53068: विभाषा सुपो बहुच् पुरस्तात्तु ==================================== **Padacheda:** विभाषा | S | 1 | 1 | सुपः | S | 5 | 1 | बहुच् | S | 1 | 1 | पुरस्तात् | S | 0 | 0 | तु | S | 0 | 0 | Sutrartha --------- **'किञ्चित् न्यूनम्' अस्मिन् सन्दर्भे सुबन्तशब्दस्य अग्रे विकल्पेन 'बहुच्' इति प्रत्ययः विधीयते ।** 'सम्पूर्णतायाः किञ्चित् अभावः' अस्मिन् सन्दर्भे **ईषदसमाप्तौ कल्पब्देश्यदेशीयरः** (5.3.67) इत्यनेन कल्पप्, देश्य, देशीयर् - एते प्रत्ययाः उक्ताः सन्ति । एतस्मिन्नेव सन्दर्भे सुबन्तशब्दस्य अग्रे 'बहुच्' इति प्रत्ययः वर्तमानसूत्रेण विधीयते । यथा - 1. कश्चन देवदत्तः यदि कस्मिंश्चित् कार्ये बह्वंशरूपेण पटुः अस्ति परन्तु सम्पूर्णरूपेण न, तर्हि तस्य निर्देशार्थम् 'पटुः' अस्य सुबन्तस्य प्रारम्भे 'बहुच्' इति प्रत्ययः विधीयते । यथा - ईषद् पटुः = बहुच् + पटुः = बहु + पटु [**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुँलोपः] → बहुपटु । यथा - अयम् देवदत्तः बहुपटुः । Devadatta is almost an expert, but not completely - इति आशयः । ज्ञातव्यम् - पक्षे **ईषदसमाप्तौ कल्पब्देश्यदेशीयरः** (5.3.67) इत्यनेन कल्पप्, देश्य, देशीयर् - एते प्रत्ययाः अपि भवन्ति । यथा - अयम् देवदत्तः पटुकल्पः पटुदेश्यः पटुदेशीयः वा । यथा - अयम् देवदत्तः बहुपटुः पटुकल्पः पटुदेश्यः पटुदेशीयः वा विशेषः - 'बहुच्' इति प्रत्ययः सुबन्तस्य प्रारम्भे विधीयते इति स्मर्तव्यम् । अस्य निर्देशार्थम् एव अस्मिन् सूत्रे 'पुरस्तात्' इति उक्तमस्ति । 2. एवमेव - किञ्चन फलम् प्रायः बह्वंशरूपेण मृदु विद्यते परन्तु सम्पूर्णरूपेण न, तर्हि तस्य निर्देशः 'आम्रफलम् इदम् बहुमृदु' इति भवति । पक्षे 'आम्रफलम् इदम् मृदुकल्पम् मृदुदेश्यम् मृदुदेशीयम् वा' इति अपि प्रयोगः साधु एव । This mango is mostly soft, but not completely - इति आशयः । ज्ञातव्यम् - 1. 'सम्पूर्णतायाः किञ्चित् अभावः' अस्मिन् सन्दर्भे **ईषदसमाप्तौ कल्पब्देश्यदेशीयरः** (5.3.67) इत्यनेन उक्ताः कल्पप्, देश्य, देशीयर - एते प्रत्ययाः तिङन्तेभ्यः अपि विधीयन्ते । परन्तु वर्तमानसूत्रेण उक्तः 'बहुच्' प्रत्ययः केवलम् सुबन्तात् एव भवति, न हि तिङन्तात् । एतस्य निर्देशार्थमेव अस्मिन् सूत्रे 'सुपः' इति निर्देशः क्रियते । 2. यद्यपि प्रायः सर्वे प्रत्ययाः **परश्च** (3.1.2) इत्यनेन प्रकृत्याः अनन्तरम् विधीयन्ते, तथाप्यत्र पाठितः 'बहुच्' इति प्रत्ययः 'पुरस्तात्' इति निर्देशसामर्थ्यात् प्रकृतेः प्रारम्भे एव भवति, अनन्तरम् न । तथा च, यद्यप्यत्र प्रत्ययः प्रारम्भे विधीयते, तथापि अस्य प्रयोगेण निर्मितः शब्दः 'तद्धितान्तः' इत्यनेनैव निर्दिश्यते, न हि 'तद्धितादिः' इत्यनेन । 3. अस्मिन् सूत्रे 'ईषद्-असमाप्तिः' इति शब्दः अनुवर्तते । अत्र 'ईषद्' इत्युक्ते 'किञ्चित्' (slight / a little) , तथा 'समाप्तिः' इत्युक्ते 'सम्पूर्णता' (completeness) । 'सम्पूर्णतायाः किञ्चित् अभावः' (A little below the completion) अस्य निर्देशार्थमत्र 'ईषद्-असमाप्तिः' इति प्रयोगः कृतः अस्ति । 4. 'बहुच्'-प्रत्ययेन निर्मिताः शब्दाः 'समस्तपदानि सन्ति' इति भासते, परन्तु तादृशम् नास्ति इति स्मर्तव्यम् । यथा, अत्र निर्मितः बहुपटुः' इति शब्दः 'बहुच्'प्रत्ययान्तः अस्ति, न हि 'बहु + पटु' इत्यनेन निर्मितम् समस्तपदम् । Vasu English Summary -------------------- Optionally to a declined noun may be added the affix बहुच् (बहु) but it stands before, when the sense is slight incompleteness. Vasu English Translation ------------------------ Optionally to a declined noun may be added the affix बहुच् (बहु) but it stands before, when the sense is slight incompleteness. This is the only exception to the general rule that an affix is added after a word. The affix बहुच् however is added before the word. The च् of बहुच् indicates that the *udatta* will fall on the final vowel of the word. See (6.1.163). Thus बहुपटुः꣡ 'a tolerably skillful person'. बहुमृदुः꣡, बहुगुडा꣡ दाक्षाः ॥ By the word 'optionally' it is indicated that the affixes कल्प &c also come. By using the word सुपः 'to a noun ending in a case-affix i. e a declined noun', it is indicated that the affix is not added to finite verbs (तिङन्त) ॥ Bhashya ------- विभाषा सुपो बहुच्पुरस्तात्तु (2226) (बहुजधिकरणम्) (विभाषापदप्रयोजनभाष्यम्) विभाषाग्रहणं किमर्थम्? विभाषा बहुज्यथा स्याद्, बहुचा मुक्ते वाक्यमपि यथा स्यात्। नैतदस्ति प्रयोजनम्। प्रकृता महाविभाषा, तया वाक्यमपि भविष्यति॥ इदं तर्हि प्रयोजनम् - कल्पादयोऽपि यथा स्युः इति। एतदपि नास्ति प्रयोजनम्, बहुजप्युच्यते कल्पादयोऽपि, तदुभ्यं वचनाद्भविष्यति। नैवं शक्यम्। अक्रियमाणे हि विभाषाग्रहणेऽनवकाशो बहुच् कल्पादीन् बाधेत। कल्पादयोऽप्यनवकाशाः, ते वचनाद्भविष्यन्ति। सावकाशाः कल्पादयः। कोऽवकाशः? तिङन्तान्यवकाशः॥ (सुप्पदप्रयोजनखण्डनभाष्यम्) अथ सुब्ग्रहणं किमर्थम्? सुबन्तादुत्पत्तिर्यथा स्यात्, प्रातिपादिकान्मा भूदिति। नैतदस्ति प्रयोजनम्। नास्त्यत्र विशेषः सुबन्तादुत्पत्तौ सत्यां प्रातिपदिकाद्वा॥ यद्येवम् - ःइहापि नार्तः सुब्ग्रहणेन - सुप आत्मनः क्यज् 3.1.8 इति। इहापि नास्ति विशेषः सुबन्तादुत्पत्तौ सत्यां प्रातिपदिकाद्वा। अयमस्ति विशेषः - सुबन्तादुत्पत्तौ सत्यां पदसंज्ञा सिद्धा भवति। प्रातिपदिकादुत्पत्तौ सत्यां पदसंज्ञा न प्राप्नोति। ननु च प्रातिपदिकादुत्पत्तौ सत्यां पदसंज्ञा सिद्धा। कथम्? आरभ्यते नः क्ये 1.4.15 इति। तच्चावश्यं वक्तव्यम् - सुबन्तादुत्पत्तौ सत्यां नियमार्थम्, तदेव प्रातिपदिकादुत्पत्तौ सत्यां विध्यर्थं भविष्यति॥ इदं तर्हि प्रयोजनम् - सुबन्तादुत्पत्तिर्यथा स्यात्, तिङन्तान्मा भूदिति। एतदपि नास्ति प्रयोजनम्। ङ्याप्प्रातिपदिकात्(4.1.1) इति वर्तते। अत उत्तरं पठति - (5848 सुप्प्रयोजनवार्तिकम्॥ 1 ॥) - बहुचि सुब्ग्रहणात्पूर्वत्र तिङो विधानम् - (भाष्यम्) बहुचि सुब्ग्रहणं क्रियते, पूर्वत्र तिङो विधिर्यथा विज्ञायेत। नैतदस्ति प्रयोजनम्। प्रकृतं तिङ्ग्रहणमनुवर्तते। क्व प्रकृतम्? अतिशायने तमबिष्ठनौ 5.3.55 तिङश्च 56 इति॥ (वार्तिके न्यासान्तरबोधकभाष्यम्) एवं तर्हि - बहुचि सुब्ग्रहणं पूर्वत्र तिङो विधानात् बहुचि सुब्ग्रहणं क्रियते। किं कारणम्? पूर्वत्र तिङो विधानात्। पूर्वत्र तिङश्चेत्यनुवर्तते, तदिहापि प्राप्नोति। ननु च तिङ्ग्रहणं निवर्तते। अवश्यमुत्तरार्थमनुर्वत्यन्ते - अव्ययसर्वनाम्नामकच्प्राक् टेः 5.3.71 इति। पचतकि, जल्पतकीत्येवमर्थम्॥ यदि सुब्ग्रहणं क्रियते, स्वरो न सिध्यति। बहुपटवः एवं स्वरः प्रसज्येत, बहुप्टव इति चेष्यते। पठिष्यति ह्याचार्य्यः - चितः सप्रकृतेर्बह्वकजर्थम् इति स्वरः कथम्? (5849 स्वरसाधकवार्तिकम्॥ 2 ॥) - स्वरः प्रातिपदिकत्वात् - (भाष्यम्) सुब्लुकि कृते प्रातिपदिकत्वात्स्वरो भविष्यति॥ (तुपदाक्षेपभाष्यम्) अथ तुग्रहणं किमर्थम्॥ (5650 तुपदप्रयोजनवार्तिकम्॥ 3 ॥) - तुग्रहणं नित्यपूर्वार्थम् - (भाष्यम्) तुग्रहणं क्रियते - नित्यं पूर्वो यथा स्यात्, विभाषा मा भूदिति। नैतदस्ति प्रयोजनम्। न विभाषाग्रहणेन पूर्वमभिसंबध्यते। किं तर्हि? बहुजभिसंबध्यते - विभाषा बहुज्भवतीति। यदा च भवति तदा नित्यं पूर्वो भवतीति॥ इदं तर्हि प्रयोजनम् - प्रागुत्पत्तेर्यल्लिङ्गं वचनं च तदुत्पन्नेऽपि प्रत्यये यथा स्यात्। बहुगुडो द्राक्षा, बहुतैलं प्रसन्ना, बहुपयो यवागूरिति। एतदपि नास्ति प्रयोजनम्। स्वार्थिकोऽयम्, स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते॥ एवं तर्हि सिद्धे सति यत्तुग्रहणं करोति तज्ज्ञापयत्याचार्यः - स्वार्थिका अतिवर्तन्ते अपि लिङ्गवचनानीति। किमेतस्य ज्ञापने प्रयोजनम्? गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, पयस्कल्पा यवागूरित्येतत्सिद्धं भवति॥ (5851 विप्रतिषेधोपसंख्यानवार्तिकम्॥ 4 ॥) - तमादिभ्यः कल्पादयो विप्रतिषेधेन - (भाष्यम्) तमादिभ्यः कल्पादयो भवन्ति विप्रतिषेधेन। तमादीनामवकाशः - प्रकर्षस्य वचनम्, इर्षदसमाप्तेरवचनम्। पटुतरः, पटुतमः। कल्पादीनामवकाशः - ःइर्षदसमाप्तेर्वचनं, प्रकर्षस्यावचनम्। पटुकल्पः, मृदुकल्पः। उभयवचने उभयं प्राप्नोति - पटुकल्पतरः, मृदुकल्पतरः। कल्पादयो भवन्ति विप्रतिषेधेन॥ (वार्तिकोक्तविप्रतिषेधाक्षेपभाष्यम्) यद्येवमीषदसमाप्तेः प्रकर्षे तमादिः प्रत्ययः प्राप्नोति, प्रकृतेरेव च प्रकर्ष इष्यते॥ (5852 समाधानवार्तिकम्॥ 5 ॥) - तमादिरीषत्प्रधानत्वात् - (भाष्यम्) तमादिरीषत्प्रधानादपि भवन् यस्य प्रकर्षोऽस्ति तस्य प्रकर्षे भविष्यति। कस्य च प्रकर्षोऽस्ति? प्रकृतेरेव॥ Kashika ------- ईषदसमाप्तिविशिष्टेऽर्थे वर्तमानात् सुबन्ताद् विभाषा बहुच् प्रत्ययो भवति, स तु पुरस्तादेव भवति न परतः। चित्करणमन्तोदात्तार्थम्। ईषदसमाप्तः पटुः बहुपटुः। बहुमृदुः। बहुगुडो द्राक्षा। विभाषावचनात् कल्पबादयोऽपि भवन्ति। सुब्ग्रहणं तिङन्ताद् मा भूदिति॥ Siddhanta Kaumudi ----------------- ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव नतु परतः । ईषदूनः पटुर्बहुपटुः । पटुकल्पः । सुपः किम् । यजतिकल्पम् ॥ Laghu Siddhanta Kaumudi ----------------------- ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव न तु परतः। ईषदूनः पटुर्बहुपटुः। पटुकल्पः। सुपः किम्? जयतिकल्पम्॥ Balamanorama ------------ **विभाषा सुपो बहुच् पुरस्तात्तु** - विभाषा । ईषदसमाप्तावित्यनुवर्तते । तदाह — ईषदसमाप्तिविशिष्ट इति । प्रागेवेति । सूत्रे तुशब्दोऽवधारणे इति भावः । बहुपटुरिति । पटुशब्दात्सुबन्तात्प्राग्बहुचि कृते प्रातिपदिकावयवत्वात्सुपो लुकि समुदायात्पुनः सुबुत्पत्तिः । नच तद्धितान्तत्वाऽभावात्समासत्वाऽभावाच्च पूर्वोत्पन्नसुब्विशिष्टस्य प्रातिपदिकत्वाऽभावात्कथमिह लुगिति वाच्यम्,अर्थव॑दित्यनेन तस्य प्रातिपदित्वसत्त्वात् । पटुरित्यस्य पूर्वोत्पन्नसुप्प्रत्ययान्तत्वेऽपिबहुपटु॑रिति समुदायस्य प्रत्ययान्तत्वाऽभावात्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात् । नचैवं सतिकृत्तद्धिते॑त्यत्र समासग्रहणं व्यर्थमिति वाच्यं,पदघटितसङ्घातस्य चेत्प्रातिपदिकसंज्ञा तर्हि समासस्यैवे॑ति नियमार्थत्वात् । नचैवं सति प्रकृतेबहुपटु॑रिति समुदायस्य पूर्वोत्पन्नसुब्विशिष्टस्य कथं प्रातिपदिकत्वम्, असमासत्वादिति वाच्यं,यत्र सङ्घाते पूर्वो भागः पदं तस्य चेत्प्रातिपदिकसंज्ञातर्हि समासस्यैवे॑ति नियमशरीराभ्युपगमादिति प्रागुक्तं न विस्मर्तव्यम् । न चसमर्थाना॑मिति सूत्रे वाग्रहणादेव सिद्धे विभाषाग्रहणं व्यर्थमिति वाच्यं, बहुजभावपक्षे पूर्वसूत्रविहितकल्पबाद्यर्थत्वात् । अन्यथामहाविभाषया अपवादेन मुक्ते उत्सर्गस्य न प्रवृत्ति॑रिति सिद्धान्ताद्बहुजभावे वाक्यमेव स्यात् । नच कल्पबादीनां बहुचा समानविषयकत्वान्निरवकाशत्वं शङ्क्यं, तेषां तिङन्ते सावकाशत्वादिति भाष्ये स्पष्टम् । एतदभिप्रेत्याह — पटुकल्प इति । ननु लुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तादिह सुब्ग्रहणं व्यर्थमिति पृच्छति — सुपः किमिति ।तिङ्श्चे॑त्यनुवृत्तिनिवृत्त्यर्थं सुब्ग्रहणम् । नच अस्वरितत्वादेव तदनुवृत्तिर्न भविष्यतीति वाच्यम्,अव्ययसर्वनाम्ना॑मित्याद्युत्तरसूत्रेतिङ्श्चे॑त्यनुवृत्तेरावश्यकतया तस्य स्वरितत्वावश्यकत्वादिति भाष्ये स्पष्टम् । एतदभिप्रेत्याह — यजतिकल्पमिति । तुग्रहणं तुस्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तते, क्वचिदतिवर्तन्ते॑ इति ज्ञापनार्थमिति भाष्ये प्रपञ्चितम् । Tattvabodhini ------------- **विभाषा सुपो बहुच् पुरस्तात्तु** - विभाषा सुपः । सूत्रेसुपः॑इति षष्ठन्तं,षष्ठतसर्थप्रत्ययेने॑त्युक्तेः । सुबन्तादिति । एतच्च पञ्चम्यन्तं युक्तमेव, पुरस्ताच्छब्दपर्यायस्य प्रागितिशब्दस्य वृत्तौ प्रयुक्तत्वात् । प्रागित्यपकृष्यत इथि तु मनोरमायां स्थितम् । नस च सूत्रस्थपुरस्ताच्छब्दसमानार्थकप्राक्शब्दयोगेऽपिषष्ठतसर्थे॑ति षष्ठी स्यादिति वाच्यम्,अन्यारा॑दिति सूत्रेऽञ्चूत्तरपदस्य दिक्शब्दत्वेऽपिषष्ठतसर्थप्रत्ययेने॑त्येतद्बाधनार्थं पृथग्ग्रहणमिति सिद्धान्तयित्वाप्राक् प्रत्यग्वा ग्रामा॑दित्युदाहृतत्वात् । काशिकायां तु वृत्तपवि पुरस्ताच्छब्दः प्रयुक्तः, सुबन्तादिति च प्रयुक्तं । तदसमञ्जसमिति मत्वा हरदत्तेन कथंचितं समर्थितं -॒ल्यब्लोप एषा पञ्चमी । एवंभूतं प्रकृतित्वेनाश्रित्येत्यर्थ॑इति । प्रागेवेति । सौत्रस्तुशब्दोऽवधारणे वर्तत इति भावः । तेन च बहुजेव विकल्प्यते, न तु पूर्वत्वम् । तुशब्दाऽभावे तु प्राक्त्वं विकल्प्येत । तथा च पक्षे बहुच् परः स्यात् । भाष्यकारस्य मते तु नेदं तुशब्दस्य फलम् । तथाहि -॒उदइआतोऽन्यतरस्या॑मित्यादौ प्रधानत्वात्प्रत्यय एव विकल्प्यते, न तु परत्वं, प्रत्यय एव हि परत्वविशिष्टो विधीयत इत#इ , विशेषणस्य गुणत्वात्,गुणानां च परार्थत्वादि॑ति न्यायात् । तद्वदिहापि विभाषाग्रहणेन बहुजेब संभन्त्स्यते, न पुरस्तादित्येतत् । तुशब्दस्य तु अवधारणार्थस्याऽन्यदेव प्रयोजनंपुस्तादेव सर्वं यथा स्या॑दिति । तेन लिङ्गसङ्ख्ये अपि प्राक् प्रत्ययोत्पत्तेः प्रकृत्यवस्थायां ये दृष्टे ते एव स्तः । बहुचः प्रयोगश्च प्राक् प्रकृतेरेव भवतीति । तेनबहुगुडो द्राक्षा॑,लघुर्बहुतृणं नरः॑इत्यादौ प्रकृतिवल्लिङ्गमेव भवति, न त्विभिधेयवल्लिङ्गम् । ननुस्वार्थिकाः प्रकृतितो लिङ्गवचनामि लभन्ते॑इत्येव सिद्धमिति किमनेन तुशब्दग्रहणेनेति चेत् । अत्राहुः -एतदेव ज्ञापयतिईषदसमाप्तौ ये स्वार्थिकास्तेष्वभिधेयवदेव लिङ्गवचने स्तः॑इति । तेनगुडकल्पा द्राक्षा॑शर्कराकल्पो गुड॑इत्यादि सिद्धण् । प्रागिवात्कः ।सुपः॑इत्यनुवर्तते, तेन तिङन्तात्को न । Padamanjari ----------- ईषदसमाप्तिविशिष्टेऽर्थे वर्तमानादिति। ल्यब्लोप एषा पञ्चमी। एवम्भूतं सुबन्तं प्रकृतित्वेनाश्रित्येत्यर्थः। सूत्रे तु'सुपः' इति'षष्ठ।ल्तसर्थप्रत्ययेन' इति षष्ठी। स च पुरस्तादेवेति। एतेनानेकार्थत्वान्निपातानाम्'तुशब्दो' वधारणे वर्ततेऽ इति दर्शयति। असति तु तुशब्दे प्रत्ययात् पूर्वत्वस्यापि विधेयतया प्राधान्याद्विभाषाग्रहणेन सम्बन्धः स्यादिति भावः। भाष्यकारस्तु मन्यते - ठुदश्वितोऽन्यतरस्याम्ऽ इत्यादौ यथा परत्वं न विकल्पते, तत्कस्य हेतोः? प्रत्यय एव परत्वविशिष्टो विधीयते, तत्र विशेषणस्य गुमत्वाद्विकल्पेन न सम्बन्धः, गुणानां च परार्थत्वादिति न्यायात्; तद्वदिहापि विभाषाग्रहणेन बहुजेव सम्भन्त्स्यते, न पुरस्तादित्येतत्। तुशब्दस्य त्ववधारणार्थस्यान्यदेव प्रयोजनम् - पुरस्तादेव सर्वं भवतीति। तेन लिङ्गसंख्ये अपि प्राक्प्रत्ययोत्पतेःक प्रकृत्यवस्थायां ये दृष्टे ते एव भवतः। प्रयोगश्च प्राक् कृतेर्भवतीति। तेन बहुगुडो द्राक्षा, लघुर्बहुतृणं नर इति प्रकृतिवल्लिङ्गं भवति, नाभिधेयवत्। एवं च बहुगुडेति स्त्रीलिङ्गपाठः प्रमादजो द्रष्टव्यः; इतरथा भाष्यविरोधात्। ननु च स्वार्थिकत्वादेव प्रकृतितो लिङ्गवचने भविष्यतः, एवं तर्ह्येतज्ज्ञापयति - ईषदसमाप्तौ ये स्वार्थिकास्तेष्वभिधेयवदेव लिङ्गवचने भवत इति। तेन गुडकल्पा द्रक्षा,तैलकल्पा प्रसन्नेति सिद्धं भवति। चित्करणमन्तोदातार्थमिति। तच्चान्तोदातत्वं सप्रकृतेः समुदायस्य भवति, न बहुचः; चितः सप्रकृतेर्बह्वकजर्थमिति वचनात्। यद्येवम्, बहुपटव इति सुबन्तस्य पुरस्तादुत्पतौ जस उदातत्वं प्राप्नोति? स्यादेवम्, यदि प्रागुत्पन्नो जसवतिष्ठेत; इह तु बहुच्युत्पन्ने समुदायस्येषदसमाप्तिलक्षणेनार्थवत्वात्प्रातिपदिकत्वे सति'सुपो धातुप्रातिपदिकयोः' इति लुकि पुनरपरो जसुत्पद्यते, तस्य च प्रकृत्यनेकदेशत्वान्नोदातत्वम्। ननु समासग्रहणस्य नियमार्थत्वात्प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा न प्राप्नोति? ज्ञापकात्सिद्धम्, यदयमप्रत्ययैति प्रतिषेधं शास्ति, तज्ज्ञापयति - भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा, न तु समासग्रहणेन व्यावृत्तिरिति। विभाषावचनादित्यादि। अन्यथा तिङ्न्तेषु सावकाशाः कल्पबादयः सुबन्ते विशेषविहितेन बहुचा देशभेदेऽपि समानार्थेन बाध्येरन्। सुब्ग्रहणमित्यादि। अन्यथा'तिङ्स्च' इत्यधिकारात्कल्पबादिवद्बहुजपि तिङ्न्तस्यापि पुरस्तात्स्यात्। प्रातिपदिकनिवृत्यर्थं तु सुब्ग्रहणं न भवति; विशेषाबावात्। ननु चायमस्ति विशेषः - बहुसेचौः, बहुसेचः, सुबन्तादुत्पतौ सत्याम्'सात्पदाद्योः' इति षत्वनिषेधः सिद्ध्यति, प्रातिपदिकातूत्पतौ षत्वप्रसह्गः? नैष दोषः, सुबन्तादप्युत्पताववश्यमत्र कुत्वनिषेदार्थो यत्नः कर्तव्यः, स एव प्रातिपदिकादुत्पतौ ष्ट्वनिषेदार्थः करिष्यते। स च'न लुमताङ्गस्य' इत्यत्रैव दर्शितः, इह तरप्तमपोरवकाशः प्रकर्षस्य वचनमीषदसमाप्तेरवचनम् - पटुअतरः, पटुअतमः, कल्पबादीनामवकाश ईषदसमाप्तेर्वचनं प्रकर्षस्यावचनम् - पटुअकल्पः, मृदुकल्पः; उभयवचनादुभयप्रसङ्गे परत्वात्कल्पबादिषु कृतेषु प्रकर्षद्योतनाय पुनःप्रसङ्गविज्ञानातदन्तातरप्तमपौ भवतः - पटुअकल्पतरः, मृदुकल्पतर इति। यदि यदन्ताद्भवन्तौ यत्प्रधानस्तदन्तस्तत्प्रकर्षे प्राप्नुतः, किंप्रधानश्च तदन्तः? ईषदसमाप्तिप्रधानः, प्रकृत्यर्थप्रकर्षे चेष्यते? नैष दोषः, नेषदसमाप्तेः प्रकर्षः सम्भवति, न हीषदर्थस्यासमाप्तेर्वा प्रकर्षे ईषदसमाप्तिर्भवति ॥ Nyaas ----- विभाषाग्रहणेनेह बहुच्? सम्बध्यते, न पुरस्तादित्येतत्; तेन बहुचः पूर्वत्वं न विक्ल्प्यत इति नित्यमेव तद्भवति, अत एवाह - `स तु पुरस्तादेव` इति। एवकारेम तुशब्दस्यावधारणार्थतां दर्शयति। यदि पुनस्तुशब्दोऽ वधारणार्थो न क्रियते, ततो न ज्ञायते - किं विभाषाग्रहणेन बहुच्? सम्बध्यते, अथ पुरस्तादितयेतदिति! तु शब्देन त्ववधारणार्थेन पुरस्तादितत्येतस्मिन्? नियमिते पारिशेष्याद्विभाषावचने बहुजेवाभिसम्बध्यत इति विज्ञायते। `चित्करणमन्तोदात्तार्थम्` इति। कस्य पुनरन्तोदात्तत्वं चित्कराद्भवति? सप्रकृतेः समुदायस्य;`चितः सप्रकृतेर्ब ह्वकजर्थम्` (वा।6.1.169) इति वचनात्। यद्येवम्, पटव इति सुबन्तादुत्पत्तौ जस उदात्तत्वं प्राप्नोति? नैष दोषः; बहुच्युत्पन्ने सति `अर्थवदधातुरप्रत्ययः प्रातिपदिकम्? (1.2.45) इति प्रातिपदिकसंज्ञायां कृतायाम्, `सुपो धातुप्रातिपादिकयोः` (2.4.71) इति सुब्लुक्? तावत्? क्रियते, तस्मिन्? कृते पश्चादुदात्तत्वं क्रियमाणं पटुशब्दे य उकारस्तस्य भवति। यस्तु पुनः प्रातिपदिकसंज्ञायां कृतायां सुब्लुकि च कृते अन्यो जस्? उत्पद्यते, तस्योदात्तत्वं नाशह्कनीयम्, न ह्रसौ प्रकृत्येकदेशः। ननु चार्थवत्समुदायानां समासग्रहणं नियमार्थमिति बहुच्पूर्वस्य प्रातिपदिकसंज्ञया न भवितव्यम्? नैष दोषः; तुल्यजातीयस्य नियमः। कश्च तुल्यजातीयः? यथाजातीयकानां समासः। कथञ्जातीयकानां समासः? भदसंसर्गवताम्। भेदसंसर्गौ च पृथगर्थानामेव भवतः। द्योतकानाञ्च पृथगर्थवत्ता न सम्भवति। अथ कस्मात्? सुब्लुक्? तावत्? क्रियते, पश्चादन्तोदात्तत्वम्, यावता परत्वादन्तोदात्तत्वे नै व पूर्वं युक्तं भवितुम्? नैतदस्ति; नित्यो हि लुक्, कृताकृतप्रसङ्गित्वात्। स हि कृतेऽप्यन्तोदात्तत्वे प्राप्नोति, अकृतेऽपि; अन्तोदात्तत्वं त्वन्यस्य लुकि कृते प्राप्नोति। अन्यस्याकृते शब्दान्तरस्य प्राप्नुवन्? विधिरनित्यो भवति, तस्माल्लुगेव तावत्? क्रियते। `बहुगुडा द्राक्षा` इति। कथं पुनरत्रेषदसमाप्तिः, यावता गुडशब्देन गुडजातिरुच्यते, तदाधारो वा द्रव्यम्। तत्र जातिस्तावदेका, निरवयवा चेति सर्वस्मिन्नाश्रये समाप्ता, द्रव्यमपि यत्? तया सम्बद्धं तत्? सर्वतः पूर्णत्वात्? समाप्तमेव। तस्मादीषदसमाप्तिरयुक्तमिह विशेणम्, असम्भवात्? सामानाधिकरण्यं च बहुगुडा द्राक्षेति द्राक्षाशब्देन न प्राप्नेति, तस्यार्थान्तरत्वात्? स्त्रीलिङ्गमपि `स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते` (व्या। प। 74) इति नोपपद्यते? नैष दोषः; इह शब्दादुच्चारिताद्द्वयं प्रतीयते - शब्दोऽर्थः, जातिद्र्रव्यञ्च; अभिधेयसम्बन्धेनाशब्दार्थभूता अपि गुणाः, यत्रैतदुभयमस्ति तत्र समाप्तिः। यत्र त्वन्यतरन्नास्ति तत्रेह गुडशब्दो गुडजातिहीने माधुर्यादिगुणहीने वा द्रव्ये वर्तते इत्युपपद्यत ईषदसमान्तिः सामानाधिकरण्यमप्युपद्यत एव। कथम्? यदा तावज्जातिहीने केनचित्? साधम्र्येण द्राक्षादिशब्दाभिधेये वर्त्तित्वा गुडशब्दः प्रत्ययमुत्पदयत, तदा द्राक्षाशब्देन सामानाधिकरण्यं भवति; उभयोरेकार्थवृत्तित्वात्। यदा तु गुणहीने गुडजीतीय एव, तदापि सामानाधिकरण्यम्, गौर्वाहीक इति यथा, तथा भविष्यति गुणहीनोऽपि गुडशब्दः। गुडो बहुगुडशब्देनोत्त्यते, तेन च तुल्या द्राक्षेति साऽपि बहुगुडशब्देनाभिदायिष्यते। स्त्रीलिङ्गमपि चोपपद्यते; तस्य लोकाश्रयत्वात्। अपि च `स्वार्थिकाः प्रकृतेलिंङ्गवचनान्यनुवर्तन्ते (व्या। प। 74) इति प्रायिकमेतत। तेन कदाचिदतिवर्ततन्तेऽपि, यथा कुटीरः, शमीर इति। **कुटीशमीशुण्डाभ्यो रः** (5.3.88) इति स्वार्थिकश्च। `विभाषावचनात्` इत्यादिना विभाषाग्रहणस्य प्रयोजनमाचष्टे। असति हि विभाषाग्रहणे तिडन्तेषु कृतावकाशाः कल्पबादयो बहुचा सुबन्ताद्विशेषविहितेन बाध्येरन्? तस्मिस्तु सतदि पक्षे तेऽपि भवन्ति। ननु च भिन्नदेशेन बहुचा नास्ति तेषां विरोधः, तत्कुतो बाधा? असत्यां वा बाधायां कृतेऽपि बहुचि तैर्भवितव्यमेव, परदशस्यानवष्टब्धत्वात्? नैतदस्ति; न ह्रवश्यं देशकृत एव सामान्यविशेषयोर्विरोधो भवति, किं तर्हि? अर्थकृतोऽपि। बहुचश्च कल्पबादिभिः समानोर्थ इति बहुचा द्योतितत्वात्? तस्यार्थस्य कल्पबादयो न भवविष्यन्ति। न हि द्योतिते पुनर्द्योतनमस्ति, यथाभिहिते नाभिधातव्यम्। अथ सुब्ग्रहणं किमर्थम्, यावता प्रातिपदिकग्रहणमनुवर्तते, न च प्रातिपदिकात्? सुबन्ताद्वा बहुच उत्पत्तौ कश्चिद्विशेषोऽस्ति? अत आह - `सुब्ग्रहणम्` इत्यादि। असति हि सुब्ग्रहणे `तिङश्च` (5.3.56) इति प्रकृतत्वात्? ततो हि प्रत्ययः स्यात्। अतस्तन्निवृत्त्यर्थं सुबग्रहणम्॥ Prakriyasarvasvam ----------------- उक्तेऽर्थे सुबन्तस्य पुरस्ताद् बहुच्प्रत्ययो वा स्यात् । किञ्चिदूनः पटुः बहुपटुः । अत्रार्थवत्त्वेन प्रातिपदिकत्वात्पूर्वसुब्लुकि सुबन्तरोत्पत्तावपि स्वलिङ्ग- वचनत्वमेवेष्टम् । बहुतृणं नरः ॥ Sutra Prayogas -------------- * **बहुतृणं** (शिशुपालवधम्): `विभाषा सुपो बहुच्पुरस्तात्` इति बहुच्प्रत्ययः प्रकृतेः पूर्वं च भवति। * **बह्वारम्भैः** (शिशुपालवधम्): `विभाषा सुपो बहुच्पुरस्तात्तु` इति बहुप्रत्ययः।