53059: तुश्छन्दसि ================= **Padacheda:** तुः | S | 5 | 1 | छन्दसि | S | 7 | 1 | Sutrartha --------- **वेदेषु 'तृच्' तथा 'तृन्' प्रत्ययान्तशब्देभ्यः 'अतिशय' अस्मिन् सन्दर्भे अजादिप्रत्ययौ कृतौ दृश्येते ।** **अतिशायने तमबिष्ठनौ** (5.3.55) तथा **द्विवचनविभज्योपपदे तरबीयसुनौ** (5.3.57) एतयोः सूत्रयोः 'अतिशय' अस्मिन् सन्दर्भे 'तमप्', 'इष्ठन्', 'तरप्', 'इयसुन्' एतौ प्रत्ययौ विधीयेते । एतयोः द्वौ अजादी प्रत्ययौ (= इष्ठन्, ईयसुँन्) **अजादी गुणवचनादेव** (5.3.58) इत्यनेन गुणवाचिभ्यः शब्देभ्यः एव भवितुमर्हन्ति, अन्येभ्यः न । तृच्/तृन्-प्रत्ययान्तशब्दाः (यथा - कर्ता, धर्ता, पठिता) गुणवाचिनः न सन्ति, अतः एतेभ्यः एतौ अजादी प्रत्ययौ वस्तुतः न भवतः । परन्तु वेदेषु एतौ अजादी प्रत्ययौ तृच्/तृन्-प्रत्ययान्तशब्देभ्यः अपि कृतौ दृश्येते । एतादृशानाम् प्रयोगानाम् साधुत्वबोधनार्थम् एव अस्य सूत्रस्य निर्माणम् कृतमस्ति । विशेषः - 'अस्मिन् सूत्रे 'तुः' इति निर्दिश्यते । 'तृ' इत्यस्य इदम् पञ्चम्येकवचनम् । 'तृ' इत्यनेन अस्मिन् सूत्रे 'तृच्' तथा 'तृन्' एतयोः प्रत्ययोः युगपद्ग्रहणम् भवति । इत्युक्ते, 'तृच्' तथा 'तृन्' प्रत्ययान्तशब्दानाम् निर्देशः 'तुः' इत्यनेन अत्र क्रियते । यथा - ऋग्वेदे 7.97.7 - बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः । अत्र ' करिष्ठ' इति शब्दः 'कर्तृ' इत्यस्मात् 'इष्ठन्' प्रत्यये कृते सिद्ध्यति । प्रक्रिया इयम् - कर्तृ + इष्ठन् → कर् + इष्ठ [**तुरिष्ठेमेयस्सु** (6.4.154) इत्यनेन 'तृ' इत्यस्य लोपः] → करिष्ठ Vasu English Summary -------------------- The affixes इष्ठन् and इयसुन् come in the छन्दस् (Vedas) after a प्रातिपदिक (Nominal Stem) ending in तृ। Vasu English Translation ------------------------ The affixes इष्ठन् and इयसुन् come in the छन्दस् (Vedas) after a प्रातिपदिक (Nominal Stem) ending in तृ। The तुः is ablative of तृ which includes both तृन् and तृच् ॥ This extends the application of these affixes to words other than attributes. Thus अतिशयेन कर्ता = करिष्ठः (कर्तृ + इष्ठन् = कर् + इष्ठ by (6.4.154), तृ is elided) As आसुर्ति करिष्ठः, दोहीयसी धेनुः ॥ By *Vartika* under (6.3.35) दोहित्री is changed into masculine दोहितृ and then ईयस् is added, when तृ is elided by (6.4.154). Kashika ------- तुरिति तृन्तृचोः सामान्येन ग्रहणम्। त्रन्तात् छन्दसि विषयेऽजादी प्रत्ययौ भवतः। पूर्वेण गुणवचनादेव नियमे कृते छन्दसि प्रकृत्यन्तराण्यभ्यनुज्ञायन्ते, त्रन्तादप्यजादी भवत इति। आसु॒तिं करि॑ष्ठः। (ऋ० ७.९७.७)। दोहीयसी धेनुः। **भस्याढे तद्धिते०** (वा० ६.३.३५) इति पुंवद्भावे कृते **तुरिष्ठेमेयःसु** (६.४.१५४) इति तृचो निवृत्तिः॥ Siddhanta Kaumudi ----------------- तृन्तृजन्तादिष्ठन्नीयसुनौ स्तः ॥ Balamanorama ------------ **तुश्छन्दसि** - तुश्छन्दसि । 'तृ' इत्यस्यतु॑रिति पञ्चम्येकवचनम् । 'तृ' इत्यनेन तृन्तृचोः सामान्येन ग्रहणम् । प्रत्ययत्वात्तदन्तग्रहणम् । अजादी इत्यनुवर्तते । तदाह — तृन्तृजन्तादिति । अगुणवचनादपि तृप्रत्ययान्तात्प्राप्त्यर्थमारम्भः । एवंच पूर्वेण नियमेव व्यावर्तितयोः प्रतिप्रसवोऽयं नत्वपूर्वो विधिरिति सूचयितुं छान्दसमप्यत्रोपन्यस्तम् । Tattvabodhini ------------- **तुश्छन्दसि** - तुश्छन्दसि । पूर्वेण नियमेव व्यावर्तितयो प्रतिप्रसवोऽयम्, नत्वपूर्वो विधिः । तेन उपाधिसङ्करो न । Padamanjari ----------- पूर्वेणेत्यादि। नियमबाधेन प्रकृत्यन्तरस्याब्यनुज्ञानमात्रं क्रियते, न त्पपूर्वो विधिरित्यर्थः, तेनोपाधिसङ्करो न भवति। करिष्ठ इति। कर्तृशब्दातृन्नन्तादिष्ठन्। अत एव कर्मणि द्वितीया भवति। तृजन्तादेव वा भवतु, द्वितीया तु कृतपूर्वी कटमितिवद् द्रष्टव्या। दोहीयसीति। लिङ्गविशिष्टपरिभाषया दोग्ध्रीशब्दात्प्रत्ययः। भस्याऽढेअ तद्धिते पुंवद्भावेन ङीपो निवृत्ति। यद्वा,'सिद्धश्च प्रत्ययविधौ' इति वचनान्ङीपि निवृते दोग्धृशब्दादेव प्रत्ययः, ततः'तुरिष्ठेमेयस्मु' इति तृचि निवृते निमिताभावाद् घत्वजश्त्वयोरपि निवृत्तिः ॥ Nyaas ----- `करिप्ठः` इति। कर्त्तृशब्दात्? तृन्नन्तादिष्ठन्, **तुरिष्ठेमेयस्सु** (6.4.154) इति तृशब्दलोपः। `दोहीयसी` इति। दोग्ध्रीशब्दात्? तृन्नन्तादीयसुन्, तृशब्दस्य लोपे कृते निमित्ताभावाद्घत्वादिनिवर्तते, **उगितश्च** (6.3.45) इति ङीप्॥ Prakriyasarvasvam ----------------- तृच्तृन्नन्तादतिशयेऽर्थे छन्दसीष्ठेयसुनौ स्तः । तौ च लोकेऽपीति कौमुद्यादौ ॥