यावः (barley) इत्येव यावकः । 2. मणिः एव मणिकः । 3. अस्थि एव अस्थिकम् । 4. चण्डः एव चण्डकः 5. पीतः एव पीतकः । 6. स्तम्भः एव स्तम्भकः । 7. ज्ञातमेव ज्ञातकम् । अस्मिन् गणे कानिचन गणसूत्राणि पाठ्यन्ते । तानि एतादृशानि - 1. ऋतौ उष्णशीते - ऋतुवाचकः यः 'उष्ण' तथा 'शीत' शब्दः, तस्मात् स्वार्थे कन्-प्रत्ययः भवति । उष्णः ऋतुः स एव उष्णकः । शीतः ऋतुः स एव शीतकः - अन्यत्र तु न भवति - यथा - उष्णं जलम्, शीतं जलम् । 2. पशौ लूनवियाते - 'लून' (wounded), तथा 'वियात' (ill-behaved) एतौ शब्दौ यदा पशोः सन्दर्भे प्रयुज्येते, तदा ताभ्याम् स्वार्थे कन्-प्रत्ययः भवति । यथा - लूनः पशुः स एव लूनकः । वियातः पशुः स एव वियातकः । 3. अणु निपुणे - 'निपुणः' (= सूक्ष्मद्रष्टा, expert इत्याशयः) अस्मिन् अर्थे 'अणु' शब्दात् कन् प्रत्ययः भवति । अणुकः इत्युक्ते निपुणः । अत्र स्वार्थे प्रत्ययविधानम् न भवति यतः 'अणु' शब्दस्य अर्थः 'निपुणः' इति नैव विद्यते । 4. पुत्र कृत्रिमे - 'कृत्रिम' अस्मिन् अर्थे 'पुत्र' शब्दात् स्वार्थे 'क' प्रत्ययः भवति । कृत्रिमः पुत्रः (यथा - लोहस्य निर्मिता पुत्रप्रतिमा) सः पुत्रकः । 5. स्नात वेदसमाप्तौ - वेदाध्यनसमाप्तेः निर्देशं कर्तुम् 'स्नात' (purified / One whose threading ceremony is done इत्याशयः) शब्दात् स्वार्थे कन्-प्रत्ययः भवति । वेदाध्ययनम् यस्य समाप्तम् सः स्नातः स्नातकः । 6. शून्य रिक्ते - 'रिक्तम्' (empty) अस्मिन् अर्थे 'शून्य' शब्दात् स्वार्थे कन्-प्रत्ययः भवति । रिक्तम् शून्यम् तदेव शून्यकम् । 7. दान कुत्सिते - कुत्सितस्य दानस्य (A donation given with bad intentions) निर्देशार्थम् 'दान' शब्दात् स्वार्थे कन्-प्रत्ययः भवति । कुत्सितम् दानम् तदेव दानकम् । 8. तनु सूत्रे - 'सूत्र' (thread) शब्दात् 'तनु' (lean / thin) अस्मिन् सन्दर्भे स्वार्थे कन्-प्रत्ययः भवति । तनु सूत्रम् तदेव तनुकम् । 9. ईयसश्च -'ईयस्' इति कश्चन तद्धितप्रत्ययः **द्विवचनविभज्योपपदे तरबीयसुनौ** (5.3.57) इत्यनेन पाठ्यते ।अयम् प्रत्ययः यस्य अन्ते विद्यते, तस्मात् शब्दात् स्वार्थे कन्-प्रत्ययः भवति । यथा - श्रेयः तदेव श्रेयस्कम् । प्रेयः तदैव प्रेयस्कम् । गरीयः तदेव गरीयस्कम् । 10. कुमारीक्रीडनकानि च - कुमारीणाम् क्रीडायाः यानि साधनानि, तेभ्यः 'कन्' प्रत्ययः स्वार्थे भवति । यथा - कन्दुः स एव कन्दुकः । अत्र 'कुमारी' इति शब्दः लिङ्गनिरपेक्षः अस्ति । इत्युक्ते, बालिकाः तथा बालाः - द्वयोः अपि ग्रहणम् 'कुमारी' शब्देन अत्र भवति । विशेषः - केचन पण्डिताः यावादिगणमाकृतिगणम् मन्यन्ते । तेषाम् मतेन ये शब्दाः स्वार्थे कन्-प्रत्ययं स्वीकुर्वन्ति, ते सर्वे अस्मिन् गणे भवितुमर्हन्ति । यथा - बालः एव बालकः । स्मर्तव्यम् - 'कन्' प्रत्ययान्तशब्दानाम् विषये स्त्रीप्रत्यये परे अङ्गस्य ह्स्वादेशः तथा इकारादेशः भवति । यथा - बाला इत्येव = बाला + कन् + टाप् [यावादिगणस्य आकृतिगणत्वात् स्वार्थे कन्-प्रत्ययः । स्त्रीत्वे विवक्षिते **अजाद्यतष्टाप्** (4.1.4) इति टाप् ] → बाल + कन् + आ [**केऽणः** (7.4.13) इति ह्रस्वादेशः] → बालि + क + आ [**प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः** (7.3.34) इति इकारादेशः] → बालिका [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः] एवमेव अन्येषां विषये अपि ज्ञेयम् । Vasu English Summary -------------------- The affix कन् comes after the words याव etc. without changing their sense. Vasu English Translation ------------------------ The affix कन् comes after the words याव etc. without changing their sense. Thus यावकः = यावः, मणिकः = मणिः ॥ 1 याव, 2 मणि, 3 अस्थि, 4 तालु, 5 जानु, 6 लान्द्र, 7 पीत, 8 स्तम्ब (पीतस्तम्ब पोत, स्तम्ब) 9 ऋतावुष्णशीते, 10 पशौ लूनविपाते (वियाते), 11 अणु निपुणे, 12 पुत्र कृत्रिमे, 13 स्नात वेदसमाप्तौ, 14 शून्य रिक्ते, 15 दान कुत्सिते, 16 तनु सूत्रे, 17 ईयसश्च (श्रेयस्क) 18 ज्ञात, 19 अज्ञात, 20 कुमारीक्रीडनकानि च, 21 चण्ड, N. B. The affix कन् is added to उष्ण and शीत when denoting a season: as, उष्णक ऋतुः, शीतक ऋतुः ॥ Otherwise उष्णोऽग्निः, शीतमुदकं ॥ लून and वियात take कन् when denoting an animal, as लूनकः or वियातकः पशुः, otherwise लूनादर्भाः, वियातो नीचः, ॥ अणु takes कन् when meaning 'clever', as अणुकः सूक्ष्मदृक् otherwise अणु only. पुत्र takes कन् when meaning 'artificial', as, पुत्रको लोहादिनिर्मितः ॥ स्नात takes कन् when denoting a student who has completed his study of the Vedas, as स्नातकः ॥ शून्य takes कन् when meaning empty, as उदकादिना रिक्तोघटः शून्यकः, otherwise शून्यः प्रत्ययः i.e. बाह्यार्थ रहितः ॥ दान takes कन् when contempt is meant, as कुत्सितं दानं = दानकम् ॥ तनु takes कन् when meaning thread, तनुकं सूत्रं सूक्ष्मतन्तुः, otherwise तनुः शरीरम् ॥ The word ending in ईयसुन् takes कन्, as श्रेयस्कः ॥ The words denoting play things of girls take कन्, as कण्डुकम् ॥ Kashika ------- याव इत्येवमादिभ्यः स्वार्थे कन् प्रत्ययो भवति। याव एव यावकः। मणिकः॥ याव। मणि। अस्थि। चण्ड। पीत। स्तम्ब। ऋतावुष्णशीते (ग०सू० १४७)। पशौ लूनवियाते (ग०सू० १४८)। अणु निपुणे (ग० सू० १४९)। पुत्र कृत्रिमे (ग० सू० १५०)। स्नात वेदसमाप्तौ (ग०सू० १५१)। शून्य रिक्ते (ग०सू० १५२)। दान कुत्सिते (ग०सू० १५३)। तनु सूत्रे (ग०सू० १५४)। ईयसश्च (ग०सू० १५५)। श्रेयस्कः। ज्ञात। कुमारीक्रीडनकानि च (ग०सू० १५६)। यावादिः॥ Siddhanta Kaumudi ----------------- याव एव यावकः । मणिकः ॥ Balamanorama ------------ **यावादिभ्यः कन्** - यावादिभ्यः कन् । यावक इति । यवानामयं यावः=ओदनादिः, स एव यावकः । अलक्तवृक्षो वा यावः, स एव यावकः ।यवोऽलक्तो द्रुमामयः॑ इत्यमरः । Padamanjari ----------- ऋतावुष्णशीते इति। उप्णक ऋतुः, शीतक ऋतुः। ऋतोरन्यत्र तु - उष्णोऽग्निः, शीतमुदकम्। पशाविति। लूनकः पशुः, वियातकः पशुः। अन्यत्र - लूना दर्भाः, वियातो नीचः। अणु निपुण इति। अणुकःउसूक्ष्मदृक, निपुणः, अन्यत्राणुरेव। पुत्र कृत्रिमे। पुत्रको लोहादिनिर्मितः, अन्यत्र पुत्र एव। स्नात वेदसमाप्तौ। यस्याध्येतव्यो वेदः समाप्तःउपारं प्राप्तः, स वेदमधीत्य स्नास्यन्नित्यादिस्वगृह्यएक्तप्रक्रारेण स्नानाय चोदितःक स्नातकःउसमावृत उच्यते। अन्यत्र - नद्यां स्नातः। शून्य रिक्त इति। उदकादिना रिक्तो घटः शून्यकः। अन्यत्र - शून्यः प्रत्ययः, बाह्यार्थरहित इत्यर्थः। तथा शूने हितः शून्यः, गवादिषु'शुनः सम्प्रसारणं वा च दीर्घत्वं च' इति पठ।ल्ते। दान कुत्सिते। कुत्सितं दानं दानकम्। तनु सूत्रे। तनुकं सूत्रमुसूक्ष्मतन्तुः, अन्यत्र तनुःउशरीरम्। ईयसश्च।ईयसुन्नन्ताच्च स्वार्थे कन् भवति-श्रेयस्कम्। कुमारीक्रीडनकानि च। कुमारीणां यानि क्रीडनकानिउक्रीडासाधनानि तानि कनमुत्पादयन्ति - कण्डु(दु)कम् ॥ Nyaas ----- `ऋतौ` इत्यादि। उष्णशीते शब्दरूपे कनमुत्पादयत ऋतावभिधेये - उष्णक ऋतुः शीतक ऋतुः। अन्यत्र उष्णः, शीत इत्येव भवति। `पशौ लुनवियाते` इति। लूनवियाते शब्दरपे कनमुत्पादयतः पशावभिधेये - लूनकः पशुः, वियातकः पशुः। पशोरन्यत्र लूनम्, वियातम्। `अणु निपुणे` इति। अणुशब्दो निपुणार्थः कनमुत्पादयति - पुत्रकः। अन्यत्र पुत्रः। `स्नात वेदसमाप्तौ` इति। स्नातशब्दः कनमुत्पादयति वेदसमाप्तौ विवक्षितायाम्। यस्य वेदः समाप्तः स स्नातक इत्युच्यते। वेदसमाप्तावपिति किम्? नद्यां स्नातः। `शून्य रिक्ते` इति। शून्यशब्दः कनमुत्पादयति रिक्ते तच्छेऽभिधेये - शून्यकः, तुक्छ इत्यर्थः। अन्यत्र शून्यम्। `दान कुत्सिते` इति। दानशब्दः कुत्सिते कनमुत्पादयति - कृत्सितं दानं दानकम्। अन्यत्र तु दानम्। `तेनु सूत्रे` इति। तनुशब्दः प्रत्यमुत्पादयति सूत्रे - तनुकम्। अन्यत्र तनुः। `ईयसश्च` इति। ईयस्प्रत्यान्तात्? कन्? भवति - शेयस्कः। `कुमारीक्रीडनकानि च` इति। कुमारीणां यानि क्रीडनकानि तानि कनमुत्पादयन्ति - कन्दुकम्॥ Prakriyasarvasvam ----------------- याव एव यावकः । मणिक इत्यादि । 'ऋतावुष्णशीताभ्याम्' (स० ५-४- १५) । उष्णकः शीतकश्च ऋतुः । 'पशौ लूनवियाताभ्याम्' (स० ५-४-१६) । लूनकः पशुर्यज्ञे । वियातकोऽयं गौः । 'जातौ प्रियचित्रगुह्यगोलकुब्जादिभ्यः' (स० ५-४-१७) । प्रियकश्चित्रकश्च मृगजातिः । गोलकः कुविप्रजातिः । कुब्जको गजजातिः । आद्युक्तेः पुस्तकम् । 'अणोर्निपुणे' (स० ५-४-१८) । अणुकः सूक्ष्मदृक् । 'पुत्रात् कृत्रिमे' (स० ५-४-१९) । पुत्रकः सालभञ्जिका । 'स्नाता- द्वेदसमाप्तौ' (स० ५-४-२०) । स्नातकः समावृत्तः । शून्याद्रिक्ते' (५-४-२१) । जलादिरिक्तः कुम्भादिः शून्यकः । अन्यत्र शून्यो देशः । 'तनोः सूत्रे' (स० ५-४- २३) । तनुकः सूक्ष्मतन्तुः । 'कुमारक्रीडनकेभ्यः' (स० ५-४-२५) । कन्दुकः । भ्रमरकः । 'ईयसश्च' (स० ५-४-२७) । श्रेयस्कः, ज्यायस्कः ॥ Sutra Prayogas -------------- * **यावक** (शिशुपालवधम्): `यावादिभ्यः कन्` इति स्वार्थे कन् ।