54016: विसारिणो मत्स्ये ======================= **Padacheda:** विसारिणः | S | 5 | 1 | मत्स्ये | S | 7 | 1 | Sutrartha --------- **'विसारिन्' शब्दात् मत्स्यस्य निर्देशे कर्तव्ये स्वार्थे अण् प्रत्ययः भवति ।** 'मत्स्य (fish) इत्यस्य निर्देशार्थम् 'वि + सृ' धातोः णिनिँ प्रत्ययः यदा भवति, तदा तस्मात् स्वार्थे अण् प्रत्ययः अपि नित्यम् विधीयते - इति अस्य सूत्रस्य आशयः । यथा - विसरति (इतरत्र गच्छति, moves in different direction) मत्स्यः सः = वि + सृ + णिनि + अण् [**नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः** (3.1.134) इति णिनि-प्रत्ययः । ततः स्वार्थे अण्] → वि + सृ + इन् + अ [इत्संज्ञालोपः] → वि + सारिन् + अ [**अचो ञ्णिति** (7.2.115) इति वृद्धिः] → वैसारिन् + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → वैसारिन [**नस्तद्धिते** (6.4.144) इति टिलोपे प्राप्ते **इनण्यनपत्ये** (6.4.164) इति प्रकृतिभावः] → वैसारिण [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम्] विसरति सः वैसारिणः मत्स्यः । स्मर्तव्यम् - केवलम् मत्स्यस्य निर्देशार्थम् एव अत्र अण्-प्रत्ययः विधीयते । अन्येषु विषयेषु तु केवलम् 'णिनि' प्रत्ययान्तरूपमेव प्रयुज्यते । यथा - विसारतिः सः विसारी मण्डूकः सर्पः वा । (विसारिन् इति प्रातिपदिकम् । अस्य पुंलिङ्गस्य प्रथमैकवचनम् 'विसारी' इति ।) ज्ञातव्यम् - यद्यपि इदम् सूत्रम् **समर्थानाम् प्रथमात् वा** (4.1.82) इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - 'आमादयः प्राङ्मयटः नित्याः' । इत्युक्ते, **किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे** (5.4.11) इत्यस्मात् आरभ्य **एकस्य सकृच्च** (5.4.19) इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । अतः वर्तमानसूत्रस्य सन्दर्भे अपि मत्स्यस्य निर्देशे कर्तव्ये 'वैसारिण' इति अण्-प्रत्ययान्तरूपम् एव प्रयोक्तव्यम् । Vasu English Summary -------------------- The affix अण् (अ) is added to the word विसारिन् when a word expressing 'fish' is to be made. Vasu English Translation ------------------------ The affix अण् (अ) is added to the word विसारिन् when a word expressing 'fish' is to be made. Thus वैसारिणः "a fish". Why do we say "when it means a fish"? Observe विसारी देवदत्तः "*Devadatta* who is gliding out". Kashika ------- विसरतीति विसारी। विसारिन्शब्दात् स्वार्थेऽण् प्रत्ययो भवति मत्स्येऽभिधेये। वैसारिणो मत्स्यः। मत्स्य इति किम्? विसारी देवदत्तः॥ Siddhanta Kaumudi ----------------- अण् स्यात् । वैसारिणः । मत्स्ये इति किम् । विसारी देवदत्तः ॥ Balamanorama ------------ **विसारिणो मत्स्ये** - विसारिणो मत्स्ये । 'अणिनुणः' इति पूर्वसूत्रादण्णित्यनुवर्तते । तदाह — अण् स्यादिति । मत्स्ये विद्यमानाद्विसारिन्शब्दात्स्वार्थे अण् स्यादित्यर्थः । वैसारिण इति । इनण्यनपत्ये॑ इति प्रकृकतिभावाट्टिलोपो न । Tattvabodhini ------------- **विसारिणो मत्स्ये** - विसारिणो । पूर्ववदिहापि णिनिः । हरदत्तस्तु -॒सुप्यजातौ॑इति णिनिरूपसर्गभिन्न एव सुप्यपपदे भवतीत्याशयेन पूर्वसूत्रेऽस्मश्च अतएव निपातनाण्णिनिरित्याह । तदयुक्तम् ।स बभूवोपजीविनाम्,अनुयायिवर्गः॑,न वञ्चनीयाः प्रभावोऽनुजीविभि॑रित्यादिप्रयोगानुरोधेन उपसर्गे सुप्युपपदेऽपि णिनेरवश्यस्वीकर्तव्यतया निपातनाश्रयणस्य व्यर्थत्वात् ।अणिनुणः॑इत्यतोऽनुवर्तनादाह -अण् स्यादिति । वैसारिण इति ।इनण्यनपत्ये॑इति प्रकृतिभावः । सङ्ख्यायाः । अभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिर्गृह्रते, तदा षट्कृत्वः प्रवृत्तौ पञ्चकृत्व इति स्यात्, अतोऽत्र विवक्षितमर्थमाह -अभ्यावृत्तिर्जन्मेति । Padamanjari ----------- विसारीति। पूर्ववण्णिनिः। वैसारिण इति। पूर्ववत्प्रकृतिभावः ॥ Nyaas ----- `विसारी` इति। पूर्ववण्णिनिः। `वैसारिणः` इति। पूर्ववत्प्रकृतिभावः॥ Prakriyasarvasvam ----------------- विसारिञ्छब्दान्मत्स्ये वाच्येऽण् । वैसारिणः ॥