54014: णचः स्त्रियामञ् ====================== **Padacheda:** णचः | S | 5 | 1 | स्त्रियाम् | S | 7 | 1 | अञ् | S | 1 | 1 | Sutrartha --------- **णच्-प्रत्ययान्तशब्देभ्यः स्त्रीलिङ्गे नित्यमञ्-प्रत्ययः विधीयते ।** 'णच्' इति कश्चन कृत्-प्रत्ययः । **कर्मव्यतिहारे णच् स्त्रियाम्** (3.3.43) इत्यनेन कर्मव्यतिहारे (When exchange of actions is indicated. E.g. two people shouting on each other, two people making fun of each other etc.) स्त्रीलिङ्गे वाच्ये धातोः 'णच्' इति प्रत्यय विधीयते । अस्मात् णच्-प्रत्ययात् वर्तमानसूत्रेण 'अञ्' प्रत्ययः स्वार्थे विधीयते । यथा - 'वि + व् + क्रुश्' इत्यस्मात् धातोः स्त्रीलिङ्गे कर्मव्यतिहारे वक्तव्ये **कर्मव्यतिहारे णच् स्त्रियाम्** (3.3.43) इत्यनेन णच्-प्रत्यये कृते इयम् प्रक्रिया भवति - व्यवक्रोशति इत्येव = वि + अव् + क्रुश् + णच् + अञ् [वर्तमानसूत्रेण स्वार्थे अञ्-प्रत्ययः] → व्यवक्रुश् + अ + अ [इत्संज्ञालोपः] → व्यवक्रोश् + अ + अ [**पुगन्तलघूपधस्य च** (7.3.86) इति उपधागुणः] → व्यावक्रोश् + अ + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → व्यावक्रोश् + अ [**यस्येति च** (6.4.148) इति अकारलोपः] → व्यावक्रोश + ङीप् [स्त्रीत्वे विवक्षिते **टिड्ढाणञ्...** (4.1.15) इति ङीप्] → व्यावक्रोश् + ङीप् [**यस्येति च** (6.4.148) इति अकारलोपः] → व्यावक्रोशी एवमेव - 2. व्यवहसति सा = वि + अव् + हस् + णच् + अञ् → व्यावहासी । 3. व्यावलिखति सा = वि + अव् + लिख् + णच् + अञ् → व्यावलेखी । एतादृशाः शब्दाः अपि सिद्ध्यन्ति । ज्ञातव्यम् - 1. वस्तुतः **कर्मव्यतिहारे णच् स्त्रियाम्** (3.3.43) इत्यनेन णच्-प्रत्ययः स्त्रीलिङ्गे वाच्ये एव विधीयते । अतः अस्मात् स्वार्थे विहितः अञ्-प्रत्ययः अपि स्त्रीलिङ्गे वाच्ये एव भवितुमर्हति । एवम् सत्यपि वर्तमानसूत्रे 'स्त्रियाम्' इति पुनर्निदेशः कृतः अस्ति । अयम् निर्देशः अस्य ज्ञापकम्, यत् कुत्रचित् स्वार्थिकप्रत्ययानाम् प्रयोगेण लिङ्गपरिवर्तनमपि भवितुमर्हति । यथा - 'चत्वारः वर्णाः तदेव चातुर्वर्णम्', 'त्रयाः लोकाः तदेव त्र्यैलोक्यम्', 'देव एव देवता', 'ह्रस्वा कुटी सा एव कुटीरः' - आदीषु उदाहरणेषु यद्यपि प्रत्ययः स्वार्थे विधीयते, तथापि तद्धितान्तशब्दस्य लिङ्गम् प्रकृत्याः लिङ्गात् भिन्नम् विद्यते । अस्य ज्ञापकार्थम् एव वर्तमानसूत्रे 'स्त्रियाम्' इति निर्देशः क्रियते । 2. यद्यपि इदम् सूत्रम् **समर्थानाम् प्रथमात् वा** (4.1.82) इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - 'आमादयः प्राङ्मयटः नित्याः' । इत्युक्ते, **किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे** (5.4.11) इत्यस्मात् आरभ्य **एकस्य सकृच्च** (5.4.19) इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । इत्युक्ते, 'व्यवक्रोशति सा' इत्यस्मिन् अर्थे 'व्यावक्रोशी' इत्येव शब्दः प्रयोक्तव्यः । केवलम् 'णच्' प्रत्ययं कृत्वा रूपमत्र न प्रयोक्तव्यम् - इति आशयः । Vasu English Summary -------------------- The affix अण् (अ) comes without changing the sense, after a word ending in the affix णच् (अ) when the word is feminine. Vasu English Translation ------------------------ The affix अण् (अ) comes without changing the sense, after a word ending in the affix णच् (अ) when the word is feminine. By (3.3.43) the affix णच् is ordained after feminine words denoting reciprocity of action. The affix अञ् comes after such a word without changing the sense, when the thing denoted is feminine Thus व्यावक्रोशी, व्यावहासी वर्त्तते ॥ Q.-Why the word स्त्री "feminine" is repeated in this *sutra*, when we already know from (3.3.43) that णच् comes only after feminine words; and a *svarthika* affix like अञ् coming after a feminine word will keep the word feminine?. Ans.- The repetition of the word स्त्री in this *sutra*, teaches by implication (*jnapaka*) the following "स्वार्थिकाः प्रत्ययाः प्रकृतितो लिंगवचनान्यतिवर्त्तन्तेऽपि" :- "Sometimes it happens that bases which are derived by means of affixes that do not convey any particular meaning of their own, but leave the meaning which is conveyed by the original to which they are added, unchanged, do not take their gender and number from those original bases from which they are derived". Thus गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना (सुरा विशेषः) formed by adding the *swartha* affix कल्प (5.3.67) to गुड and तैल, the resultant words being in the feminine gender. Similarly from देव-देवता is derived without change of meaning, but change of gender. Bhashya ------- णचः स्त्रियामञ्ञ् (2291) (अञ्ञोऽधिकरणम्) (स्त्रीग्रहणस्य ज्ञापकत्वोपपादकभाष्यम्) स्त्रीग्रहणं किमर्थम्, न स्वार्थिकोऽयम्? स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते। एवं तर्हि सिद्धे सति यत् स्त्रीग्रहणं करोति तज्ज्ञापयत्याचार्यः - स्वार्थिका अतिवर्तन्तेऽपि लिङ्गवचनानीति। किमेतस्य ज्ञापने प्रयोजनम्? गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, पयस्कल्पा यवागूरित्येतत्सिद्धं भवति॥ Kashika ------- **कर्मव्यतिहारे णच् स्त्रियाम्** (३.३.४३) इति णच् विहितः, तदन्तात् स्वार्थेऽञ् प्रत्ययो भवति स्त्रियां विषये। व्यावक्रोशी। व्यावहासी वर्तते। स्त्रीग्रहणं किमर्थं यावता णच् स्त्रियामेव विहितः, ततः स्वार्थिकस्तत्रैव भविष्यति? एवं तर्ह्येतज् ज्ञापयति — **स्वार्थिकाः प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि** इति। तेन गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, देव एव देवतेत्येवमादि उपपन्नं भवति॥ Tattvabodhini ------------- **णचः स्त्रियामञ्** - णचः स्त्रि । अनेन णजिति चकारोऽत्र विशेषणार्थं इति ध्वनितम् । स्त्रियां किम् । व्यतिपाको वर्तते । Padamanjari ----------- व्यावक्रोशीति। व्यवपूर्वात्क्रुशेर्णच्,'कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' णजन्तेऽनुप्रवेशात्समुदायादञ्, तस्याङ्गत्वादादिवृद्धिः।'न य्वाभ्यां पदान्ताभ्याम्' इत्येष विधिर्न भवति;'न कर्मव्यति हारे' इति निषेधात्। तत इति। णचः, णजन्तादित्यर्थः। स्वार्तिकस्तत्रैव भविष्यतीति।'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते' इति कृत्वा। अतिवर्तन्तेऽपीति। व्यभिचरन्त्यपीत्यर्थः। अपिशब्दादनुवर्तन्तेऽपि, अनुवृत्तिस्तु'कासूगोणीभ्यां ष्ठरच्' इति षित्करणान्ङीषर्थादवसीयते। एकान्ततो निवृते हि षकारोऽर्थको भवेत्, तेनेत्यादिना ज्ञापनस्य प्रयोजनं दर्शयति। प्रसन्नाउसुराविशेषः। देवतेति। देवशब्दात्पुंल्लिङ्गादेव तल् ॥ Nyaas ----- `व्यावक्रोशी` इति। `क्रश आह्वाने` (धा। पा। 856) इत्यस्माण्णच, लघूपधगुणः, णजन्तादञ्। स च कृदग्रहणपरिभाषया (व्या। प। 126) सगतिकाद्बवति। तेन सगतिकमेवेह प्रतिपदिकसंज्ञां प्रतिपद्यते, न कर्मव्यतिहार इति प्रतिषेधादेव वृद्धिप्रतिषेधयोरादिवृद्धिरेव भवति। `टिङ्ढाणञ्` (4.1.15) इति ङीप्। `व्यावहासी` इति। `अत उपदायाः` (7.2.116) इति वृद्धिः। `ततः` इति। णजन्तादिति यावत्। `स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते (जै।प।वृ। 95) इति कृत्वा। `एवं तर्हि` इत्यादिना स्त्रीग्रहणं ज्ञापकं दर्शयति। `तेन` इत्यादिना ज्ञापकस्य प्रयोजनम्। `अतिवर्तन्तेऽपि` इति। व्यभिचरन्त्यपीत्यर्थः। अपिशब्दादनुवर्तन्तेऽणीति। यदि स्वार्थिकानां प्रकृतितो लिङ्गवचनानुवृत्तिव्यभिचारो ज्ञाप्यते, ततो गुडादिभ्यः पुंलिङ्गाद्यनुगतेभ्यश्च स्वार्थे कल्पबादयो भवति, तेषां पुंल्लिङ्गवचनं च तदैव भवेत्? ततश्च गुडकल्पा द्रक्षेत्येवमादि नोपपद्यते। तस्मस्तु ज्ञापिते लिङ्गान्तरञ्च भवतीति। तेन सर्वमेतदुपपन्नं भवति। आदिशब्देनापि तैलकल्पा, चातुर्वण्र्यम्, त्रैलोक्यमित्येवमादीनां ग्रहणम्॥ Prakriyasarvasvam ----------------- णजन्तात् स्त्रियां स्वार्थे तद्धितोऽञ् स्यात् । Sutra Prayogas -------------- * **व्यावहासीमनाश्रितैः** (भट्टिकाव्यम्): `कर्मव्यतीहारे णचः स्त्रियाम्` इति स्त्रीलिङ्गे भावे णचं विधाय णचः स्त्रियामम्।