53083: ठाजादावूर्ध्वं द्वितीयादचः ================================= **Padacheda:** ठ-अजादौ | S | 7 | 1 | ऊर्ध्वम् | S | 1 | 1 | द्वितीयात् | S | 5 | 1 | अचः | S | 5 | 1 | Sutrartha --------- **अनुकम्पायाम् गम्यमानायाम् विहिते ठकारादौ अजादौ वा प्रत्यये परे अङ्गस्य द्वितीयात् अच्-वर्णात् अनन्तरम् विद्यमानस्य शब्दखण्डस्य लोपः भवति ।** **अनुकम्पायाम्** (5.3.76) इत्यस्मात् सूत्रात् आरभ्य **अजिनान्तस्योत्तरपदलोपश्च** (5.3.82) इति सूत्रपर्यन्तम् सर्वेषु सूत्रेषु अनुकम्पायाम् गम्यमानायाम् भिन्नाः प्रत्ययाः उक्ताः सन्ति । यदि एषु कश्चन प्रत्ययः ठकारादिः अजादिः वा अस्ति, तर्हि तस्य उपस्थितौ प्रकृतौ जायमानम् परिवर्तनम् (= प्राकृतिककार्यम्) अनेन सूत्रेण पाठ्यते । प्रकृतौ विद्यमानात् द्वितीयात् स्वरात् अनन्तरम् विद्यमानः शब्दखण्डः ठकारादौ अजादौ प्रत्यये वा परे लुप्यते - इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि पश्यामः - [1] **अनुकम्पायाम्** (5.3.76) तथा **नीतौ च तद्युक्तात्** (5.3.77) इत्येताभ्यां सूत्राभ्याम् प्रातिपदिकेभ्यः 'कन्' इति प्रत्ययः विधीयते । अयम् प्रत्ययः ठकारादिः अजादिः वा नास्ति, अतः कन्-प्रत्ययस्य विषये अस्य सूत्रस्य प्रयोगः न भवति । [2] **अनुकम्पायाम्** (5.3.76) तथा **नीतौ च तद्युक्तात्** (5.3.77) इत्येताभ्यां सूत्राभ्याम् तिङन्तेभ्यः 'अकच्' इति प्रत्ययः विधीयते । अयम् प्रत्ययः अजादिः अस्ति, परन्तु अस्मिन् प्रत्यये परे वर्तमानसूत्रस्य प्रसक्तिः न विद्यते, यतः वर्तमानसूत्रे 'तिङः' इति न अनुवर्तते । प्रातिपदिकाधिकारात् 'प्रातिपदिकात्' इति तु अधिक्रियते एव । अतः अस्य सूत्रस्य प्रसक्तिः केवलम् प्रातिपदिकेभ्यः विहितानाम् प्रत्ययानां विषये विद्यते । [3] **बह्वचो मनुष्यनाम्नष्ठज्वा** (5.3.78) इत्यनेन 'ठच्' प्रत्ययः उच्यते । अयम् प्रत्ययः ठकारादिः अस्ति, अतः अस्मिन् प्रत्यये परे वर्तमानसूत्रस्य प्रसक्तिः विद्यते । यथा - अनुकम्पितः यज्ञदत्तः = यज्ञदत्त + ठच् → यज्ञदत्त + ठ [चकारस्य इत्संज्ञा, लोपः] → यज्ञ + ठ [वर्तमानसूत्रेण अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य (= 'दत्त' इत्यस्य) लोपः भवति] → यज्ञ + इक [**ठस्येकः** (7.3.50) इति इक-आदेशः] → यज्ञ् + इक [**यस्येति च** (6.4.148) इति अकारलोपः] → यज्ञिक [4] **बह्वचो मनुष्यनाम्नष्ठज्वा** (5.3.78) इत्यस्य अन्यद् एकमुदाहरणम् पश्यामः - अनुकम्पितः वायुदत्तः = वायुदत्त + ठच् → वायुदत्त + ठ [चकारस्य इत्संज्ञा, लोपः] → वायु + ठ [वर्तमानसूत्रेण अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति] → वायु + क [**इसुसुक्तान्तात् कः** (7.3.51) इति क-आदेशः] → वायुक ज्ञातव्यम् - वर्तमानसूत्रेण उक्तम् कार्यम् प्राकृतिककार्यमस्ति, तथा च ठच्-प्रत्ययस्य आदेशस्य अपेक्षया एतत् नित्यमपि अस्ति। अतः एतत् कार्यम् प्रारम्भे भवति । ततः यद् अङ्गम् जायते, तस्मात् ठकारस्य यथोचितम् 'इक' उत 'क' एतादृशाः आदेशाः भवन्ति । अस्मिन् सूत्रे 'ठ' इत्यस्य विशेषरूपेण ग्रहणमपि एतदेव सूचयति यत् ठकारस्य ककारादेशे प्राप्ते अपि अस्य सूत्रस्य प्रसक्तिः स्यात् । अन्यथा केवलम् 'इक' आदेशः ग्रहीतव्यः स्यात् चेत् सूत्रे 'अजादिः' इत्येव निर्देशः अलम् स्यात् । [5] **घनिलचौ च** (5.3.79) इत्यनेन 'घन्' तथा 'इलच्' एतौ प्रत्ययौ उच्येते । प्रक्रियायाम् 'घ' इत्यस्य **आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इत्यनेन 'इय' आदेशः भवति । 'इय' तथा 'इल' द्वावपि प्रत्ययौ अजादी स्तः, अतः द्वयोः अपि विषये अस्य सूत्रस्य प्रसक्तिः विद्यते । यथा - अनुकम्पितः यज्ञदत्तः = यज्ञदत्त + घन् / इलच् → यज्ञदत्त + इय / इल [इत्संज्ञालोपः, प्रत्ययादेशः] → यज्ञ + इय / इल [वर्तमानसूत्रेण अजादिप्रत्यये परे अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति] → यज्ञ् + इय / इल [**यस्येति च** (6.4.148) इति अकारलोपः] → यज्ञिय / यज्ञिल [6] **प्राचामुपादेरडज्वुचौ च** (5.3.80) इत्यनेन 'अडच्' तथा 'वुच्' एतौ प्रत्ययौ उक्तौ स्तः । प्रक्रियायाम् 'वु' इत्यस्य **युवोरनाकौ** (7.1.1) इत्यनेन 'अक' आदेशः भवति । 'अड' तथा 'अक' द्वावपि प्रत्ययौ अजादी स्तः, अतः द्वयोः अपि विषये अस्य सूत्रस्य प्रसक्तिः विद्यते । यथा - अनुकम्पितः उपेन्द्रदत्तः = उपेन्द्रदत्त + अडच् / वुच् → उपेन्द्रदत्त + अडच् + अक [इत्संज्ञालोपः । **युवोरनाकौ** (7.1.1) इति 'वु' इत्यस्य 'अक' आदेशः ।] → उप + अडच् / वुच् [ वर्तमानसूत्रेण अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति । अत्र यद्यपि द्वितीयः अच्-वर्णः 'ए' इति अस्ति, तथापि इदम् सन्ध्यक्षरमस्ति, अतः अधः पाठितेन अनेन वार्त्तिकेन 'ए' इतस्य छेदं कृत्वा 'अ + इ' इति प्राप्ते 'अ' इत्येव द्वितीयं स्वरं मत्त्वा तस्मात् अग्रे विद्यमानस्य खण्डस्य लोपः क्रियते ।] → उप् + अड / अक [**यस्येति च** (6.4.148) इति अकारलोपः] → उपड / उपक [7] **जातिनाम्नः कन्** (5.3.81) तथा **अजिनान्तस्योत्तरपदलोपश्च** (5.3.82) इत्येताभ्याम् कन्-प्रत्ययः विधीयते । अयम् प्रत्ययः ठकारादिः अपि नास्ति, अजादिः अपि नास्ति । अतः अस्य प्रत्ययस्य विषये वर्तमानसूत्रस्य प्रसक्तिः न विद्यते । विशेषः - अनेन सूत्रेण उक्तम् कार्यम् 'अङ्गकार्यम्' नास्तीति स्मर्तव्यम् । अत्र कानिचन वार्त्तिकानि अपि पाठितानि सन्ति । अस्मिन् सूत्रे यः लोपः उच्यते, तस्यैव विषये एतैः वार्त्तिकैः केचन विशिष्टाः नियमाः 'कुत्रचित्' (only in certain examples - इत्याशयः) उच्यन्ते । क्रमेण पश्यामः - 1. । यदि शब्दे पञ्च वा अधिकाः स्वराः विद्यन्ते, तर्हि कुत्रचित् चतुर्थात् स्वरात् अग्रे विद्यमानस्य खण्डस्य लोपः कृतः अपि दृश्यते । यथा - 'अनुकम्पितः बृहस्पतिदत्तः' सः = बृहस्पति + घन् → बृहस्पतियः । पक्षे बृहस्पति + इलच् → बृहस्पतिलः । पक्षे बृहस्पति + ठच् → बृहस्पतिकः । 2. । वर्तमानसूत्रेण उक्तः लोप अजादिभिन्ने प्रत्यये परे अपि (इत्युक्ते कन् / क-प्रत्यये परे अपि) कुत्रचित् विकल्पेन लोपः कृतः दृश्यते । यथा - 'अनुकम्पितः देवदत्तः' = देवदत्त + क → देवकः । 3. । वर्तमानसूत्रेण उक्तः लोपः कुत्रचित् पूर्वपदस्य विषये अपि भवति, तथा च अजादिभिन्ने प्रत्यये परे अपि (इत्युक्ते कन् / क-प्रत्यये परे अपि) भवितुमर्हति । यथ - 'अनुकम्पितः देवदत्तः' = देवदत्त + ठच् → दत्तिकः । पक्षे देवदत्त + क → दत्तकः । एवमेव - देवदत्त + इलच् → दत्तिलः । 4. । वर्तमानसूत्रेण उक्तः लोपः प्रत्ययस्य अनुपस्थितौ कुत्रचित् पूर्वपदस्य विषये तथा च कुत्रचित् अन्यत्र उत्तरपदस्य विषये अपि विकल्पेन विधीयते । इत्युक्ते, 'अनुकम्पितः देवदत्तः' इत्यत्र केवलम् 'देवदत्त' इति रूपं निर्माय अस्य पूर्वपदस्य / उत्तरपदस्य वैकल्पिकं लोपं कृत्वा 'देवदत्तः / देवः / दत्तः' एते शब्दाः सिद्ध्यन्ति । अनुकम्पितः देवदत्तः सः देवदत्तः देवः दत्तः वा । 5. । उकारात् ऋकारात् च परस्य 'इल्' प्रत्ययस्य इकारस्य कुत्रचित् विकल्पेन लोपः भवति । यथा - अनुकम्पितः भानुदत्तः = भानुलः भानविलः वा । तथैव अनुकम्पितः दातुः = दातृलः दात्रिलः वा । 6. । यदि अङ्गे विद्यमानः द्वितीयः स्वरः संयुक्तस्वरः अस्ति, तर्हि तस्य पूर्वस्वरः अवशिष्यते; परस्वरः तथा तस्मात् अग्रे विद्यमानाः वर्णाः लुप्यन्ते । यथा - अनुकम्पितः लहोडः = लहकः । अत्र हकारोत्तरः ओकारः संयुक्तस्वरः अस्ति ( ओ = अ + उ), अतः अत्र उकारस्यापि लोपः विधीयते, अकारः एव अवशिष्यते । 7. । यदि अङ्गस्य पूर्वपदे एकम् एव स्वरः विद्यते, तर्हि वर्तमानसूत्रेण उक्तः लोपः सम्पूर्णस्य उत्तरपदस्य भवति । यथा - 'अनुकम्पितः वागीशः' इति स्थिते 'वागीश' अस्मिन् शब्दे पूर्वपदे ('वाक्' इत्यत्र) एकः एव स्वरः अस्ति, अतः वर्तमानसूत्रेण उक्तः लोपः सम्पूर्णस्य उत्तरपदस्य भवति । यथा - अनुकम्पितः वागीशः = वाक् + इलच् → वागिलः । एतेषाम् सर्वेषाम् वार्त्तिकानां प्रयोगः शिष्टप्रयोगं दृष्ट्वैव करणीयः । विशेषः - अस्मिन् सूत्रे काशिकाकारः '*षडङ्गुलिदत्तः षडिकः इति षषः ठाजादिवचनात् सिद्धम्*' इति किञ्चन भाष्यवाक्यम् पाठयति । एतत् वाक्यम् भाष्यकारेण अग्रिमसूत्रे **शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्** (5.3.84) इत्यत्र कथितमस्ति । अनेन भाष्यवाक्येन 'षडिक' इति शब्दस्य सिद्धिः दीयते । 'अनुकम्पितः षडङ्गुलिदत्तः' इत्यस्मिन् सन्दर्भे 'षडिक' इति शब्दः उपयुज्यते । अस्य सिद्धिः एतादृशी दत्ता अस्ति - षडङ्गुलिदत्तः + ठच् [**बह्वचो मनुष्यनाम्नष्ठज्वा** (5.3.78) इत्यनेन 'ठच्' ] → षड् + अङ्गुलिदत्तः + ठ [अङ्गस्य पूर्व-उत्तरपदविग्रहः । अत्र पूर्वपदम् वस्तुतः 'षट्' इति अस्ति, परन्तु समासे पूर्वपदस्य पदसंज्ञा विद्यते, अतः जश्त्वे कृते डकारः सिद्ध्यति ।] → षड् + अ + ठच् [वर्तमानसूत्रेण द्वितीयात् अच्-वर्णात् अग्रे विद्यमानः खण्डः लुप्यते ।] → षड् + अ + इक् [**ठस्येकः** (7.3.50) इति इक्-आदेशः] → षट् + इक् [**यस्येति च** (6.4.148) इति अकारलोपः । अकारलोपे कृते उत्तरपदम् सम्पूर्णरूपेण विनश्यति, अतः 'षड्' इत्यस्य पदसंज्ञा अपि विनश्यति, अतः जश्त्वस्य निवृत्तिः भवति, अतश्च 'षट्' इत्येव जायते ] → षड् + इक [टकारात् परः लुप्त-अकारः स्थानिवद्भावेन उत्तरपदत्वं स्वीकरोति । अस्यां स्थितौ पुनः 'षट्' इत्यस्य पुनः पदसंज्ञा भवति । अतः पुनः जश्त्वे कृते 'षड्' इति जायते ] → षडिक अनेन प्रकारेण सिद्धः 'षडिक' शब्दः 'अनुकम्पितः षडङ्गुलिकः' इत्यस्मिन् सन्दर्भे प्रयुज्यते । अनुकम्पितः षडङ्गुलिकः सः षडकः । Vasu English Summary -------------------- When ठ -- बह्वचो मनुष्यनाम्नष्ठज्वा (5.3.78), or one of the affixes beginning with a vowel -- घनिलचौ च (5.3.79), प्राचामुपादेरडज्वुचौ च (5.3.80), taught above, follows, there is elision of all that portion which comes after the second vowel of the name of a human being. Vasu English Translation ------------------------ When ठ -- बह्वचो मनुष्यनाम्नष्ठज्वा (5.3.78), or one of the affixes beginning with a vowel -- घनिलचौ च (5.3.79), प्राचामुपादेरडज्वुचौ च (5.3.80), taught above, follows, there is elision of all that portion which comes after the second vowel of the name of a human being. *Karika* चतुर्थादनजादौ च लोपः पूर्वपदस्य च । अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च ॥ The word लोप is understood here from the last *sutra* The word ऊर्द्ध्वम् indicates that the whole of that portion of the term which follows the second vowel should be elided, otherwise, only the first letter of the third syllable would have been elided by (1.1. 54). The illustrations have been given above. Thus देवदत्त + इक; here all the letters after the अ of देव should be elided : as देविकः, so also देवियः, देविलः ॥ The affix ठ is replaced by इक् or क (7.3.50) and (7.3.51) hence its special mention in this *sutra*. For had it not been used, the *sutra* would have run thus. 'When an affix beginning with a vowel follows &c'. This rule would have applied to इक substitute of ठ, but not to क substitute of ठ which comes after words ending in उ, ऋ, त्, इस् and उस् ॥ But it is intended that क (and not इक) substitute of ठ should be added to words whose second syllables end in उक् (उ or ऋ) vowels. If it be said that इक substitute of ठ would be sufficient for words like वायुदत्त &c. also as it will cause the elision of the third and subsequent syllables; and when such syllables are elided, क would be the proper substitute to add to वायु and not इक, which we can do by the rule of *sthanivat*; we say, it is not so. For if it were the case, we should add the क substitute and not इक in the following: मथित + ठक् (6.4.51)= मथित् + ठक् (6.4.148), because, after elision, मथित् ends with त् ॥ But we know that क is not added but इक, and we have मथितिकः ॥ Hence the emplyment if ठ in the *sutra* is proper as वायुदत्तः—वायुकः, पितृदत्तः-पितृकः ॥ Vart:- It should be stated that the portion after the fourth vowel is elided in certain cases. As अनुकम्पितो बृहस्पतिदत्तः-बृहस्पतिकः, बृहस्पतियः, बृहस्पतिलः ॥ Vart:- When an affix not beginning with a vowel follows, the elision is optional. Thus देवदत्त + कन् = देवदत्तकः or देवकः, यज्ञदत्तकः or यज्ञकः ॥ Vart:- There is elision of the first term, when these affixes ठच् &c denoting compassion, whether beginning with vowel or not, follow. Thus दत्तिकः, दत्तिलः, दत्तियः, दत्तकः from देवदत्त or यज्ञदत्त or वायुदत्त &c. Vart:- The dimunitive of compassion or endearment may be formed without adding any affix, by simply dropping either the first or the second term of the name. Thus दत्तः or देव from देवदत्तः, सत्यभामा—भामा & सत्या ॥ Vart:- The affix इल is replaced by ल after a word ending in उ as, भानुलः from भानुदत्तः, वसुलः—वसुदत्तः ॥ So also after a word ending in ऋ as सवितृलः ॥ Vart:- When the second vowel is ओ, औ, ए or ऐ, then this is also elided. As लहिकः from लहोडः, कहिकः from कहोडः ॥ Vart:- When the first member consists of a single syllable, there is elision of the second member : as वाचिकः from वागीशाः (the ग् changed back to च् because the stem is now भ and not पद, and rule (8.2.39) does not apply.) So also; स्रुचिकः, त्वचिकः ॥ The form षडिकः (and not षषिकः from षष्) is an exception. It is dimunitive of षडङ्गुलिदत्तः ॥ Bhashya ------- ठाजादावूर्ध्वं द्वितीयादचः (2241) (प्रकृतिविकाराधिकरणम्) (पूर्वाचार्याणां कारिकाव्याख्यानभाष्यम्) चतुर्थात् - चतुर्थाल्लोपो वक्तव्यः बृहस्पतिदत्तकः, बृहस्पतिकः। प्रजापतिदत्तकः, प्रजापतिकः। अनजादौ च अनजादौ च लोपो वक्तव्यः। देवदत्तकः, देवकः। यज्ञदत्तकः, यज्ञकः। लोपः पूर्वपदस्य च। पूर्वपदस्य च लोपो वक्तव्यः। देवदत्तकः, दत्तकः। यज्ञदत्तकः, दत्तकः। अप्रत्यये तथैवेष्टः देवदत्तः, दत्तः। यज्ञदत्तः, दत्तः। उवर्णाल्ल इलस्य च॥ उवर्णादिलस्य च लोपो वक्तव्यः। भानुदत्तकः, भानुलः। वसुदत्तकः, वसुलः। (पदकृत्यभाष्यम्) अथ ठग्रहणं किमर्थम्, न इके कृते अजादावित्येव सिद्धम्? (5784 ठग्रहणप्रयोजनवार्तिकम्॥ 1 ॥) - ठग्रहणमुको द्वितीयत्वे कविधानार्थम् - (भाष्यम्) ठग्रहणं क्रियते, उको द्वितीयत्वे कविधिर्यथा स्यात्। वायुदत्तकः, वायुकः। पितृदत्तकः, पितृकः॥ (5885 ठग्रहणाभावे दोषवार्तिकम्॥ 2 ॥) - अजादिलक्षणे हि माथितिकादिवत् प्रसङ्गः - (भाष्यम्) अजादिलक्षणे हि माथितिकादिवत्प्रसज्येत। तद्यथा - मथितं पण्यमस्य माथितिक इति अकारलोपे कृते तान्तादिति कादेशो न भवति। एवमिहापि न स्यात्॥ (5886 उपसंख्यानवार्तिकम्॥ 3 ॥) - द्वितीयादचो लोपे सन्ध्यक्षरद्वितीयत्वे तदादेर्लोपवचनम् - (भाष्यम्) द्वितीयादयो लोपे संध्यक्षरद्वितीयत्वे तदादेर्लोपो वक्तव्यः। लहोडः, लहिकः। कहोडः, कहिकः॥ Kashika ------- लोप इत्यनुवर्तते। अस्मिन् प्रकरणे यष्ठोऽजादिश्च प्रत्ययः, तस्मिन् परतः प्रकृतेर्द्वितीयादच ऊर्ध्वं यच्छब्दरूपं तस्य लोपो भवति। ऊर्ध्वग्रहणं सर्वलोपार्थम्। अनुकम्पितो देवदत्तो देविकः। देवियः। देविलः। यज्ञिकः। यज्ञियः। यज्ञिलः। उपडः। उपकः। उपियः। उपिलः। उपिकः। उपेन्द्रदत्तकः। ठग्रहणमुको द्वितीयत्वे कविधानार्थम्। अजादिलक्षणे हि माथितिकादिवत् प्रसङ्गः। वायुदत्तो वायुकः। पितृदत्तः पितृकः॥ चतुर्थादच ऊर्ध्वस्य लोपो वक्तव्यः॥ अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः। बृहस्पतियः। बृहस्पतिलः॥ अनजादौ विभाषा लोपो वक्तव्यः॥ देवदत्तकः, देवकः। यज्ञदत्तकः, यज्ञकः॥ लोपः पूर्वपदस्य च ठाजादावनजादौ च वक्तव्यः॥ दत्तिकः। दत्तिलः। दत्तियः। दत्तकः॥ विनापि प्रत्ययेन पूर्वोत्तरपदयोर्विभाषा लोपो वक्तव्यः॥ देवदत्तो दत्तः, देव इति वा॥ उवर्णाल् ल इलस्य च॥ भानुदत्तो भानुलः। वसुदत्तो वसुलः। चतुर्थादनजादौ च लोपः पूर्वपदस्य च। अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च॥ ॥ द्वितीयादचो लोपे सन्ध्यक्षरद्वितीयत्वे तदादेर्लोपवचनम्॥ लहोडो लहिकः। कहोडः कहिकः॥ एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्यः॥ वागाशीर्वाचिकः। स्रुचिकः। त्वचिकः। कथं षडङ्गुलिदत्तः षडिक इति?॥ षषष्ठाजादिवचनात् सिद्धम्॥ Siddhanta Kaumudi ----------------- अस्मिन्प्रकरणे यष्ठोऽजादिप्रत्ययश्च तस्मिन्प्रत्ये परे प्रकृतेर्द्वितीयादच ऊर्ध्वं सर्वं लुप्यते । अनुकम्पितो देवदत्तो देविकः । देवियः । देविलः । देवदत्तकः । अनुकम्पितो वायुदत्तो वायुदत्तकः । ठग्ग्रहणमुको द्वितीयत्वे कविधानार्थम् ॥ वायुकः । पितृकः । (वार्तिकम्) ॥ अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः । (वार्तिकम्) ॥ देवदत्तकः । देवकः । (वार्तिकम्) ॥ दत्तिकः । दत्तियः । दत्तिलः । दत्तकः । (वार्तिकम्) ॥ देवदत्तः । दत्तः । देवः ॥ सत्यभामा । भामा । सत्या ॥ (वार्तिकम्) ॥ भानुलः । (वार्तिकम्) ॥ सवित्रियः । सवितृलः । (वार्तिकम्) ॥ 1 ॥ ल इति लोपसंज्ञा प्राचाम् ॥ Balamanorama ------------ **ठाजादावूर्ध्वं द्वितीयादचः** - ठाजादौ । अस्मिन्प्रकरणे इति । अनुकम्पायां, नीतौ चेत्यस्मिन्प्रकरणे इत्यर्थः । सन्निधानलभ्यमिदम् । सर्वमिति । ऊर्द्ध्वग्रहणादिदं लभ्यते । अन्यथाआदेः परस्ये॑ति परिभाषया द्वितीयाऽचो यः परस्तस्यादेरेव स्यादिति भावः ।अजिनान्तस्योत्तरपदलोपश्चे॑त्यतो लोप इत्यनुवृत्तमिह कर्मसाधनमाश्रीयते इति मत्वाह — लुप्यत इति । देविक इति । देवदत्तशब्दाट्ठचि द्वितीयादचः परस्य दत्तशब्दस्य लोपे इकादेशे रूपम् । देविय इति । देवदत्तशब्दाद्धनि दत्तशब्दस्य लोपे इयादेशे रूपम् । देविल इति । इलचि दत्तशब्दस्य लोपः । देवदत्तक इति । कप्रत्यये सति ठाऽजाद्यभावान्न दत्तपदलोपः । वायुक इति । वायुदत्तशब्दाद्दत्तशब्दस्य लोपः । उकः परत्वाट्ठस्य कः । नन्विकादेशे सति देविक इत्यत्र अजादित्वादेव सिद्धे ठग्रहणं व्यर्थमित्यत आह — ठग्रहणमिति । कृत एव ठग्रहणे वायुशब्दात्परस्य दत्तशब्दस्य लोपे इयादेशे रूपम् । देविल इति । इलचि दत्तशब्दस्य लोपः । देवदत्तक इति । कप्रत्यये सति ठाऽजाद्यभावान्न दत्तपदलोपः । वायकु इति । वायुदतद्तशब्दाद्दत्तशब्दस्य लोपः । उकःपरत्वाट्ठस्य कः । नन्विकादेशे सति देविक इत्यत्र अजादित्वादेव सिद्धे ठग्रहणं व्यर्थमित्यत आह — ठग्रहणमिति । कृत #एव ठग्रहणे वायुशब्दात्परस्य दत्तशब्दस्य ठावस्थायामेव नित्यत्वाल्लोपे कृते ठस्य उकः परत्वात्कादेशः सिध्यति । अन्यथा इकादेशे कृतेऽजादित्वं पुरस्कृत्य दत्तशब्दस्य लोपे सति वायु — इक इति स्थिते ठस्याऽभावात्कादेशो न स्यात् । नच स्थानिवत्त्वादिकस्य ठत्वं शह्क्यं, 'ठस्येकः' इत्यत्र स्थान्यादेशयोरकार उच्चारणार्थ इति पक्षे अल्विधित्वात्सन्निपातपरिभाषाविरोधाच्चेति भाष्ये स्पष्टम् । पितृक इति । पितृदत्तशब्दाठ्ठचि दत्तशब्दस्य लोपे उकः परत्वाट्ठस्य कः । अथचतुर्थादनजादौ वा लोपः पूर्वपदस्य च । अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च ।॑ इति वक्ष्यमाणश्लोकवार्तिकं भङ्क्त्वा 'चतुर्थादच' इत्येतद्व्याचष्टे — चतुर्थादचेति । बृहस्पतिक इति । बृहस्पतिदत्तशब्दाट्ठचि दत्तशब्दस्य लोपे ठस्य इकादेशः । द्वितायादूध्र्वत्वाऽभावादप्राप्ते वचनम् । ॒अनजादौ वे॑ति वार्तिकभागं व्याचष्टे — अनजादौ चेति ।अनजादौ चे॑पाठे विभाषेति भाष्यलब्धम्, तत्र देवत्तको देवक इति कप्रत्यये दत्तलोपविकल्पोदाहरणात् ।लोपः पूर्वपदस्य चेति ।विभाषे॑ति शेषः । अनजादाविति तु नात्र सम्बध्यते । तदाह — दत्तिक इत्यादि । ठचि धनि इलचि के च रूपम् ।अप्रत्यये तथैवेष्ट॑ इति वार्तिकभागं व्याचष्टे — विनापि प्रत्ययमिति । दत्तः देव इति । देवदत्तशब्दाट्ठाजादिप्रत्ययस्याप्यभावे पूर्वोत्तरपदयोः क्रमेण लोपे रूपम् । उवर्णादिति । 'ल' इति लोपस्य पूर्वाचार्यसंज्ञा । उवर्णात्परस्य इलचो लोपः स्यादित्यर्थः ।आदेः परस्ये॑तीकारस्य लोपः । चकारेण ठाजादौ द्वितीयादच ऊध्र्वं लोपः सूत्रसिद्धोऽनुद्यते । ऋवर्णादपीति । ऋवर्णादपि परस्य इलच आदेर्लोपः स्यादित्यर्थः । सवित्रियः सवितृल इति । धनि इलचि च रूपम् । वस्तुतस्तु ऋवर्णादपीति भाष्याऽदृष्टत्वादुपेक्ष्यम् । तदेवं व्याख्यातं वार्तिकं समस्तं पठति — चतुर्थादित्यादि । Tattvabodhini ------------- **ठाजादावूर्ध्वं द्वितीयादचः** - ठाजादौ । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । आदिग्रहणं चिन्त्यप्रयोजनं,यस्मिन्विधिस्तदादौ॑इत्येव सिद्धमिति हरदत्तः । अस्मिन्प्रकरण इति । अनुकम्पायां नीतौ चेत्यर्थद्वस्यैव प्रत्यासत्त्या बुद्धौ सन्निधानादिति भावः । ऊध्र्वग्रहणिह सर्वलोपार्थम् । अन्यथाआदेः परस्ये॑त्यादेरेव स्यादित्यभिप्रेत्याह — -द्वितीयादच ऊध्र्व सर्वमिति ।अजिनान्तस्ये॑त्यतो लोप इत्यनुवर्तनादाह -लुप्यत इति । ननु ठग्रहणं व्यर्थम्, इकादेशे कृते अजादावित्येव सिद्धत्वादत आह -ठग्रहणमुको द्वितीयत्व इति । वायुक इति । वायुशब्दात्परस्य दत्तशब्दस्य ठावस्थायामेव वलोपेइसुसुक्तान्ता॑दिति कः । किंच पृथक् ठग्रहणस्य प्रयोजनान्तरमप्यस्ति । यदा तु चित्रगुग्रभृतिभ्ष्ठच्, तदोगन्तत्वात्कादेशप्राप्त्या प्रथममिकादेशस्याऽसंभवेनाजादिलक्षणो लोपो न स्यादिति तदर्तमपि ठग्रहणम् । तेन ठावस्थायामुत्तरपदलोपे कादेशस्याऽसंभवादिकादेशेचित्रिक॑इति रूपं सिध्यतीति बोध्यम ।चतुर्थादनजादौ चे॑ति वक्ष्यमाणमेव भङ्क्त्वा व्याचष्टे -चतुर्थादच ऊध्र्वस्येति । अनजादौ च विभाषा लोपो वक्तव्यः । अनजादाविति । हलादावित्यर्थः ।अस्मिन् प्रकरणे॑इत्येव ।लोपः पूर्वपदस्य च । लोपः पूर्वपदस्य चेति । ठाजादावनजादौ चेति बोध्यः ।अप्रत्यये ततैवेष्टः॑इत्येतद्व्याचष्टे -विनापि प्रत्ययमिति ।उवर्णाल्ल इलस्य च । ल इलस्य चेति । इलस्य लः=लोपः इत्यर्थः । तत्रआदेः परस्ये॑ति इकारलोपो बोध्याः । Padamanjari ----------- 'ठाजादौ' इति समाहारद्वन्द्वे सौत्रः पुंल्लिङ्गनिर्द्देशः। आदिग्रहणं चिन्त्यप्रयोजनम्,'यस्मिन्विधिस्तदादौ' इत्येव सिद्धम्। अस्मिन्प्रकरण इति। प्रत्यासत्या तयोरेव बुद्धौ सन्निधानादिति भावः। ऊर्ध्वमिति प्रथमान्तस्याध्याहारेणान्वय इत्याह - ऊर्ध्वं यच्छशब्दरूपं तस्येति। द्वितीयादिति पञ्चम्या षष्ठी प्रकल्प्यते, प्रथमा तु निर्देशार्थैव।'सुपां सु' इति वा षष्ठीस्थाने प्रथमा भवतीति। ऊर्ध्वग्रहणमनर्थकम्,'तस्मादित्युतरस्य' इत्यूध्वस्यैव भविष्यति? तत्राह-ऊर्ध्वग्रहणं सर्वलोपार्थमिति। अन्यथा ठादेः परस्यऽ इति द्वितीयादचो यः परस्तस्यादेरेव लोपः स्याद्, ऊर्ध्वग्रहणणसामर्थ्यातु सर्वमेवोर्ध्वं लुप्यते। ठग्रहणमनर्थकम्, इकादेशे कृतेऽजादावित्येव सिद्धम्? अत आह - ठग्रहणमिति। अकृत एवैकादेशे ठावस्थायामेव लोपो यथा स्याद् इत्येवमर्थं तावट्ठग्रहणम्, किमेवं सिद्धं भवति? उको द्वितीयत्वे सति परस्यांशस्य लोपे कृते ठिसुसुक्तान्तात्कःऽ इति कादेशः सिद्धो भवति, तत्रैतत्स्याद्-इकादेशे कृतेऽजादिलक्षण एव लोपोऽस्तु, इकादेशस्य स्थानिवद्भावाट्ठग्रहणेन ग्रहणादुकः परत्वेन कादेशो भविष्यति? तत्राऽऽह - आजादिलक्षणो हीति। ठजादिषु यदि वर्णमात्रं प्रत्ययः, अकारस्तूच्चारणार्थः, ततष्ठस्य क इत्यत्रापि वर्णस्यैव ठस्य स्थानित्वम्, ततश्चाल्विधित्वात्स्थानिवद्भावो नोपपद्यते, सङ्घातस्य तु प्रत्ययत्वे तत्रापि सङ्घातस्य ग्रहणम्। तत्र यद्यप्युपपद्यते स्थानिवद्बावः, तथापि सन्निपातपरिभाषया कादेशो न स्यादेव। अजादेः प्रत्ययस्य प्रकृत्या यदानन्तर्थं तत्कृतं ह्युकः प्रत्ययेनानन्तर्यं तत्कथं तस्याजादित्वं विहन्यात्! अत एव मथितं पण्यमस्य माथितिक इत्यत्र यस्येतिलोपे कृते सत्यपि तकारेण प्रत्ययस्यानन्तर्थे कादेशो न भवति। तस्माट्ठग्रहणं कर्तव्यम्। किञ्च - यदा चित्रभानुप्रभृतिभ्यष्ठज्विधीयते, तदेकादेशाबावादजादिलक्षणो लोपो न स्यादिति तदर्थमपि ठग्रहणम्। चतुर्थादच्चेति। इदं संग्रहश्लोक नास्ति, क्वाचित्कं चैतत्। अनजादौ विभाषा लोपो वक्तव्य इति। द्वितीयादच ऊर्ध्वस्येत्येव। लोपः पूवपदस्य चेति श्लोकवातिकम्, तस्योपस्कारः - ठाजादावनजादौ च वक्तव्य इति। तत्र ठाजादौ पूर्वोतरयोरन्यतरस्य नित्यं लोपः, अनजादौ विकल्पः। उवर्णाल्ल इति। लोपस्य'ल' इति पूर्वाचार्यसंज्ञा, तत्र ठादेः परस्यऽ इतीकारलोपः। तदादेरिति। सन्ध्यक्षरात्परस्य लोपे प्राप्ते तत आरभ्य लोपार्थं वचनम् एकाक्षरपूर्वपदानामिति। अक्षरशब्दोऽयमचि वर्तते, व्यञ्जनसहिते केवले वा। द्वितीयादच ऊर्ध्वस्य लोपे प्राप्ते तेन सह लोपार्थं वचनम्। वागाशारिति। वाचि आशीर्यस्य स वागाशीः। वाचिक इति। अत्र यदि द्वितीयादच ऊर्ध्वस्य लोपः स्यातदा ठकृतव्यूहाः पाणिनीयाःऽ इति परिभाषया कुत्वजश्त्वयोनिवृतौ वाचाआइक इति स्थिते आकारस्य यस्येतिलोपेन निवृतावपि तस्य स्थानिवद्भावादाकारान्तस्य भसंज्ञायां त्वन्तर्वतिनीं विभक्तिमाक्षित्य पदसंज्ञा, सा चकारान्तस्येति भिन्नावधिकत्वाद्भसंज्ञया पदसंज्ञा न बाध्यते, ततश्च कुत्वजश्त्वयोः कृतयोः-वागिक इति स्यात्। उतरपदलोपे तु तस्यानजादेशत्वात् स्थानिवत्वाभावातुल्यावधिकया भसंज्ञया पदसंज्ञायास्तद्धिताश्रयायास्तावदपवादत्वाद्बाधः। या त्वन्तर्वधिकया भसंज्ञया पदसंज्ञायास्तद्धिताश्रयाया स्तावदपवादत्वाद्बाधः। या त्वन्तर्वतिनीं विभक्तिमाश्रित्य सुबन्थं पदमिति पदसंज्ञा, तस्या अपि एकसंज्ञाधिकारात्परत्वाच्च बाध इति सिद्धमिष्टम् । कथमिति। अचाप्युतरपदलोपे कृते भसंज्ञया पदसंज्ञाया बाधितत्वाज्जश्त्वं न स्यादिति प्रश्नः। षष इति। सौत्र एवात्र लोप इष्यते, न त्वौपसख्यानिक इत्यर्थः । संग्रहश्लोकतृतीयपादे तथाशब्दानन्तरं वाशब्दः पाठयः, न त्वेवशब्दः,। स च पूर्वत्रापि यथेष्ट्ंअ सम्बन्धनीयः, इष्ट्ंअ च पूर्वमेव दर्शितम्। अत्र चोदयति - संज्ञाशब्दस्यैकदेशे लुप्ते कथं संज्ञिनोऽवगमः, न हि देव इति वा दत इति वा संज्ञा कृता, किं तर्हि, देवदत इति ? अत्राहुः - एकदेसेन समुदायेऽनुमीयते, विषाणेनेव गौः, सोऽनुमितोऽर्थस्य वाचक इति। ननु चोच्यार्यमाणा एव शब्दोऽर्थ प्रत्याययति, न प्रतीयमानः? नेत्याह; स्मृत्यनुमिति श्रुतिः कि नार्थ प्रत्याययति! प्रत्याहारेषु वा मध्यवर्तिनो वर्णाः किं सवर्णान्न प्रत्यायन्ति! किञ्च - अशक्तिजैरपभ्रंशैः साधवः स्मारिता यथा। शब्दाः प्रत्याययन्त्यर्थं तथात्रापि भविष्यति ॥ समुदाये संज्ञात्वेन विनियुज्यमानेऽवयवानामपि संज्ञात्वममुनिप्पद्यते। किमर्थं तर्हि लोपो विधीयते? पदानामेव संज्ञैकदेशभूतानां साधुत्वं यथा स्याद्, वर्णानां मा भूदिति। उक्तं च - तुल्यायामनुनिष्पतौ दे-य-सो इत्यसाधवः। न ह्यन्वाख्यायके शास्रे दतादिवदनुस्मृतिः ॥ Nyaas ----- `अस्मिन्? प्रकरणे` इत्यादि। अनेनास्मिन्? प्रकरणे यौ विहितौ ठाजादी तत्र लोपी भवति, यौ तु प्रकरणान्तरे तत्र न भवतीति दर्शयति। एतच्चैतत्प्रकरण विहितयोष्ठाजाद्योरिहानुवुत्तेर्लभ्यते। अथोध्र्वग्रहणं किमर्थम्, यावता `द्वितीयादचः` इति पञ्चमी, तस्मादन्तरेणाप्यूष्र्वग्रहणम्, **तस्मादित्युत्तरस्य** (1.1.67) इत्यूध्र्वं यच्छब्दरूपं तस्यैव लोपो भविष्यति? इत्यत आह - `उध्र्वंग्रहणम्` इत्यादि। असत्यूध्र्वंग्रहणे **आदेः परस्य** (1.1.54) इति द्वितीयादचो यः परस्तस्यादेर्लोपः स्यात्, तस्मिस्तदु सति सर्वे निवर्तते। अतः सर्वस्य लोपो यथा स्यादित्येवमर्थमूध्र्वंग्रहणम्। अथ ठग्रहणं किमर्थम्, यावता ठस्येकादेशे कृतेऽजादावित्येव सिद्धम्? इत्यत आह - `ठग्रहणम्` इत्यादि। उको द्वितीयत्वे सत्यकृत एवेकादेशे ठावस्थायामेव द्वितीयादूध्र्वस्य लोपे कृते `इसुसुक्तान्तात्? कः` (7.3.51) इति कविधिर्यथा स्यादित्येवमर्थं ठग्रहणम्। तत्रैतत्? स्यात्? चोद्यम् - इकादेशे कृतेऽजादिलक्षते च द्वितीयादूध्र्वस्य लोपे स्थानिवद्भावाट्ठग्रहणेन ग्रहणात्? कादेशो भविष्यति? इत्याह - `अजादिलक्षणे हि` इत्यादि। इहादेशविधौ तत्र ठग्रहणं वर्णग्रहणं स्यात्, सङ्घातग्रहणं वा; तत्र वर्णग्रहणेऽल्विधित्वात्? स्थानिवद्भावो नोपपद्यते। सह्घातग्रहणे यद्यप्युपपद्यते, तथापि `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य` (व्या।प।12) इत्यजादित्वसन्निपातकृतमुकः ठप्रत्ययेनानन्तय्र्यमिति तदजादित्वविघातं न कुर्यात्। ततश्च यथा - मथितं पण्यमस्य माथितिक इत्यत्र यस्येति (6.4.148) लोपे सत्यपि तकारेण ठस्यानन्तर्य्ये कादेशो न भवति, तता वायुदत्तो वायुक इति न स्यात्। तस्मादुको द्वितीयत्वे कविधानार्थं ठग्रहणम्। `उवर्णाल्लः` इति। तस्य च लोप इत्यर्थः। स चादेरेव भवति, न सर्वस्य। अथवा - ल इत्यादेशएवायं सर्वे लस्य विधीयते। च चानेकाल्त्वात्सर्वस्यैव भवति।`द्वितीयादचः` इति। द्वितीयलोपे कर्तव्ये सन्ध्यक्षरस्य द्वितीयत्वं भवति यदा, तदादेः शब्दरूपस्य लोपो भवतीति वक्तव्यम्। सन्ध्यक्षरादूध्र्वस्य लोपोऽपि प्राप्ते सन्ध्यक्षरस्यैकाक्षरपूर्वपदानामित्यादि द्वितीयादच ऊष्र्वस्य लोपः उक्तः, तदपवादः। `एकाक्षर` इति। अक्षरशब्दश्चायमच्यपि वर्तते। एकाक्षरमेकाच पूर्वंपदं येषां ते, तेषामुत्तरपदलोपो वक्तव्यः। `वागाशीः` इति। वाच्याशीरस्येति कृत्वा वैयधिकरण्ये बहुव्रीहिः। अनुकम्पितो बागाशीरिति विगृह्रठचि कृते द्वितीयादच ऊध्र्वस्य लोपः स्यात्। तस्मिन्? सति वाच्ा+इक इति स्थिते यस्येति (6.4.148) लोपे कृते **अचः परस्मिन् पूर्वविधौ** (1.1.57) इति स्थानिवद्भावात्पदसंज्ञा न स्यात्। तस्मात्? तस्यान्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञा, **चोः कुः** (8.2.30) इति कुत्वम् - वागिक इति स्यात्। आशीःशब्दस्य तस्य परलोपे कृते तस्यानजादेशात्वात्? स्थानिवद्भावो नास्तीति भसंज्ञा भवत्येव, ततस्तया पदसंज्ञाया निषिद्वायां पदनिबन्धनकुत्वादि न भवतीति वाचिक इति सिध्यति। `कथम्` इत्यादि। यद्येकाक्षरपूर्वपदानामुत्तरपदस्य लोप उच्यते, षडिक इति न सिध्यति। अत्राप्युत्तरलोपे कृते भसंज्ञायानुपजातायां पदसंज्ञायां बाधितायाम्? **झलां जशोऽन्ते** (8.2.39) इति षषः षकारस्य जश्त्वे कृते षडिक इति न सिध्यति॥ Prakriyasarvasvam ----------------- उक्तार्थे ठेऽजादौ प्रत्यये च परे द्वितीयादच ऊर्ध्वगस्य भागस्य लोपः स्यात् । अनुकम्पितः शिक्ष्यमाणो वा देवदत्तो देविकः । वासिष्ठो वासिकः । मातृदत्तो मातृकः । उगन्तादृस्य कः । एचस्त्विह द्वितीयात्त्वे द्वितीयाजपि लुप्यते । कुबेरदत्तोऽनुकम्प्यः शिक्ष्यो वा कुबिको भवेत् ॥ ३५१ ॥ ठचो विकल्पात् के देवदत्तकः । (वा०) । देवकः । (वा०) । दत्तिकः, दत्तकः । (वा०) । सत्या भामा, सत्यभामा ॥ Vartika ------- चतुर्थादच ऊर्ध्वस्य लोपो वक्तव्यः ।