53105: कुशाग्राच्छः =================== **Padacheda:** कुशाग्रात् | S | 5 | 1 | छः | S | 1 | 1 | Sutrartha --------- **'कुशाग्र' इत्यस्मात् शब्दात् 'इवे' इति सन्दर्भे 'छ' प्रत्ययः भवति ।** 'कुशाग्र' (Tip of a grass) शब्दात् 'इव' अस्मिन् सन्दर्भे स्वार्थे छ-प्रत्ययः भवति । यथा - कुशाग्रम् इव चिन्तनम् (A thought process that is as fine / सूक्ष्म as the tip of the grass) = कुशाग्र + छ → कुशाग्र + ईय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति छकारस्य ईय्-आदेशः] → कुशाग्र् + ईय [**यस्येति च** (6.4.148) इति अकारलोपः ।] → कुशाग्रीय । कुशाग्रः इव यः सः कुशाग्रीय ।As fine / सूक्ष्म as the tip of the grass) इति अर्थः । यथा - कुशाग्रीयम् शस्त्रम् । कुशाग्रीया बुद्धिः । कुशाग्रीयः प्रश्नः । स्मर्तव्यम् - **इवे प्रतिकृतौ** (5.2.96) इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र 'कुशाग्र' शब्दात् 'इव' इति सन्दर्भे छ-प्रत्ययः एव भवति । Vasu English Summary -------------------- The affix छ comes in the sense of 'like this' after the word कुशाग्र। Vasu English Translation ------------------------ The affix छ comes in the sense of 'like this' after the word कुशाग्र। Thus कुशाग्रीया (कुशाग्रमिव सूक्ष्मत्वात्) बुद्धिः "Intellect sharp as the point of the *kusa* grass". कुशाग्रीयं शस्त्रम् ॥ Kashika ------- कुशाग्रशब्दादिवार्थे छः प्रत्ययो भवति। कुशाग्रमिव सूक्ष्मत्वात् कुशाग्रीया बुद्धिः। कुशाग्रीयं शस्त्रम् ॥ Siddhanta Kaumudi ----------------- कुशाग्रमिव कुशाग्रीया बुद्धिः ॥ Balamanorama ------------ **कुशाग्राच्छः** - कुशाग्राच्छः । इवे इत्येव । कुशाग्रमिवेति । सूक्ष्मत्वेन सादृश्यम् । कुशाग्रवत्सूक्ष्मेत्यर्थः । Prakriyasarvasvam ----------------- इवार्थे । कुशाग्रीया बुद्धिः । 'कुशाग्रार्धजरतीघुणाक्षरादिभ्यश्छः' इति भोजः । अर्धवृद्धा हि नारी कामिनार्थेष्टार्धानिष्टा च भवतीति तादृशं कार्यमर्ध- जरतीयम् । अबुद्धिपूर्वसिद्धं घुणाक्षरीयम् ॥ Sutra Prayogas -------------- * **कुशाऽग्रियाम्** (भट्टिकाव्यम्): `कुशाग्राच्छः` इति इवार्थे छः।