53091: वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ====================================== **Padacheda:** वत्स-उक्ष-अश्व-ऋषभेभ्यः | S | 5 | 3 | च | S | 0 | 0 | तनुत्वे | S | 7 | 1 | Sutrartha --------- **वत्स, उक्षन्, अश्व तथा ऋषभ - एतेभ्यः शब्देभ्यः तनुत्वे द्योत्ये स्वार्थे 'ष्टरच्' प्रत्ययः भवति ।** 'तनुत्व' अस्मिन् सन्दर्भे अनेन सूत्रेण 'ष्टरच्' प्रत्ययः उक्तः अस्ति । 'तनुत्वम्' इत्युक्ते 'गुणस्य न्यूनत्वम्' / 'गुणस्य अभावः' । Lack of a certain characteristics इति अर्थः । सन्दर्भं पश्यामश्चेत् अधिकम् स्पष्टम् स्यात् - 1. वत्सः = धेनोः शिशुः वत्सः इति नाम्ना ज्ञायते । अत्र 'वत्स' अयम् शब्दः 'वयः' अस्य गुणस्य आधारेण प्रयुज्यते । An offspring of cow is called वत्स only when it is very young in age. So the word वत्स is associated with the quality of being 'young'. अस्य गुणस्य न्यूनत्वम् इत्युक्ते 'शिशु-अवस्थातः कुमार-अवस्थायाः प्राप्तिः' । When a वत्स becomes a little older, the very quality that was responsible for referring it as वत्स (=young age) ceases to exist. अस्यैव निर्देशः 'तनुत्वम्' इत्यनेन अत्र कृतः अस्ति । वत्सस्य तनुत्वे प्राप्ते या स्थितिः जायते (= The stage of life after being a baby) तस्याः निर्देशार्थम् 'वत्स' शब्दात् ष्टरच्-प्रत्ययः भवति । प्रक्रिया इयम् - वत्स + ष्टच् → वत्स + तर [षकारचकारयोः इत्संज्ञे, लोपः भवति । षकारलोपे **अकृतव्यूहाः पाणिनीयाः** इत्यनया परिभाषया (= **निमित्तापाये नैमित्तिकस्याप्यपायः** इत्यनेन सिद्धान्तेन) ष्टुत्वमपि विनश्यति, अतः 'तर' इत्येव अवशिष्यते।] → वत्सतर वत्सतरः = कुमारावस्थायां प्राप्तः वत्सः = A baby of cow that has become young adult. स्त्रीत्वे **षिद्गौरादिभ्यश्च** (4.1.41) इति ङीष्-प्रत्ययं कृत्वा - 'वत्सतरी' इति सिद्ध्यति । 2. 'उक्षन्' = कुमार-अवस्थायां प्राप्तः वृषभः 'उक्षन्' नाम्ना ज्ञायते । A young adult bull is called उक्षन् । अत्र अनेन शब्देन 'कुमारम् वयः' इति गुणः द्योतितः अस्ति । अस्य गुणस्य 'तनुत्वम्' (= न्यूनत्वम्) इत्युक्ते कुमार-अवस्थातः प्रौढ-अवस्थाप्राप्तिः । When a उक्षा becomes a old, the very quality that was responsible for referring it as उक्षा (=young adult) ceases to exist. अस्यैव निर्देशः 'तनुत्वम्' इत्यनेन अत्र कृतः अस्ति । उक्ष्णः तनुत्वे प्राप्ते या स्थितिः जायते (= The stage of life after being a young adult) तस्याः निर्देशार्थम् 'उक्षन्' शब्दात् ष्टरच्-प्रत्यः भवति । उक्षन् + ष्टरच् → उक्षन् + तर [षकारलोपे ष्टुत्वनिवृत्तिः] → उक्ष + तर [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः] → उक्षतर A mature / old bull is called उक्षतर । 3. अश्व = 'अश्वा' (female horse) इत्यस्याः जातः पुत्रः 'अश्वः' नाम्ना तदा एव उच्यते यदा तस्य पिता अपि स्वयम् 'अश्वः' अस्ति (An animal is typically called 'अश्व' if is born due to a breeding between a female horse and a male horse.) । परन्तु कुत्रचित् अश्वायाः गर्दभेन सह मेलनं कृत्वा अपि कस्यचन पशोः जन्म सम्भवति (A female horse can also breed with a male donkey to create an offspring) । अस्मिन् पशौ 'अश्व'इत्यस्य गुणस्य न्यूनत्वम् (= तनुत्वम्) विद्यते (This offspring is not a 100% horse, so it is said to have the न्यूनत्वम् of the 'horse' characteristics) । अस्य पशोः निर्देशार्थम् 'अश्व' शब्दात् 'ष्टरच्' प्रत्ययः वर्तमानसूत्रेण क्रियते । अश्व + ष्टरच् → अश्वतरः । mule इत्यर्थः । विशेषः - अस्य सूत्रस्य विषये काशिकाकारः वदति - 'अन्यपितृकता' । इत्यस्य अयमेव अर्थः - अश्वायाः सह कस्यचन अन्यस्य पशोः मेलनं कृत्वा जायमानः पशुः, यस्य पिता स्वयमश्वः नास्ति, तस्य निर्देशः अत्र 'अश्वतर' इत्यनेन भवति । Note that a mule is the offspring of a male donkey and a female horse. Reverse breeding is not very common and it is not clear from the commentaries whether it also gets the same name. 4. ऋषभ - शक्तिमान् वृषभः 'ऋषभः' नाम्ना ज्ञायते । A fully grown superior bull who is capable of carrying a load is referred as ऋषभ । अस्य न्यूनता (= तनुत्वम्) इत्युक्ते भारवहनशक्तेः अभावः । एतादृशः भारवहने असमर्थः यः ऋषभः, तस्य निर्देशार्थम् 'ऋषभ' शब्दात् 'ष्टरच्' प्रत्ययः भवति । भारवहने असमर्थः ऋषभः = तनुत्वं प्राप्तः ऋषभः = ऋषभतरः । A fully grown bull which is inferior due to its inability of carrying a load is called ऋषभतरः एतादृशमनेन सूत्रेण 'वत्सतर', 'उक्षतर', 'अश्वतर' तथा 'ऋषभतर' एतेषाम् शब्दानां सिद्धिः भवति । Vasu English Summary -------------------- The affix ष्टरच् expresses slenderness after the words 1. वत्स 2. उक्षन् 3. अश्व and 4. ऋषव। Vasu English Translation ------------------------ The affix ष्टरच् expresses slenderness after the words 1. वत्स 2. उक्षन् 3. अश्व and 4. ऋषव। The *anuvritti* of हृस्व ceases. Thus वत्सतरः 'a weaned calf' becoming slender in reaching the second period of its age. उक्षतरः 'a slender bull': being the third age of a वत्स ॥ अश्वतरः 'a mule': (तस्य तनुत्वमन्यपितृकता); वृषभतरः 'a slender bull or that cannot draw the load'. Bhashya ------- वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे (2249) (ष्टरच्प्रत्ययाधिकरणम्) (5894 पूर्वपक्षिवार्तिकम्॥ 1 ॥) - वत्सादिभ्यस्तनुत्वे कार्श्ये प्रतिषेधः - (भाष्यम्) वत्सादिभ्यस्तनुत्वे कार्श्ये प्रतिषेधो वक्तव्यः। कृशो वत्सो वत्सर इति मा भूदिति॥ (वार्तिकान्यथासिद्धिप्रदर्शकभाष्यम्) स तर्हि प्रतिषेधो वक्तव्यः। न वक्तव्यः। यस्य गुणस्य हि भावात् द्रव्ये शब्दनिवेशस्तदभिधाने तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम्। न च कार्श्यस्य भावात् द्रव्ये वत्सशब्दः॥ Kashika ------- ह्रस्व इति निवृत्तम्। वत्स उक्षन् अश्व ऋषभ इत्येतेभ्यस्तनुत्वे द्योत्ये ष्टरच् प्रत्ययो भवति। यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः, तस्य तनुत्वे प्रत्ययः। वत्सतरः। उक्षतरः। अश्वतरः। ऋषभतरः। प्रथमवया वत्सः, तस्य तनुत्वं द्वितीयवयःप्राप्तिः। तरुण उक्षा, तस्य तनुत्वं तृतीयवयः प्राप्तिः। अश्वेनाश्वायामुत्पन्नोऽश्वः, तस्य तनुत्वमन्यपितृकता। अनड्वानृषभः, तस्य तनुत्वं भारवहने मन्दशक्तिता॥ Siddhanta Kaumudi ----------------- वत्सतरः । द्वितीयं वयः प्राप्तः । उक्षतरः । अश्वतरः । ऋषभतरः । प्रवृत्तिनिमित्ततनुत्व एवायम् ॥ Balamanorama ------------ **वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे** - वत्सोक्ष । ह्रस्व इति निवृत्तम् । वत्स, उक्षन्, अआ, ऋषभ — एभ्यस्तनुत्वविशिष्टवृत्तिभ्यः ष्टरच्प्रत्ययः स्यादित्यर्थः । तनुत्वं — न्यूनत्वम् । वत्सः-प्रथमवयाः । वयसश्च प्रथमस्य तनुत्वम् — उत्तर वयः प्राप्त्या ज्ञेयम् । तदाह — द्वितीयं वयःप्राप्त इति । उक्षतर इति । उक्षा — तरुणो बलीवर्दः । तारूण्यस्य तनुत्वं तृतीयवयः प्राप्त्या ज्ञेयम् । अआतर इति । गर्दमेन अआआयामुत्पादितः । अआतरः — अआतरत्वं च अआत्वापेक्षया न्यूनमेव । ऋषभतर इति । ऋषभो-भारस्य वोढा तस्य तनुत्वं भारोद्वहने मन्दशक्तिता, तद्वानित्यर्थः । तनुः कृशो वत्सो वत्सतर इति कुतो नेत्यत आह — प्रवृत्तिनिमित्ततनुत्वे एवायमिति । एतच्च भाष्ये स्पष्टम् । Tattvabodhini ------------- **वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे** - वत्सोक्षाआ । तनुत्वं=न्यूनता । सा च प्रवृत्तिनिमित्तस्य, प्रत्यासत्तेः । क्वचित्तु तत्सहचरितधर्मान्तराणाम् । तत्र वत्सः — प्रथमवयाः । वयसश्च प्रथमस्य न्यूनत्वं नाम वयोऽन्तरप्राप्तिः । तदाह -द्वितीयमिति । तरुण उक्षा । तारुण्यस्य चतनुत्वं तृतीयवयःप्राप्तिः । अआआयामआआदुत्पन्नोऽआः । अआत्वं च जातिः । तत्सहचरितस्याऽआआयामआआदुत्पन्नत्वधर्मस्यन्यूनत्वमन्यपितृकता । तथा च गर्दभेनाऽशावायामुत्पादितोऽआतरः । ऋषभो भावरस्य वोढा । तस्य तनुत्वं बारोद्वहने मन्दशक्तिता । तद्वांस्तु ऋषभतरः । Padamanjari ----------- 'तनुत्वे' इति सामान्याभिधानात्कार्श्येऽपि प्रत्ययप्रसङ्गः, तत्राह - यस्य हि गुणस्येति। एतच्च प्रत्यासतेर्लभ्यते। प्रत्यासन्नं हि शब्दस्य प्रवृत्तिनिमितम्। प्रथमवया वत्स इति। प्रथमं वयो वत्सशब्दस्य प्रवृत्तिनिमितमित्«अथः। तस्येति गुणभूतमपि वयोऽत्र परामृश्यते, तस्य प्रथमस्य वयस इत्यर्थः। द्वितीयवयःप्राप्तिरिति। द्वितीयं हि वयः प्राप्नुषतो वत्सस्य प्रथमं वयोऽल्पशेषं भवति। तरुण इति। द्वितीयवया इत्यर्थः। तस्य तनुत्वमित्यादि पूर्ववत्। अन्यपितृकतेति। गर्दभपितृकतेत्यर्थः। गर्दबेन त्वश्वायामुत्पादितोऽश्वतर उच्यते। अनड्वानिति। अनसो वोढेअत्यर्थः, अनसि वहेः क्विप्, डश्चानसः ॥ Nyaas ----- यदि तनुत्वे वत्सादिशब्देभ्यः प्रत्ययो विधीयते, ये शरीरे कृशा वत्सादयस्तत्राप्यविशेषेण प्रत्ययः प्रसज्येत, विशेषानुपादानात्? इत्यत आह - `यस्य गुणस्य` इत्यादि। गुणो विशेषणम्, विशेष्यं द्रव्यम्। वत्सादिशब्दानां प्रवृत्तिनिमित्तं वयोविशेषादि। यस्मिन्? सति वत्सादयः शब्दा द्रव्ये विशेष्ये निविशन्ते=प्रवर्तते, तस्यैव वत्सादिशब्दस्य प्रवृत्तिनिमित्त्स्य तनुत्वे प्रत्यो भवति, न तनुत्वमात्रे; तत्? पुनः प्रत्यासत्तेः। वत्सादिभ्यः प्रकृतिभ्यः प्रत्यये विधीयमाने अन्यत्? प्रवृत्तिनिमित्तं न प्रत्यासन्नम, ततस्तस्यैव तनुत्वे युक्तं प्रत्ययेन भवितव्यम्।`तस्य तनुत्वं द्वितीयवयसः प्राप्तिः` इति। तृतीयवयःप्राप्तिकाले द्वितीयस्य वयसः। उक्षशब्दस्य प्रवृत्तिनिमित्तस्य निश्चितं तनुत्वमवशिष्यते। `तस्य तनुत्वमन्यपितृकता` इति। गर्दभपितृक्तेत्यर्थः। तर्हि गर्दभादआआयामुत्पन्नोऽआतर इत्युच्येते। `तस्य तनुत्वं भारोद्वहर्ने मन्दशक्तिता` इति। भारोद्वहनं प्रति यःसमर्थो न स्यात्? स ऋषभतर इत्युच्यते। यदा तु तस्य भारोद्वहने सामर्थ्यं मन्दं भवति=हीयते, तदा तनुत्वं भवति॥ Prakriyasarvasvam ----------------- एभ्यस्तनुत्वे द्योत्ये ष्टरच् । बालो गौर्वत्सः, तस्य यौवनारम्भे बाल्यस्य तनुत्वाद् वत्सतरः । तरुणो गौरुक्षा, सोऽपि तदूर्ध्वस्यः प्राप्तौ तारुण्यस्य तनुत्वाद् उक्षतरः । गर्दभेनाश्वायामुत्पादितोऽश्वतरः । अत्राश्वत्वस्य तनुत्वम् । शक्तेस्तनुत्वाद् ऋषभतरो दुर्बलानड्वान् ॥