54003: स्थूलादिभ्यः प्रकारवचने कन् ================================== **Padacheda:** स्थूलादिभ्यः | S | 5 | 3 | प्रकारवचने | S | 7 | 1 | कन् | S | 1 | 1 | Sutrartha --------- **स्थूलादिगणस्य शब्देभ्यः प्रकारस्य निर्देशं कर्तुम् कन्-प्रत्ययः भवति ।** प्रकारस्य निर्देशार्थम् **प्रकारवचने जातीयर्** (5.3.69) अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः स्वार्थे जातीयर्-प्रत्ययः भवति । परन्तु एतम् बाधित्वा स्थूलादिगणस्य शब्देभ्यः वर्तमानसूत्रेण 'कन्' प्रत्ययः विधीयते । स्थूलादिगणः अयम् - स्थूल, अणु, माष, इषु, कृष्ण तिलेषु (गणसूत्रम्), यव व्रीहिषु (गणसूत्रम्), पाद्यकालावदाताः सुरायाम् (गणसूत्रम्), गोमूत्र आच्छादने (गणसूत्रम्), सुराया अहौ (गणसूत्रम्), जीर्ण शालिषु (गणसूत्रम्), पत्रमूले समस्तव्यस्ते (गणसूत्रम्), कुमारीपुत्र, कुमार, श्वशुर, मणि । विशेषः - पदमञ्जर्यां उच्यते - 'प्रकारो भेदः सादृश्यं च, उभयत्रापि यथाभिधानं कन् भवति' । अस्य अर्थः अयम् - 'प्रकार' शब्दस्य द्वौ अर्थौ स्तः - भेदः (type), तथा 'सादृश्यम्' (similarity) । द्वयोः अपि अर्थयोः यथायोग्यम् प्रत्ययविधानम् भवति । अतः 'स्थूलक' इत्यनेन 'स्थूलस्य कश्चन भेदः' तथा 'स्थूलसादृश्यः एव कश्चन पदार्थः' द्वौ अपि अर्थौ विधीयेते । उदाहरणानि 1. स्थूलस्य प्रकारः = स्थूल + क → स्थूलक । स्थूलस्य कश्चन भेदः / स्थूलसदृशः कश्चन - इत्याशयः । 2. अणोः प्रकारः = अणु + क → अणुक । अणोः कश्चन भेदः / अणुसदृशः कश्चन - इत्याशयः । 3. इषोः प्रकारः = इषु + क → इषुक । इषोः (arrow) कश्चन भेदः / इषुसदृशः कश्चन - इत्याशयः । स्थूलादिगणे कानिचन गणसूत्राणि अपि पाठ्यन्ते । एतैः गणसूत्रैः विशिष्टेषु अर्थेषु कन्-प्रत्ययविधानम् क्रियते । 1. कृष्ण तिलेषु - कृष्णवर्णस्य तिलानाम् निर्देशार्थम् कृष्णशब्दात् 'कन्' प्रत्ययः भवति । कृष्णप्रकारस्य तिलाः ते कृष्णकाः तिलाः । 2. यव व्रीहिषु - यवसदृशानाम् व्रीहीनाम् निर्देशार्थम् 'यव' शब्दात् 'कन्' प्रत्ययः भवति । यवप्रकारस्य व्रीहयः ते यवकाः व्रीहयः । 3. पाद्यकालावदाताः सुरायाम् - 'पाद्य', 'काल', तथा 'अवदात' एतेभ्यः शब्देभ्यः सुरायाः निर्देशार्थम् कन्-प्रत्ययः भवति । यथा - पाद्यप्रकारा (A quarter of सुरा) सुरा सा पाद्यिका सुरा । कालप्रकारा सुरा (a very old सुरा) सा कालिका सुरा । अवदातप्रकारा (white / pure / clean) सुरा सा अवदातिका सुरा । 4. गोमूत्र आच्छादने - 'गोमुत्र' शब्दात् 'आच्छादन'स्य निर्देशार्थ् कन्-प्रत्ययः भवति । गोमुत्रप्रकारमाच्छादनम् (A covering that is zigzag just like how cow-urine falls on ground - इत्याशयः) तत् गोमुत्रकमाच्छादनम् । 5. सुराया अहौ - 'सुरा'शब्दात् 'अहेः निर्देशार्थम् (सर्पस्य निर्देशार्थम्) कन्-प्रत्ययः भवति । सुराप्रकारः अहिः (A snake similar to the color of सुरा) सः सुरकः अहिः । प्रक्रियायाम् **केऽणः** (7.4.13) इत्यनेन 'सुरा' शब्दस्य आकारस्य ह्रस्वादेशः भवति । 6. जीर्ण शालिषु - 'जीर्ण' शब्दात् शालेः निर्देशार्थम् (A type of rice) कन्-प्रत्ययः भवति । जीर्णः शालिः सः जीर्णकः । 7. पत्रमूले समस्तव्यस्ते - पत्र, मूल, तथा पत्रमूल - त्रिभ्यः अपि शब्देभ्यः कन्-प्रत्ययः भवति । पत्रस्य प्रकारः पत्रकम् । मूलस्य प्रकारः मूलकम् । पत्रमूलस्य प्रकारः पत्रमूलकम् । अत्र एकम् वार्त्तिकमपि ज्ञातव्यम् - । इत्युक्ते, 'चञ्चत्' (moving / walking) तथा 'बृहत्' (सामवेदस्य कश्चन विभागः) एताभ्याम् शब्दाभ्यामपि कन्-प्रत्ययः भवति । चञ्चतः प्रकारः चञ्चत्कः (यः कश्चन स्थिरः अस्ति परन्तु चञ्चत्सदृशः भासते, तस्य निर्देशार्थमस्य शब्दस्य प्रयोगः भवति) । बृहतः प्रकारः बृहत्कः (A series of ऋचा similar to the बृहत् part of Samved) विशेषः - अस्य वार्त्तिकस्य इति अपि निर्देशः कैश्चन क्रियते । तेषाम् मतेन 'चञ्चा' (scarecrow) तथा 'बृह' (= बृहत् इत्येव, large) शब्दाभ्याम् प्रकारवचने द्योते कन्-प्रत्ययः विधीयते । यथा - चञ्चाप्रकारः चञ्चकः (यः पुरुषः चञ्चावत् शीतम् वातम् वा न सहते, तस्य निर्देशार्थम् 'चञ्चक' शब्दः प्रयुज्यते । प्रक्रियायाम् **केऽणः** (7.4.13) इत्यनेन 'चञ्चा' शब्दस्य आकारस्य ह्रस्वादेशः भवति ) । एवमेव - बृहस्य प्रकारः बृहकः । स्मर्तव्यम् - एतत् सूत्रम् **समर्थानां प्रथमाद्वा** (4.1.82) इत्यत्र पाठितायां महाविभाषायां पाठ्यते, अतः अनेन सूत्रेण उक्तः प्रत्ययः विकल्पेन भवति । अतः पक्षे 'बृहस्य प्रकारः' इत्यपि प्रयोगः अपि साधु । Vasu English Summary -------------------- The affix कन् comes in the sense of 'like that or speciality', after the words स्थूल etc. Vasu English Translation ------------------------ The affix कन् comes in the sense of 'like that or speciality', after the words स्थूल etc. This debars the affix जातीयर् (5.3.69). Thus स्थूलप्रकारः = स्थूलकः "bulky". So also अणुकः, माषकः ॥ Vart:- The words चंचत् and बृहत् should be included in the list of *sthuladi* words. As, चंचत्कः, बृहत्कः ॥ According to one version the words are चंचा and बृहा and not चंचत् and बृहत्. So the derivatives will be बृहकः and चंचकः the words that end in long vowels आ, ई or ऊ, shorten their vowels before this affix, by (7.4.13). As, सुरा + कन् = सुरकः "snake-like". The word कृष्ण takes कन् when *tila* is meant; as कृष्णप्रकारास्तिला = कृष्णकाः ॥ यव takes कन् when meaning व्रीहि, as यवकाः ॥ इक्षु, तिल, पाद्य, काल, and अवदात take this affix when wine is meant, a पाद्यिका, कालिका, अवदातिका "a kind of wine". गोमूत्र takes this affix when meaning a covering, as गोमूत्रकः 'a covering of the colour of cow's wine, or *go*-*mutra* may mean a certain arrangement of colours such as white and black". सुरा takes कन् meaning a snake, as सुरकः (7.4.13) "a kind of snake of the color of wine". जीर्ण takes it when meaning *sali* grain, as जीर्णकाः = जीर्णकल्पा शालयः ॥ The following is a list of *Sthuladi* words. 1 स्थूल, 2 अणु, 3 माष, 4 इषु, 5 कृष्ण तिलेषु, 6 यव व्रीहिषु, 7 इक्षुतिलपाद्यकालावदाताः सुरायाम्, 8 गोमूत्र आच्छादने, 9 सुरा अहौ, 10 जीर्ण शालिषु, 11 पत्रमूले समस्तव्यस्ते, 12 कुमारीपुत्र, 13 कुमारीश्वशुर (कुमार, श्वशुर), 14 मणि ॥ Bhashya ------- स्थूलादिभ्यः प्रकारवचने कन् (2280) (कनोऽधिकरणम्) (5900 उपसंख्यानवार्तिकम्॥ 1 ॥) - कन्प्रकरणे चञ्ञ्चद्बृहतोरुपसंख्यानम् - (भाष्यम्) कन्प्रकरणे चञ्ञ्चद्बृहतोरुपसंख्यानं कर्तव्यम्। चञ्ञ्चत्कः, बृहत्कः॥ Kashika ------- स्थूलादिभ्यः प्रकारवचने द्योत्ये कन् प्रत्ययो भवति। जातीयरोऽपवादः। प्रकारो विशेषः। स्थूलप्रकारः स्थूलकः। अणुकः। माषकः॥ कन्प्रकरणे चञ्चद्बृहतोरुपसंख्यानम्॥ चञ्चत्प्रकारः चञ्चत्कः। बृहत्कः। चञ्चबृहयोरिति केचित् पठन्ति। तेषां चञ्चकः, बृहक इति उदाहरणं द्रष्टव्यम्॥ स्थूल। अणु। माष। इषु। कृष्ण तिलेषु (ग०सू० १४०)। यव व्रीहिषु (ग०सू० १४१)। पाद्यकालावदाताः सुरायाम् (ग०सू० १४२)। गोमूत्र आच्छादने (ग०सू० १४३)। सुरा अहौ (ग०सू० १४४)। जीर्ण शालिषु (ग०सू० १४५)। पत्रमूले समस्तव्यस्ते (ग०सू० १४६)। कुमारीपुत्र। कुमार। श्वशुर। मणि। स्थूलादिः॥ Siddhanta Kaumudi ----------------- जातीयरोऽपवादः । स्थूलकः । अणुकः । (वार्तिकम्) ॥ चञ्चत्कः । बृहत्कः ॥ (गणसूत्रम् -) सुराया अहौ । सुरावर्णोऽहिः सुरकः ॥ Balamanorama ------------ **स्थूलादिभ्यः प्रकारवचने कन्** - स्थूलादिभ्यः । प्रकारो भेदः सादृश्यं च, व्याख्यानात्, तद्वति वर्तमानाद्यथायोयं कन्नित्यर्थः । जातीयरोऽपवाद इति । एतेन अयमपि तद्वदेव प्रकारवति भवति, नतु प्रकारमात्रे इति सूचितम् । चञ्चत्क इति । चञ्चधातुश्चलने । अचञ्चन्नपि यश्चञ्चन्निव दृश्यते स चञ्चत्कः । यथा स्पन्दमानस्वच्छजनमध्यवर्ती मणिः । बृहत्क इति । अबृहन्नपि बृहन्निव दृश्यते स बृहत्कः, बृहदाख्यसामविशेषो वा । सुराया अहाविति । गणसूत्रमिदम् ।॒प्रकारवचने क॑न्निति शेषः । सुराया अहावेवेति नियमार्थमिदम् । सुरक इति । 'केऽण' इति ह्रस्वः । Tattvabodhini ------------- **स्थूलादिभ्यः प्रकारवचने कन्** - स्थूलादिभ्यः । प्रकारोभेदः सादृश्यं च । उभयत्रापि यथासंभवं कन् । जातीयरोऽपवाद इति । तेनायमपि तद्वदेव प्रकारवति भवति न तु प्रकारमात्रे इत्युक्तं भवति ।चञ्चद्बृहतोरूपसंख्यानम् । चञ्चाद्बृहतोरिति । एंतावपि स्थूलादिष्वेव पठितव्याविति भावः । चञ्चत्क इति । चञ्चतिश्चलनकर्मा । चञ्चत्कः । एवं बृहद्विशेषो बृहत्कः । अचञ्चन्नबृहन्नपि प्रभाविशेषाच्चञ्चन्निव बृहन्निव मणिविशेषो लक्ष्यते स चञ्चत्कः । बृहत्कः । सुरक इति ।केऽणः॑इति ह्रस्वः । Padamanjari ----------- प्रकारवचने द्योत्य इति। प्रकारवचने कन् द्योत्य इत्यर्थः। यथौदनं पचतीत्यत्रैवार्थे ओदनपाकं पचतीति। यद्वा-प्रकारौच्यते स्थूलादिभिरिति द्योतनायेत्यर्थः। प्रकारवाचिभ्यः कन् भवति, तदेव प्रकारवचनत्वं द्योतयितुमिति यावत्। जातीयरोऽपवाद इति। तेनायमपि तद्वदेव प्रकारवति कभवति, न प्रकारमात्र इत्युक्तं भवति। प्रकारःउभेदः, सादृश्यं च, उभयत्रापि यथाभिधानं कन् भवति। वृतौ तु प्रकारो भेद इत्युपलक्षणम्। चञ्चद्बृहतोरिति। एतावपि स्थूलादिषु पठितव्यावित्युक्तं भवति। चञ्चत्क इति। चञ्चतिश्चलनकर्मा चञ्चत्प्रकारश्चञ्चन्नेवं कश्चिद्विशेष उच्यते। तथा बृहद्विशेषो बृहत्कः। अपर आह - सादृश्येऽत्र कन्, अचञ्चन्नपि यश्चञ्चन्निव लक्ष्यते स बृहत्क इति। चञ्चाउबृणमयः पुरुषः, तत्सदृशश्चञ्चकः।'के' णःऽ इति ह्रस्वः। स्थूलाणुमाषेष्विति। स्थूल, अणु, णाप, इपु - इति चतस्रः प्रकृतयः कृष्णतिलेष्विति। कृष्णप्रकारास्तिलाः कृष्णकाः। यवकाः यवसदृशाः। पाद्यकालावदाताः सुरायामिति। पाद्यिका, कालिका, अवदातिका, सुराविशेषा एते। गोमूत्रकमुगोमूत्रप्रकारं गोमूत्रवर्णमाच्छादनम्। यद्वा - विन्यासविशेषो गोमूत्रम्, तत्सदृशं तु गोमूत्रकम्। यत्र तु शुक्लकृष्णादिवर्णविन्यासः सुरावर्णोऽहिः सुरकः, पूर्ववद् ह्रस्वः। जीर्णप्रकाराः जीर्णकल्पाः शालयो जीर्णकाः। जातीयरोऽनन्तरमेवायं कन् विधेयः, एवं हि पुनः'प्रकारवचने' इति न वक्तव्यं भवति। इह तु करणेऽज्ञातः स्थूलप्रकार इति प्रकारस्याज्ञातादीनां च युगपद्विवक्षायां परत्वादनेन कनि कृते पुनः प्रसङ्गविज्ञानादज्ञातादिद्योतनाय पुनः को भवति। तत्र तु करणे परत्वात्के कृते पुनः प्रसङ्गविज्ञानादज्ञातादिद्योतनाय पुन को भवति। तत्र तु करणे परत्वात्के कृते कन्न स्यात्; शब्दान्तरत्वात्। सत्यपि वा कनि स्थूलकक इत्याद्यौदातं स्यात् ॥ Nyaas ----- `जातयरोऽपवादः` इति। एतेन यथा प्रकारवचने विधीयमानो जातीयर्? प्रकारवति न प्रकारमात्रे, तथायमपीति दर्शयति; अन्यथा हि जातीयरोयं विषयभेदादपवादो नोपपद्यते, अथ किमर्थ **प्रकारवचने जातीयर्** (5.3.69) इत्यस्यैवानन्तरं स्थूलादिभ्यः कन्? न विधीयते? किं कृतं भवति? कन्? प्रकारवचनं न वक्तव्यं भवति? नैवं शक्यम्; स्थूलादीनां हि प्रकारस्याज्ञातादीनां च युगपद्विवक्षायां परत्वात्? के कृते कन्न स्यात्; शब्दान्तरत्वात्। अथापि स्यात्? एवमपि स्थूलक इत्याद्युदात्तत्वं स्यात्, इह तु कनो विधाने परत्वात्? परत्वात्? कनि कृति ततः क इत्यन्तोदात्तत्वं सिद्धं भवति। `चञ्चद्बृहतोः` इत्यादि। स्थालादिषु चञ्चद्बृहतोरपाठात्? तन्न प्राप्नोति। तस्मादुपसंख्यानं प्रतिपादनं कर्तव्यम्। तत्रेदं प्रतिपादनम् - पूर्वसूत्रादिह चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः। तेन चञ्चद्बृहतोरपि भविष्यतीति। `स्थालाणुमाषेषु` इति। केचिदेताश्चतरुआः प्रकृतस्य इति वर्णयन्ति। स्थूलकः अणुकः। माषकः। इषुकः। अपरे तु स्थूलाणुशब्दौ प्रकृती, माषेष्वित्ययं तपाधिनिर्देश इत्याहः। अन्ये त्वानन्तय्र्यादणुशपब्दस्यैव माषग्रहणं विशेषणमाचक्षते। आद्यमेव दर्शनं न्याय्यम्; तथा हि - स्थूलकादयः तद्विशेषमम्। कृष्णकास्तिलाः। `यव व्रीहिषु` इति। यव इति प्रकृतिः, व्रीहिष्विति तद्विशेषणम्। यवको व्रीहिः। `पाद्यकालवदाताः सुरायाम्` इति। अपरे पुनरानन्तय्र्यदवदातशब्दस्य सुराग्रहणं विशेषणं पाद्यकालयोर्न विशेषणत्वं भवतीत्याहुः। `गोमूत्रादाच्छादने` [`गोमूत्र आच्छादने`-काशिका] इति। गोमूत्रशब्दः प्रकृतिः, आच्छादने इति तद्विशेषणम्। गोमूत्रप्रकारकमाच्छादनं गोमूत्रकम्। `सुराहौ` [`सुराया अहौ`-काशिका] इति। सुरेति प्रकृतिः अहाविति विशेषणम्। सुरावर्णोऽहिरिति सुरकः। `जीर्णशालिषु` इति। पत्रमूले इत्येते शब्दरूपे समस्तव्यस्ते प्रत्ययमुत्पादयतः - पत्रकम्, मूलकम्॥ Prakriyasarvasvam ----------------- एभ्यः प्रकारवति कन् । 'स्थूलेषुमणिमधुधान्यतिलकालपुण्ड्रैरण्डचन्द्रमहद्भ्यः' (स० ५-३-४६) । स्थूलत्वविशेषवान् स्थूलकः । इषुसदृश इषुकः । मणिकः । मधुसमो मधुकः । धान्यकः । तिलकः । कालकः । पुण्ड्रकः । एरण्डकः । चन्द्रसमश्चन्द्रकः । महतकः । 'पत्रमूलाद् व्यस्ताच्च' (स० ५-३-४८) । पत्रमूलकः । पत्रकः । मूलकः । 'अवदातात्सुरायाम्' (स० ५-३-४९) । अवदातिका सुराविशेषः । 'सुराया अहौ' (स० ५-३-५०) । केऽणो ह्रस्वः । सुरावर्णोऽहिः सुरकः । 'गोमूत्रादाच्छादने' (स० ५-३-५१) । गोत्रमूत्रवर्णः प्रावारो गोमूत्रकः । तद्वदनेकरेखाविन्यासवान् वा । 'जीर्णाच्छालिषु' (स० ५-३-५२) । जीर्णकल्पाः शालयो जीर्णकाः । 'यवाद्व्रीहिषु' (स० ५-३-५३) । यवसदृशा व्रीहयो यवकाः । 'कृष्णात्तिलेषु' (स० ५-३-५४) । कृष्णप्रकारास्तिलाः कृष्णकाः । 'अणोमर्षिषु' (स० ५-३-५६) । अणुका माषाः । 'माषात्परिमाणे' (स० ५-३-५५) । माषकः स्वर्णपरिमाणम् । 'चञ्चद्बृहतोश्च वाच्यम् (वा०) । चञ्चत्को बृहत्कश्च मणिः । स्वतः स्थिरोऽणुरपि प्रभावशात् तत्प्रकारः । 'चञ्चाबृहतोः' इति पाठे केऽणो ह्रस्वः । तृणपुरुषसमश्चञ्चकः । Vartika ------- चञ्चद्बृहतोरुपसंख्यानम् ।