54013: अनुगादिनष्ठक् ==================== **Padacheda:** अनुगादिनः | S | 5 | 1 | ठक् | S | 1 | 1 | Sutrartha --------- **'अनुगादिन्' शब्दात् स्वार्थे 'ठक्' प्रत्ययः भवति ।** 'अनुगादिन्' इति शब्दः 'अनु + गद्' इत्यस्मात् **नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः** (3.1.134) इत्यनेन 'णिनि' प्रत्ययं कृत्वा सिद्ध्यति । 'अनन्तरम् वदति' (speaks later) अस्मिन् अर्थे 'अनुगादिन्' शब्दः प्रयुज्यते । अस्मात् वर्तमानसूत्रेण स्वार्थे ठक्-प्रत्ययः भवति । यथा - अनुगदति सः = अनु + गद् + णिनि + ठक् [**नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः** (3.1.134) इत्यनेन 'णिनि'प्रत्ययः । वर्तमानसूत्रेण स्वार्थे 'ठक्' प्रत्ययः] → अनु + गद् + इन् + इक [ **ठस्येकः** (7.3.50) इति इक्-आदेशः] → अनु + गाद् + इन् + इक [**अतः उपधायाः** (7.2.116) इति 'णिनि' प्रत्ययस्य अङ्गस्य उपधावृद्धिः] → आनु + गाद् + इन् + इक [**किति च** (7.2.118) इति 'ठक्' प्रत्ययस्य अङ्गस्य आदिवृद्धिः] → आनु + गाद् + इक [**नस्तद्धिते** (6.4.144) इति टिलोपः] → आनुगादिक विशेषः - यद्यपि इदम् सूत्रम् **समर्थानाम् प्रथमात् वा** (4.1.82) इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - 'आमादयः प्राङ्मयटः नित्याः' । इत्युक्ते, **किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे** (5.4.11) इत्यस्मात् आरभ्य **एकस्य सकृच्च** (5.4.19) इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । इत्युक्ते, 'अनुगदति सः' इत्यस्मिन् अर्थे 'आनुगादिक' इत्येव शब्दः प्रयोक्तव्यः । केवलम् 'इनि' प्रत्ययं कृत्वा रूपमत्र न प्रयोक्तव्यम् । 'ठक्' प्रत्ययविधानमपि करणीयम् एव । Vasu English Summary -------------------- The affix ठक् comes after the word अनुगादिन , without changing its sense. Vasu English Translation ------------------------ The affix ठक् comes after the word अनुगादिन , without changing its sense. Thus आनुगादिकः "repeater or who echoes back". Kashika ------- अनुगदतीत्यनुगादी। अनुगादिन्शब्दात् स्वार्थे ठक् प्रत्ययो भवति। आनुगादिकः॥ Siddhanta Kaumudi ----------------- अनुगदतीत्यनुगादी । स एव आनुगादिकः ॥ Balamanorama ------------ **अनुगादिनष्ठक्** - अनुगादिनष्ठक् । 'स्वार्थे' इति शेषः । 'आमादयः प्राङ्भयटः' इत्युक्तेष्ठगादयो नित्या एव प्रत्ययाः । अनुगादीति । 'सुप्यजातौ' इति णिनिः । प्रकृतिप्रदर्शनमिदम् । ठको नित्यत्वात्स एवेत्यस्वपदविग्रहप्रदर्शनम् । आनुगादिक इति । 'नस्तद्धिते' इति टिलोपः । इह क्रमेणचः स्त्रिया॑मिति 'अणिनुणः' इति च सूत्रद्वयं पठितं कृदधिकारे व्याख्यास्यते । Tattvabodhini ------------- **अनुगादिनष्ठक्** - अनुगादिनः । प्रकृति रुआऊपप्रदर्शनपरं चैतन्न त्वयं केवलः प्रयोगार्हः, ठको नित्यत्वादिति हरदत्तः ।सुप्यजातौ॑इति णिनिः । Nyaas ----- `अनुगदतीत्यनुगादी` इति। ग्रहादित्वाण्णिनिः। आवाश्यके वा, ताच्छील्ये वा, अस्मादेव निपातनाच्च॥ Prakriyasarvasvam ----------------- अनुगाद्येवानुगादिकः ॥