53102: शिलाया ढः ================ **Padacheda:** शिलायाः | S | 5 | 1 | ढः | S | 1 | 1 | Sutrartha --------- **शिला शब्दात् 'इव' अस्मिन् सन्दर्भे स्वार्थे ढ-प्रत्ययः भवति ।** 'शिला' (rock / stone) इत्यस्मात् शब्दात् 'इव' इति सन्दर्भे 'ढ' इति प्रत्ययः भवति । यथा - शिला इव अयम् खण्डः = शिला + ढ → शिला + एय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ढकारस्य एय्-आदेशः] → शिल् + एय [**यस्येति च** (6.4.148) इति आकारलोपः ।] → शिलेय । शिला इव यः सः शिलेयः ।As hard as a rock इति अर्थः । यदि कश्चन पदार्थः शिला इव कठिनः अस्ति, तर्हि तस्य निर्देशः 'शिलेय' इति भवति । विशेषः - केचन पण्डिताः शिला-शब्दात् 'ढञ्' प्रत्ययं अपि विदधति । तदर्थमस्य सूत्रस्य योगविभागं कृत्वा 'शिलायाः' इति भिन्नं सूत्रं निर्माय तस्मिन् सूत्रे **वस्तेर्ढञ्** (5.3.101) इत्यस्मात् ढञ्-प्रत्ययस्य अनुवृत्तिं कारयित्वा 'शिलायाः ढञ्' इति नूतनम् सूत्रम् कार्यते, येन 'शिला इव सः शैलेयः' इति अपि शब्दः सिद्ध्यति । स्मर्तव्यम् - **इवे प्रतिकृतौ** (5.2.96) इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र 'शिला' शब्दात् 'इव' इति सन्दर्भे ढ-प्रत्ययः एव भवति । Vasu English Summary -------------------- The affix ढ comes in the sense of 'like this' after शिला। Vasu English Translation ------------------------ The affix ढ comes in the sense of 'like this' after शिला। Thus शिलेव = शिलेयं दधिः 'curd, hard as stone'. According to some, the affix ढञ् also comes after शिला, as शैलेयम् ॥ Kashika ------- शिलाशब्दादिवार्थे ढः प्रत्ययो भवति। शिलेव शिलेयं दधि। केचिदत्र ढञमपीच्छन्ति, तदर्थं योगविभागःकर्तव्यः। शिलाया ढञ् प्रत्ययो भवति। शैलेयम्। ततो ढः। शिलेयम्॥ Siddhanta Kaumudi ----------------- शिलेव शिलेयम् । शिलाया इति योगविभागाड्ढञपीत्येके । शैलेयम् ॥ Balamanorama ------------ **शिलाया ढः** - शिलाया ढः । इवे इत्येव । शिलेव शिलेयमिति ।दध्यादी॑ति शेषः । योगेति । 'शिलाया' इत्येको योगः । ढञित्यनुवर्तते, इवे इति च । शैलेयमिति । ञित्त्वादादिवृद्धिः, स्त्रियां, ङीप् च फलम् । 'ढः' इति द्वितीयो योगः । शिलाया इत्यनुवर्तते । उक्तोऽर्थः । Prakriyasarvasvam ----------------- 'ढञपीष्टः' । शिलातुल्यं शिलेयं, शैलेयं वा दधि ॥ Sutra Prayogas -------------- * **शैलायगन्धीनि** (रघुवंशम्): `शिलाया ढः` इति योगविभागादिवार्थे ढप्रत्ययः।