53066: प्रशंसायां रूपप् ======================= **Padacheda:** प्रशंसायाम् | S | 7 | 1 | रूपप् | S | 1 | 1 | Sutrartha --------- **प्रशंसाम् द्योतयितुम् प्रातिपदिकात् तिङन्तात् च स्वार्थे रूपप्-प्रत्ययः भवति ।** अनेन सूत्रेण 'रूपप्' इति प्रत्ययः स्वार्थे विधीयते । कस्यचन प्रशंसा कर्तव्या अस्ति चेत् तस्मात् प्रातिपदिकात् (तिङन्तात् वा) स्वार्थे 'रूपप्' इति प्रत्ययः भवति । यथा - 1. प्रशस्तः वैयाकरणः (A grammatician who deserves to be praised) अस्मिन् अर्थे 'वैयाकरण' शब्दात् 'रूपप्' इति प्रत्ययं योजयित्वा 'वैयाकरणरूप' इति शब्दः सिद्ध्यति । वैयाकरणरूपः इत्युक्ते सः वैयाकरणः यः प्रशंसनीयः अस्ति । 2. प्रशंसनीयम् पचति (a cook whose cooking is commendable) अस्मिन् अर्थे 'पचति' अस्मात् तिङन्तात् 'रूपप्' इति प्रत्ययं योजयित्वा 'पचतिरूप' इति प्रातिपदिकं सिद्ध्यति । यथा - 'देवदत्तः पचतिरूपमस्ति' इत्युक्ते देवदत्तः प्रशंसनीयम् पचति । ज्ञातव्यम् - 1. अनेन सूत्रेण निर्दिष्टः रूपप्-प्रत्ययः स्वार्थे विधीयते । अतः, यदा अयम् 'रूपप्' प्रत्ययः तिङन्तात् विधीयते, तदा निर्मितम् प्रातिपदिकम् क्रियाम् एव द्योतयति, न हि कर्तारम् । अनेनैव कारणेन अस्य प्रातिपदिकस्य प्रयोगः क्रियाविशेषणरूपेण क्रियते ।इत्युक्ते, एतत् प्रातिपदिकम् नित्यम् द्वितीयायाम् नपुंसकलिङ्गे एकवचने च प्रयुज्यते । उदाहरणत्रयं पश्यामश्चेत् स्पष्टम् स्यात् - (अ) देवदत्तः प्रशंसनीयम् पचति = देवदत्तः पचतिरूपमस्ति । (आ) रामकृष्णौ प्रशंसनीयम् गायतः = रामकृष्णौ गायतोरूपम् स्तः । (गै + तस् + रूपम् → गायतोरूपम्) (इ) सर्वे प्रशंसनीयम् पठन्ति = सर्वे पठन्तिरूपम् सन्ति । 2. अनेन सूत्रेण विहितः रूपप्-प्रत्ययः 'कार्ये उत्कृष्टत्वम् / excellency' अस्मिन् अर्थे विधीयते । अतः यद्यपि किञ्चन कर्म दुष्कर्म विद्यते, तथापि 'तस्मिन् कर्मणि उत्कृष्टः' यः कोऽपि, तस्य निर्देशार्थम् रूपप्-प्रत्ययः भवत्येव । यथा, यद्यपि 'चौरकर्म' प्रशंसनीयम् नास्ति, तथापि चौराणाम् समूहे यः कोऽपि देवदत्तः स्वस्य कर्मणा प्रशंसामर्हति, तस्य निर्देशार्थम् 'चौररूपः' इति प्रयोगः भवत्येव । 3. 'रूपप्' प्रत्यये परे स्त्रीवाचकस्य अङ्गस्य **तसिलादिष्वाकृत्वसुचः** (6.3.35) इत्यनेन पुंवद्भावः भवति । यथा - 'प्रशस्ता गायिका' अस्मिन् सन्दर्भे 'गायिका' शब्दात् रूपप्-प्रत्यये कृते अङ्गस्य पुंवद्भावः भवति - गायिका + रूपप् → गायक + रूप [पुंवद्भावः] → गायकरूप → गायकरूप + टाप् [ स्त्रीत्वे विवक्षिते **अजाद्यतष्टाप्** (4.1.4) इति टाप्] → गायकरूपा 4. यदि अङ्गम् ङीप्-प्रत्ययान्तमस्ति, तर्हि 'रूपप्' प्रत्यये परे पुंवद्भावं बाधित्वा **घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः** (6.3.43) इत्यनेन अङ्गस्य ह्रस्वादेशः भवति । यथा - दासी + रूपप् → दासिरूपा । Vasu English Summary -------------------- The affix रूपप् comes without a change of connotation after a stem - nominal or verbal, denoting 'praise'. Vasu English Translation ------------------------ The affix रूपप् comes without a change of connotation after a stem - nominal or verbal, denoting 'praise'. The word प्रशंसा means 'praise', and it qualifies the sense of the primitive; i. e. when the sense of the primitive is that of 'praise', then रूपप् is added. As a general rule the स्वार्थिक affixes, which do not change the denotation of the word, serve the purpose of prominently bringing forward one particular meaning out of the several meanings possessed by a primitive. Thus प्रशस्तो वैयाकरणः = वैयाकरणरूपः 'a celebrated Grammarian'. So also याज्ञिकरूपः ॥ The praise may be implied by the sense of the primitive, without being absolute praise: thus चोररूपः 'a celebrated thief', दस्युरूपः 'a celebrated robber'; a person very expert in his evil courses even; these word being applied to a thief who is so dexterous that he can steal 'the collyrium from the eye-lashes', or 'a horse from under the rider', without the latter being aware of it. The affix comes after a verbal word ending in तिङ्, for the word तिङश्च (5.3.56) is understood here also. Thus पचतिरूपम्, पचतोरूपम् or पचन्तिरूपम् 'who is celebrated, who two are celebrated or who all are celebrated in cooking'. These words पचतिरूपम् &c cannot take dual or plural; because the action denoted by the verb is only one, not many. These words are always in the neuter gender, by the general usage of the people. Bhashya ------- प्रशंसायां रूपप् (2224) (रूपप्प्रत्ययाधिकरणम्) (प्रशंसायामित्यस्य प्रकृत्यर्थविशेषणबोधकं भाष्यम्) स्त्रीलिङ्गेनायं निर्देशः क्रियते, एकवचनान्तेन च। तेन स्त्रीलिङ्गादेवोत्पत्तिः स्यादेकवचनान्ताच्च। पुंनपुंसकलिङ्गात् द्विवचनबहुवचनान्ताच्च न स्यात्। नैष दोषः। नायं प्रत्ययार्थः। किं तर्हि? प्रकृत्यर्थविशेषणमेतत् - प्रशंसायां यत्प्रातिपदिकं वर्तते तस्माद्रूपब्भवति। कस्मिन्नर्थे? स्वार्थ इति। स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते॥ (5838 पूर्वपक्षिण उपसंख्यानवार्तिकम्॥ 1 ॥) - प्रकृतेर्लिङ्गवचनाभावात् तिङ्प्रकृतेरम्भाववचनम् - (भाष्यम्) प्रकृतेर्लिङ्गवचनाभावात्तिङ्प्रकृते रूपपोऽम्भावो वक्तव्यः। पचतिरूपम्, पचतोरूपम्, पचन्तिरूपमिति॥ (5839 सिद्धान्तवार्तिकम्॥ 2 ॥) - सिद्धं तु क्रियाप्रधानत्वात् - (भाष्यम्) सिद्धमेतत्। कथम्? क्रियाप्रधानत्वात्। क्रियाप्रधानमाख्यातं भवति, एका च क्रिया। द्रव्यप्रधानं नाम॥ (आख्यातस्य क्रियाप्राधान्यसाधकं भाष्यम्) कथं पुनर्ज्ञायते क्रियाप्रधानमाख्यातं भवति, द्रव्यप्रधानं नामेति? यत्क्रियां पृष्टस्तिङाऽऽचष्टे - किं देवदत्तः करोति? पचतीति। द्रव्यं पृष्टः कृताऽऽचष्टे - कतरो देवदत्तः? यः कारको हारक इति॥ (क्रियाप्राधान्येऽपि द्विवचनबहुवचनसाधकभाष्यम्) यदि तर्ह्येका क्रिया द्विवचनबहुवचनानि न सिद्ध्यन्ति - पचतः, पचन्तीति। नैतानि क्रियाऽपेक्षाणि, किं तर्हि? साधनापेक्षाणि। इहापि तर्हि प्राप्नुवन्ति - पचतिरूपम्, पचतोरूपम्, पचन्तिरूपमिति। तिङोक्तत्वात्तस्याभिसंबन्धस्य न भविष्यति। एकवचनामपि तर्हि न प्राप्नोति? समयात् भविष्यति। द्विवचनबहुवचनान्यपि तर्हि समयात्प्राप्नुवन्ति। एवं तर्हि - एकवचनमुत्सर्गतः करिष्यते, तस्य द्विबह्वोरर्थयोर्द्विवचनबहुवचने अपवादौ भविष्यतः। एवमपि नपुंसकत्वं वक्तव्यम्। न वक्तव्यम्। लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य॥ (5849 पूर्वपक्षिण उपसंख्यानवार्तिकम्॥ 3 ॥) - वृषलादिभ्य उपसंख्यानम् - (भाष्यम्) वृषलादिभ्य उपसंख्यानं कर्तव्यम्। वृषलरूपः, दस्युरूपः, चोररूप इति॥ (5841 समाधानवार्तिकम्॥ 4 ॥) - सिद्धं तु प्रकृत्यर्थवैस्पष्ट्यवचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? प्रकृत्यर्थस्य वैस्पष्ट्य इति वक्तव्यम्। वृषलरूपोऽयम्, अप्ययं पलाण्डुना सुरां पिबेत्। चोररूपोऽयम्, अप्ययमक्ष्णोरञ्ञ्जनं हरेत्। दस्युरूपोऽयम्, अप्ययं धावतो लोहितं पिबेत्॥ Kashika ------- प्रशंसा स्तुतिः। प्रकृत्यर्थस्य विशेषणं चैतत्। प्रशंसाविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे रूपप् प्रत्ययो भवति। स्वार्थिकाश्च प्रत्ययाः प्रकृत्यर्थविशेषस्य द्योतका भवन्ति। प्रशस्तो वैयाकरणो वैयाकरणरूपः। याज्ञिकरूपः। प्रकृत्यर्थस्य वैशिष्ट्ये प्रशंसा भवति। वृषलरूपोऽयम्, यः पलाण्डुना सुरां पिबति। चोररूपः, दस्युरूपः, योऽक्ष्णोरप्यञ्जनं हरेत्। **तिङश्च** (५.३.५६) इत्यनुवर्तते। पचतिरूपम् पचतोरूपम्, पचन्तिरूपम्। क्रियाप्रधानमाख्यातम्। एका च क्रियेति रूपप्प्रत्ययान्ताद् द्विवचनबहुवचने न भवतः। नपुंसकलिङ्गं तु भवति, लोकाश्रयत्वाल्लिङ्गस्य॥ Siddhanta Kaumudi ----------------- सुबन्तात्तिङन्ताच्च । प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति पचतिरूपम् ॥ Balamanorama ------------ **प्रशंसायां रूपप्** - प्रशंसायां रूपप् । सुबन्तात्तिङन्ताच्चेति । शेषपूरणमिदम् ।तिङश्चे॑त्यनुवृत्तम्, प्रातिपदिकादिति च ।धकाले॑त्यादिलिङ्घात्सुबन्तादिति लभ्यत इति भावः । प्रशंसाविसिष्टे स्वार्थे वर्तमानात्तिङन्तात्सुबन्ताच्च रूपविति फलितम् । पचतिरूपमिति । प्रशस्ता पाकक्रियेत्यर्थः । अत्र भाष्येक्रियाप्रधानमाख्यातं द्रव्यप्रधानं नामे॑ति सिद्धान्तितम् । पचतोरूपं पचन्तिरूपमित्यत्र च न द्विवचनबहुवचने, तिङैव द्वित्वबहुत्वयोरुक्तत्वात् । एकवचनं तूत्सर्गतः करिष्यते, नपुंसकत्वं तु लोकादित्यपि भाष्ये स्पष्टम् । ईषदसमाप्तौ । ईषदसमाप्तिविशिष्ठेऽर्थे । यशस्कल्पमिति । असंपूर्णं यश इत्यर्थः । 'सोऽपदादौ' इति सत्वम् । यजुष्कल्पमिति । असंपूर्णं यजुरित्यर्थः । 'इणः षः' इति षत्वम् । विद्वद्देश्य इति । असम्पूर्णवैदुष्यवानित्यर्थः । एवं विद्वद्देशीयः । अत्र सर्वत्रस्वार्थिकाः प्रकृतितो लिङ्गवचनान्नयनुवर्तन्ते॑ इति वचनात् प्रकृतिलिङ्गत्वं बोध्यम् । पचतिकल्पमिति । असंपूर्णा पाकक्रियेत्यर्थः ।पचतिरूप॑मिति वल्लिङ्गवचननिर्वाहः । एवंवृषभकल्प इयं गौ॑रित्यादावपि प्रकृतिलिङ्गत्वं बोध्यम् ।क्वचित्स्वार्थिकाः प्रकृतितो लिङ्गावचनान्यतिवर्तन्ते॑ इति वचनाद्गुडकल्पा द्राक्षेत्यादौ प्रकृतिलिङ्गातिक्रमः । एतत्सर्वमत्रैव भाष्ये स्पष्टम् । Tattvabodhini ------------- **प्रशंसायां रूपप्** - प्रशंसायां रूपप् । प्रकृत्यर्थस्य परिपूर्णतेह प्रशंसा, न तु स्तुः । तेनेहापि भवति — — ॒चौररूपोऽयं यदक्ष्णोरप्यञ्झनं हरति । गुप्तवस्त्वपहरणेन चौर्यं परिपूर्यते । पचतिरूपमिति । क्रियाप्रधानमाख्यातम् । क्रियायाश्चाऽसत्त्वरूपत्वेऽपि औत्सिर्गिकमेकवचनं भवति । तेन पचतोरूपं पचन्तिरूपमित्यादि । इह प्रथमैव, विबक्त्यन्तराणामप्राप्तेरिति बहुवः । वस्तुतस्तु पश्येत्यादियोगे कर्मणि द्वितीयापि सुलभा । क्लाबत्वं लोकात् ।एवंपचतिकल्प॑मित्यादावपि बोध्यम् ।ट Padamanjari ----------- प्रकृत्यर्थविशेष्णं चैतदिति। प्रत्यार्थत्वे तु वैयाकरणस्य प्रशंसा वैयाकरणरूप इति प्राप्नोति, वैयाकरणरूपो देवदत इति सामानाधिकरण्यं न स्यात्, तस्मात्प्रकृत्यर्थविसेषमम् - प्रशंसाविशिष्टेभ्य इति। स पुनः प्रशस्तो न तु प्रशंसिता; अनभिधानात्। स्वार्थ इति। यद्येवम्, कुमारीरूपेत्यत्रानतिरिक्तं वय इति कृत्वा ङीप् प्राप्नोति? नैष दोषः; कुमारीशब्दादुत्पन्नेन ङीपा वयोविशिष्टार्थगतस्य स्त्रीत्वस्य द्योतितत्वाद्रूपबन्तस्य स्त्रीत्वमात्रमभिव्यङ्क्तुअं टाबेव क्रियते, न च ङीपैव तदभिव्यक्तमिति टापोऽप्रसङ्गः। कुमारीरूप इत्युच्यमाने हि कुटीरादिवल्लिङ्गान्तरं प्रतीयेत। यतद्वा - प्रवृत्तिनिमितभेदान्ङीपोऽप्रसङ्गः, कुमारशब्दस्य वयो निमितम्, रूपबन्तस्य तु तद्गता प्रशंसा, तदाहस्वाथिंकाश्चेत्यादि। अत्रापि प्रवृत्तिनिमितस्य प्रशंसायामयं प्रत्ययः, तेन यो व्याकरणेऽनिपुणः प्रशस्तश्च वंशशीलादिना, तत्र वैयाकरणरूप इति न भवति। क्वचितु सहचरितधर्मप्रशंसायामपि भवति - गोरूपोऽयं यः सम्यग्वहतीति। अथ कथं वृषलादिशब्देभ्यः प्रत्ययः, ते हि तदा निन्दावचनाः, तदभिधेयानां काकादिवन्निकृषख्टतच्वात् ? अत आह - प्रकृत्यर्थस्येति। वैशिष्ट।ल्मुपरिपूर्णता, तस्मिन्सति प्रशंसा भवति। तथा च वृषलादिशब्दा अपि स्वार्थस्य पूर्णत्वे सति प्रसंसाविशिष्ट एवार्थे प्रवर्तन्त इति तेब्योऽपि सिद्धः प्रत्यय इति भावः। वृषलरुप इति। यद्यप्ययं जातिवचनः, जातेश्च न्यूनत्वम् पूर्णत्वं वा न भवति; तथापि सहचरितधर्माल्पत्वं बहुत्वापेक्षं न्यूनत्वं पूर्णत्वं च द्रष्टव्यम्। यद्वा - गुमसमुदाये शब्दप्रवृतेः शब्दार्थस्यैवैतदुभ्यं भवति। यः पलाण्डुनेति। सहयोगे तृतीया। कश्चिद् वृषलः पलाण्कडुअं भक्षयति, कश्चित्सुरां पिबति, यस्तूभयं करोति तस्य परिपूर्णवृषलत्वम्। तथा चोरशब्दार्थस्यापि सुगुप्तवस्त्वपहरणेन परिपूर्णता भवति। अक्ष्णोरब्यञ्जनं हरेदिति। सम्भावने लिङ्, एवंविधमप्यस्य चौर्यसम्भवतीत्यर्तः। अक्ष्णोरप्यञ्जनं हरतु वा मा वा हार्षीत्, नन्वेवमपि यदा निन्दाप्रतिपादनाय वृषलरूप इत्यादि प्रयुज्यते तदा न सिद्ध्यति, निन्दैव हि तदा प्रकृत्यर्थस्य वैशिष्ट।लद्भवति, तस्मात्प्रशंसाग्रहणमपनीय वैशिष्ट।ल्ग्रहणमेव कर्तव्यम्, यदाह -'सिद्धं तु प्रकृतयर्थस्य वैशिष्ट।ल्वचनात्' इति। वृत्तिकारस्तु मन्यते - चोररूपोऽयमित्यादौ प्रशंसैव शब्दार्थः, निन्दाप्रतीतिस्तु वाक्यनिबन्धनेति। दृश्यते च प्रशंसापराणामपि निन्दापरत्वम्, यथा - राक्षस इति, पौरुषातिशयप्रशंसावचने प्रशंसा गम्यते, निर्घृणत्वप्रतिपादने तु निन्दा। पचतोरूपम्, पचन्तिरूपमिति। ???????द्विवचनबहुवचनप्रसङ्गः, स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्त इति कृत्वा? तत्राह - क्रियाप्रधानमाक्यातमिति। यद्यप्याख्यातस्य क्रियासाधनपुरुषसंख्याकालोपग्रहरूपोऽनेकोऽर्थः, तथापि तेषु तस्य क्रियैव प्रदानमर्थः। कथं ज्ञायते? यत् क्रियां पृष्टस्तदन्तेनाचष्टे - देवदतः किं करोति? पचतीति। ननु च द्रव्यमपि पृष्टस्तिङ्न्तेनाचष्टे, यथा - क एषु देवदतो यः पचतीति ? युक्तमत्र य इति हि पदान्तरेण द्रव्योपलक्षणाय गुणभावं क्रिया नीयते। अत एव केवलेनाख्यातेन प्रतिवचनाभावः, न हि भवति - को देवदतः, पचतीति। तस्मात् क्रियाप्रधानमाख्यातम्, तिङ्न्तो पातार्थापेक्षं च क्रियायाःक प्राधान्यमुच्यते। व्रीहिनवहन्तीत्यादौ तु द्रव्यसंस्कारार्थत्वादवघातादेर्व्रीह्यपेक्षमप्राधान्यमस्त्येव। अपर आह - अत्राप्यवघातादेरेव शाब्दं प्रधान्यम्; साध्यत्वात्। न तु व्रीह्यादेः; साधनत्वात्। आर्थं तु तस्य प्रधान्यमिति। एका च क्रियेति।'निवृतभेदा सर्वत्र क्रियाक्यातेषु गम्यते' । कथं तर्हि द्विवचनबहुवचने भवतः - पचतः, पचन्तीति? नैते क्रियाबेदापेक्षे द्विवचनबहुवचने, किं कर्हि? साधनबेदापेक्षे। अत एव भवद्भिरास्यते हत्यादौ केवलक्रियावचने द्विवचनबहुवचनाभावः। न च कर्तृभेदः क्रियाभेदेन व्याप्तः; एकफलोद्देशेन प्रवृतामेकामेव पाकव्यक्ति बहुष्वपि कुर्वत्सु-भवन्तः पचन्ति, भवद्भिः पच्यत इति दर्शनात्। तस्मादाख्यातवाच्या क्रियैकेति सिद्धम्। तेन रूपप्प्रत्ययान्ताद् द्विवचनबहुवचने न भवतः। अथ यथा तिङ्न्ते साधनभेदाश्रये द्विचनबहुवचने भवतः, तथा रूपबन्तादपि कस्मान्न भवतः? उक्तोतरमेतत् - क्रियाप्रधानमाख्यातमिति। स्वार्थिकस्य हि प्रकृतितो लिङ्गवचनप्राप्तिः, तत्र च क्रिया प्रधानभूता, सा चैका, ततश्च प्रधानभूतप्रकृत्यर्थानुरोधेन भवद्वचनमेकवचनमेव भवति। पचतिरूपमित्यादावपि कर्तुः संख्याऽभिधीयते। सुपा तु क्रियाया एकत्वम्। अथ वातिङेक्तत्वाद्रूपप्प्रत्ययान्ताद् द्विवचनबहुवचने न भविष्यतः। एकवचनं तु भविष्यति; तस्यौत्सर्गिकत्वात् - ठेकवचनमुत्सर्गः करिष्यतेऽ इति। एतच्च तत्रतत्र व्याख्यातम्। यदि तर्हि क्रियाप्रधानमाख्यातम्, नपुंसकलिङ्गमपि रूपबन्तस्य न स्यात्, क्रियाया असतत्वभूतत्वेन लिङ्गाभावात्? अत आह - नपुंसकलिङ्गं त्विति। अथ तमबादेः रूपपश्च को विषयविभागः, यावताऽतिशायनमपि पूजानिन्दाविषयम् - पटुअतमः, पापीयानिति; रूपप्प्रत्ययोऽप्युभयविषयः - पटुअरूपः, चोररूप इति? उच्यते - अतिशायनं समानगुणप्रतियोग्यपेक्षम्, वैशिष्ट।ल्ं तु तन्निरपेक्षमिति स्पष्ट एव विषयभेदः ॥ Nyaas ----- `स्वार्थिकाश्च` इत्यादि। प्रकृत्यर्थविशेषणं प्रसंसादि, तस्य द्योतकाः स्वार्थिका भवन्ति, न त्वथन्तिरस्य वाचकाः। यदि प्रशंसायां वर्त्त्मानाद्रूपब्विधीयते, निन्दायां वर्तमानान्न प्राप्नोति-वृषषलरूपोऽयम्, चौररूपोऽयमिति। वृषलादयो हि शब्दाः सदा निन्दावचनाः; न कदाचित्प्रशंसायां वर्तन्ते, यथा काकादयः शब्दाः? इत्यत आह - `प्रकृत्यर्थस्य` इत्यादि। प्रकृत्यर्थस्य वैशिष्टं परिपूर्णत्वम्, तस्मिन्? सति प्रशंसा भवति। एवञ्च यदा वृषलादिशब्दानामपि पदार्थस्य परिपूर्णता भवति, तदा ते प्रशंसायां वर्तन्ते इति तेभ्योऽपि प्रत्ययो भवति। पलाण्डुभक्षणेन सुरापाणेन च प्रकृत्यर्थस्य परिपूर्णता भवति, तदा ते प्रशंसायां वर्तन्ते इति तेभ्योऽपि प्रत्ययो भवति। पलाण्डुभक्षणेन सुरापाणेन च प्रकृत्यर्थस्य परिपूर्रणतां दर्शयति। वृषलशब्दस्य हि शूद्रो वाच्यः। स यदा पलाण्ड्वादिकमपि साधुजनगहितमभ्यवहरति तदा प रपूर्णत्वं तस्य शूद्रत्वम्। शूद्रः=सर्वाशी, सर्वविक्रयीति। चौरशब्दार्थस्यापि सुगुप्तवस्त्वपहारेण परिपूर्णता भवति। ननु च `स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते` (व्या।प।74) इति प्रकृत्यर्थस्य ये लिङ्गवचने ते स्वार्थिकप्रत्ययान्तस्यापि भवत इति भावः। ततश्च पचतोरूपम्, पचन्तिरूपमित्यत्र द्विवचनबहवचनाभ्यां भवितव्यम्? इत्यत आह - `क्रियाप्रधानम्` इत्यादि। आख्यातस्य यद्यपि क्रिया साधनञ्चोभयं वाच्यम्, तथापि तस्य क्रियैव प्रधानमर्थः। यश्च प्रधानं प्रकृत्यर्थस्तस्यैव लिङ्गवचनं स्वार्थिकैरनुवर्तयितुं युक्तम्। क्रियाप्रधानमेकैव च क्रिया। तेन रूपप्प्रत्ययान्तादाख्याताद्द्विवचनबहवचने न भवतः। नपुंसकलिङ्गमपि तर्हि न स्यात्, क्रियाया अलिङ्गत्वात्? इत्यत आह - `नपुंसकलिङ्गं तु` इत्यादि। तत्रैव हेतुमाह - `लोकाश्रयत्वाल्लिङ्गस्य` इति। यदि तर्हि ह्रोका क्रिया, पचतः, पचन्तीति द्विवचनबहुवचने न सिध्यतः? नैष दोषः; यद्यपि ह्रेका क्रिया, साधनं ह्रनेकम्, अतस्तदाश्रये द्विवचनबहुवचने भविष्यतः। रूपप्प्रत्ययान्तात्? तर्हि स्याताम्? तिङ्न्तेनोक्तत्वान्न भविष्यतः। एकवचनं तु भविष्यति; तस्यौत्सर्गिरकत्वात्, `एकवचनमुत्सर्गतः करिष्यते` इति वचनात्॥ Prakriyasarvasvam ----------------- प्रशस्तो भिषक् भिषग्रूपः । स्वार्थस्यैव भिषक्त्वादेः कुत्सादौ प्रत्यया मताः । भिषक्पाशो भिषग्रूपो नान्यैर्दोषगुणैर्भवेत् ॥ ३४७ ॥ नामजात्योः पुनः स्वार्थे स्तुतिनिन्दाद्यसम्भवात् । तद्धर्मैः स्याद् देवदत्तपाशः सिंहतमस्तथा ॥ ३४८ ॥ अप्रशस्तेऽपि स्वार्थे पूर्णत्वे रूपप् स्यात् । दस्युरूपः । अतिशायने प्रतियोग्यपेक्षास्ति, रूपपि तु नेति भेदः । तिङोऽनुवृत्तेः पचतिरुपं, पचन्तिरुपम् । तिङन्ते क्रिया- प्रधानत्वात् क्लीबैकत्वमेव ॥ Sutra Prayogas -------------- * **अयुक्तरूपम्** (कुमारसम्भवम्): `प्रशंसायां रूपप्` इति रूपप्प्रत्ययः। * **आवर्तिनः** (शिशुपालवधम्): `प्रशंसायाम्` इति णिनिः।