53057: द्विवचनविभज्योपपदे तरबीयसुनौ =================================== **Padacheda:** द्विवचन-विभज्य-उपपदे | S | 7 | 1 | तरप्-ईयसुनौ | S | 1 | 2 | Sutrartha --------- **'द्वयोः एकः अतिशयेन प्रकृष्टः अस्ति' अस्मिन् सन्दर्भे, तथा च केचन पदार्थाः विभज्य 'एते पदार्थाः अन्येभ्यः केभ्यश्चन प्रकृष्टाः सन्ति' इति वक्तव्यमस्ति चेत् तस्मिन् सन्दर्भे प्रातिपदिकात् स्वार्थे तरप्-प्रत्ययः तथा ईयसुँन्-प्रत्ययः भवति । केभ्यश्चन तिङन्तेभ्यः अपि अस्मिन्नेव सन्दर्भे 'तरप्' प्रत्ययः विधीयते ।** अनेन सूत्रेण 'अतिशयनम्' अस्मिन् विषये 'तमप्' तथा 'इष्ठन्' एतौ प्रत्ययौ बाधित्वा 'तरप्' तथा 'ईयसुन्' एतौ प्रत्ययौ पाठितौ स्तः । सूत्रस्य आशयः सूत्रस्थानाम् पदानामाधारेण पश्यामः - 1. अतिशायने - 'अतिशयः / प्रकृष्टः' अस्य निर्देशार्थम् वर्तमानसूत्रस्य प्रयोगः क्रियते । 2. द्विवचन - यत्र द्वयोः पदार्थयोः तुलना कर्तव्या अस्ति, तत्रैव अस्य सूत्रस्य प्रयोगः भवति - इति स्पष्टीकर्तुम् 'द्विवचन' शब्दः अत्र स्थापितः अस्ति । व्याख्यानेषु अस्य शब्दस्य अर्थः 'द्वयोः अर्थयोः वचनम्' इति कृतः अस्ति । अत्र 'द्वयोः अर्थयोः' इत्युक्ते 'द्वयोः पदार्थयोः' इति । अत्र व्याकरणविशिष्टा 'द्विवचन' इति संज्ञा नापेक्षते इति स्मर्तव्यम् । अस्य कारणमधः उदाहरणेषु दत्तमस्ति । 3. उपपदम् - 'समीपे उच्चारितम् पदम्' अस्मिन् अर्थे अत्र 'उपपद' शब्दस्य प्रयोगः क्रियते । अत्रापि व्याकरणविशिष्टा उपपद-संज्ञा नापेक्षते, यतः तद्धिताधिकारे तस्य न किञ्चन प्रयोजनम् । 'द्विवचन'वाचकम् पदयम् यत्र 'अतिशयेन' इत्यस्य शब्दस्य उपपदरूपेण निर्दिश्यते, तत्र तुलनावाचकशब्दात् 'ईयसुँन्' तथा 'तरप्' एतौ प्रत्ययौ भवतः - इति अस्य आशयः । 4. विभज्य - विभक्तुम् योग्यम् तत् विभज्यम् । अनेन शब्देन तरप् / ईयसुन्- प्रत्यययोः अन्यत् एकम् प्रयोजनमुच्यते । यत्र कस्यचन गणस्य अन्यस्मात् गणात् विभज्य प्रकृष्टत्वम् दर्श्यते, तत्रापि एतयोः प्रत्यययोः प्रयोगः भवति । 5. तिङः - केभ्यश्चन तिङन्तेभ्यः शब्देभ्यः अपि 'द्वयोः एकः प्रकृष्टः' अस्मिन् अर्थे एतौ प्रत्ययौ भवतः । अतः अस्य सूत्रस्य अर्थः एतादृशम् भवति - [अ] **द्विवचनोपपदे** द्वयोः पदार्थयोः तुलनायाम् प्राप्तायाम् यत्र कश्चन शब्दः 'अतिशयेन' इत्यस्य उपपदरूपेण विद्यते, तत्र तरप्/ईयसुन्-प्रत्ययस्य प्रयोगः भवति । [आ] **विभज्योपपदे** - यत्र कश्चन गणः अन्यस्मात् गणात् विभज्य निर्दिष्टव्यः अस्ति, तत्रापि तरप्/ईयसुन्-प्रत्ययस्य प्रयोगः भवति । [इ] **तिङः** - केभ्यश्चन तिङन्तेभ्यः शब्देभ्यः अपि 'द्वयोः एकः प्रकृष्टः' अस्मिन् अर्थे 'तरप्' प्रत्ययः भवति । कानिचन उदाहरणानि पश्यामः यैः अयम् विषयः स्पष्टः स्यात् । **[अ] 'द्विवचनोपपदे' इत्यस्य उदाहरणानि ** 1. 'रामकृष्णौ द्वावपि गुरू, रामः एतयोः अतिशयेन गुरुः' इति वाक्यम् स्वीकुर्मः । अत्र द्वयोः पदार्थयोः (= रामः, कृष्णः) तुलना क्रियते, अतः अत्र 'द्विवचनम्' इति सन्दर्भः विद्यते । अपि च, 'द्वौ अपि गुरू स्तः, परन्तु तयोर्मध्ये रामः अतिशयेन गुरुः अस्ति' इत्यत्र 'अतिशयेन' इत्यस्य उपपदरूपेण 'रामः' इति पदम् स्वीक्रियते ; अतः अत्र 'उपपदम्' इति अपि सन्दर्भः विधीयते । अस्यां स्थितौ अस्य उपपदस्य (= रामस्य) निर्देशार्थम् वर्तमानसूत्रेण 'गुरु' शब्दात् 'ईयसुन्' तथा 'तरप्' एतौ प्रत्ययौ भवतः - (अ) गुरु + तरप् → गुरुतर । (आ) गुरु + ईयसुँन् → गर् + ईयस् [**प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः** (6.4.157) इति 'गुरु'शब्दस्य 'गर' आदेशः] → गरीयस् यथा - रामकृष्णयोः रामः गुरुतरः गरीयान् वा । 2. 'पाणिपादम् कोमलम् , तस्य पाणी अतिशयेन कोमलौ' (Hands and legs - both are delicate, but the hands are more delicate than the legs) - इति वाक्यम् स्वीकुर्मः । अत्र 'पाणि' तथा 'पाद' एतौ द्वौ पदार्थौ स्तः । एतयोर्मध्ये पाणी अतिशयेन कोमलौ स्तः एतत् निर्देशः अत्र इष्यते । 'अतिशयेन' इत्यस्य उपपदरूपेण अत्र 'तस्य' इति शब्दः स्वीक्रियते । अस्यां स्थितौ वर्तमानसूत्रेण 'कोमल' शब्दात् 'तरप् / ईयसुन्' प्रत्ययं कृत्वा 'पाणिपादस्य पाणी कोमलतरौ / कोमलीयांसौ' इति वाक्यम् सिद्ध्यति । विशेषः - अस्मिन् उदाहरणे 'अस्य' इति शब्दः वस्तुतः द्वयोः पदार्थयोः निर्देशं करोति (= पाणिः तथा पादम्) परन्तु अस्य प्रयोगः एकवचने कृतः अस्ति यतः 'पाणिपादम्' इति शब्दः अपि एकवचने प्रयुज्यते । अस्मात् उदाहरणात् एतत् स्पष्टम् स्यात्, यत् अस्मिन् सूत्रे प्रयुक्तः 'द्विवचन' अयम् शब्दः व्याकरणविशिष्टस्य द्विवचनस्य निर्देशं न करोति, अपितु 'द्वौ पदार्थौ' अस्य निर्देशं करोति । 3.'परुत् (= द्वौ वर्षौ पूर्वम्) रामः क्रीडायाम् पटुः आसीत्, ऐषमः (= पूर्वस्मिन् वर्षे) अपि तस्यामेव क्रीडायाम् सः अतिशयेन पटुत्वम् दर्शितवान्' - इति वाक्यं स्वीकुर्मः । Ram was expert (in a certain game) two years ago, and his expertise enhanced last year - इत्याशयः । अत्र 'ऐषमः' इति शब्दः 'अतिशयेन' इत्यस्य उपपदरूपेण स्थापितः अस्ति । अस्यां स्थितौ अत्र 'रामः ऐषमः पटुतरः / पटीयान्' इति प्रयोग भवति । विशेषः - अत्रापि व्याकरणविशिष्टम् द्विवचनम् न दृश्यते इति ज्ञेयम् । **[आ] 'विभज्य उपपदे' इत्यस्य उदाहरणानि ** 4. 'मथुरानगरवासिनः (= माथुराः) पाटलिपुत्रनगरवासिभ्यः (= पाटलिपुत्रकेभ्यः) अपेक्षया अतिशयेन पटवः सन्ति' - इति वाक्यम् स्वीकुर्मः । The residents of Mathura are more skilled than the residents of Pataliputra - इत्याशयः । अत्र वस्तुतः 'अनेके जनाः (= माथुराः) अन्येषामनेकानामपेक्षया (= पाटलिपुत्रकानामपेक्षया) अतिशयेन पटवः सन्ति' - इति अर्थः स्पष्टीभवति । इत्युक्ते, अत्र अनेके पदार्थाः निर्दिश्यन्ते, न केवलम् द्वौ (Many people are being compared with many other people) । अस्याम् स्थितौ यद्यपि 'द्विवचनम्' न विधीयते, तथाप्यत्र मथुरायाः जनाः विभक्तरूपेण निर्दिष्टाः सन्ति (The people of Mathura are being separated out from a bigger group that contains people of Mathura as well as that of Pataliputra), तथा च 'अतिशयेन' अस्य उपपदरूपेण 'पाटलिपुत्रकेभ्यः' इति पदम् प्रयुक्तमस्ति । अतः अत्रापि ईयसुन् / तरप्-प्रत्यययोः प्रयोगः भवति - माथुराः पाटलिपुत्रकेभ्यः पटुतराः / पटीयांसः । विशेषः - (अ) अस्मिन् विषये तत्त्वबोधिन्यामुच्यते - *विभक्तव्यः पृथक्कर्तव्यः, स चातिशय्यमानः। तस्य ह्युपपदत्वम्, न अतिशयितुः ; ततः प्रत्ययविधानात्*।इत्युक्ते, 'यस्मात् विभाजनम् दर्श्यते, तस्य निर्देशः उपपदरूपेण क्रियते, न हि यस्य विभाजनम् दर्श्यते, तस्य' इति आशयः । सामान्यभाषायाम्, 'तरप्' / 'ईयसुँन्' प्रत्ययान्तशब्देन यस्य निर्देशः न भवति, तस्य निर्देशः उपपदरूपेण भवति । अस्मिन् उदाहरणे 'माथुराः' इत्यस्य निर्देशः 'पटुतराः' इत्यनेन भवति, अतः अत्र 'माथुराः' इति उपपदरूपेण न गृह्यते, अपि तु 'पाटलिपुत्रकाः' इति गृह्यते । (आ) उपरिनिर्दिष्टे उदाहरणे 'द्विवचनस्य' आरोपणम् भवितुमर्हति वा - इति प्रश्नः जायते । 'माथुराः' इति एकः गणः, 'पाटलिपुत्रकाः' इति च अपरः गणः, अतः तयोर्मध्ये तुलनां कृत्वा 'द्विवचन' इत्यस्यैव साहाय्येन अत्र इयसुन् / तरप् प्रत्ययः भवितुमर्हति - तर्हि 'विभज्य' इत्यस्य किम् प्रयोजनम् - इति आशयः । अस्य स्पष्टीकरणार्थम् न्यासकारः वदति - *नैतदस्ति; यद्यप्यत्र राश्यपेक्षा द्व्यर्थता अस्ति, तथापि नासौ शब्देनोपादीयते। किं तर्हि? अवयवभेदः। अत एव माथुराः पाटलिपुत्रकेभ्य इति बहुवचनम्* । इत्युक्ते, यद्यप्यत्र द्वौ गणौ स्तः, तथापि 'माथुराः' इत्यनेन अनेके जनाः (= पदार्थाः) निर्दिश्यन्ते, अतः अत्र द्विवचनम् न स्वीकर्तव्यम् । We are effectively saying that people of one group are expert than people of another. Hence, the eventual expertise is being discussed for the 'members of the group', rather than the 'group' itself. As a result, this cannot be considered as द्विवचन । अतः अस्यां स्थितौ 'विभज्य' इत्यस्य आधारेणैव तरप्-प्रत्ययः भवति, न हि 'द्विवचन' इत्यस्य आधारेण । यदि वर्तमानसूत्रे 'विभज्य' इति न उच्येत, तर्हि अत्र तरप्-प्रत्ययस्य प्रसक्तिः न स्यात् । 5. उदीच्याः (= उत्तरदिशि विद्यमानाः जनाः) प्राच्यानाम् (= पूर्वदिशि विद्यमानानां जनानाम्) अपेक्षया अधिकरूपेण आढ्याः (= धनिकाः) सन्ति - इति चिन्तयामः । अत्रापि उदीच्याः प्राच्यानामपेक्षया विभज्यरूपेण निर्दिष्टाः सन्ति, तथा च अत्र 'प्राच्यानाम्' इति पदम् 'अतिशयेन' इत्यस्य उपपदरूपेण अपि प्रयुज्यते । अतः यद्यप्यत्र द्विवचनम् न विद्यते, तथाप्यत्र तरप्-प्रत्ययस्य प्रयोगः भवति - उदीच्याः प्राच्येभ्यः आढ्यतराः । ('आढ्य'-शब्दः गुणवाची नास्ति अतः अत्र ईयसुन्-प्रत्ययस्य प्रसक्तिः नास्ति।) 6. साङ्काश्यकेभ्यः पाटलिपुत्रकेभ्यश्च माथुराः अतिशयेन सुकुमाराः' इति वाक्यम् स्वीकुर्मः । अत्र साङ्काश्यनगरस्थितानाम् पाटलिपुत्रनगरस्थितानां च अपेक्षया 'मथुरावासिनः' अधिकरूपेण सुकुमाराः सन्ति - इत निर्देशः कृतः अस्ति । अत्रापि मथुरावासिनः अन्येभ्यः विभज्य निर्दिश्यन्ते, तथा च 'साङ्काश्यकेभ्यः पाटलिपुत्रकेभ्यश्च' अयम् वाक्यखण्डः 'अतिशयेन' अस्य उपपदरूपेण प्रयुज्यते । अतः अस्यां स्थितौ 'साङ्काश्यकेभ्यः पाटलिपुत्रकेभ्यश्च माथुराः सुकुमारतराः' इति प्रयोगः भवति । विशेषः - अत्र गणानामपि बहुवचनमस्ति, तथा च येषाम् तुलना क्रियते तेषामपि बहुवचनमस्ति । अतः अत्रापि 'विभज्योपपदे' इत्यस्य साहाय्येनैव तरप्-प्रत्ययः भवति । **[इ] 'तिङः' इत्यस्य उदाहरणद्वम् ** 7.'एतौ द्वौ पचतः । अयम् एतयोः अतिशयेन पचति' - इति वाक्यम् स्वीकुर्मः । अत्र 'एतौ' इति पदम् 'अतिशयेन' इत्यस्य उपपदरूपेण विधीयते । तथा च, अत्र द्वयोः पदार्थयोः (= द्विवचनस्य) निर्देशः अपि अस्ति । अस्यां स्थितौ तिङन्तेभ्यः अपि प्रत्ययविधानम् भवति । यथा, अत्र 'पचति'शब्दात् स्वार्थे 'तरप्' इति प्रत्ययः भवति, तस्मात् च अग्रे **किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे** (5.4.11) इत्यनेन 'आमु' प्रत्ययं कृत्वा 'पचतितराम्' इति रूपम् सिद्ध्यति ।**तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अस्य अव्ययसंज्ञा भवति । यथा - 'अयम् पचतितराम्' इति प्रयोगः क्रियते । विशेषः - अ. तिङन्तात् केवलम् 'तरप्' इत्येव प्रत्ययः भवति, न हि 'ईयसुँन्' इति, यतः **अजादी गुणवचनादेव** (5.3.58) इत्यनेन 'ईयसुँन्'प्रत्ययस्य प्रयोगः केवलम् गुणवाचिभ्यः शब्देभ्यः एव भवति । आ. सर्वेभ्यः तिङन्तेभ्यः 'तरप्' प्रत्ययः भवितुम् न अर्हति । शिष्टप्रयोगं दृष्ट्वैव तिङन्तेभ्यः 'तरप्' प्रत्ययस्य प्रयोगः कर्तव्यः । 8. माथुराः पाटलिपुत्रकानामपेक्षया अतिशयेन गायन्ति ।The people of mathura sing more profoundly than those of pataliputra. अस्यां स्थितौ 'विभज्योपपदे' इत्यस्य आधारेण 'माथुराः गायन्तितराम् सन्ति' इति प्रयोगः क्रियते । अनेन प्रकारेण 'द्विवचनोपपदे', 'विभज्योपपदे' तथा 'तिङः' एतेषामन्यानि अपि उदाहरणानि ज्ञेयानि । ज्ञातव्यम् - 1. स्त्रीत्वे विवक्षिते तरप्-प्रत्ययान्तशब्दाः **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्ययं स्वीकुर्वन्ति । यथा - गुरुतरा । ईयसुन्-प्रत्ययान्तशब्दाः तु **उगितश्च** (4.1.6) इत्यनेन ङीप्-प्रत्ययं स्वीकुर्वन्ति । यथा - गरीयसी । 2. तरप्-प्रत्यये परे स्त्रीवाचिनः अङ्गस्य **तसिलादिष्वाकृत्वसुचः** (6.3.35) इत्यनेन पुंवद्भावः भवति । यथा - एते द्वे दर्शनीये । इयम् एतयोः आतिशयेन दर्शनीया , अतः इयम् दर्शनीयतरा । अत्र प्रक्रिया इयम् - दर्शनीया + तरप् → दर्शनीय + तरप् [पुंवद्भावः] → दर्शनीयतर → दर्शनीयतर + टाप् [स्त्रीत्वे विवक्षिते **अजाद्यतष्टाप्** (4.1.4) इति टाप्] → दर्शनीयतरा । [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः] परन्तु ये स्त्रीप्रत्ययान्तशब्दाः ईकारान्ताः (= ङीप् / ङीष् / ङीन्-प्रत्ययान्ताः) सन्ति, तेषां विषये 'तरप्' प्रत्यये परे **तसिलादिष्वाकृत्वसुचः** (6.3.35) इत्येनन प्राप्तं पुंवद्भावं बाधित्वा **घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः** (6.3.43) इत्यनेन अङ्गस्य ह्रस्वादेशः भवति । यथा - पट्वी + तरप् [पुंवद्भावः] → पट्वि + तरप् [**घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः** (6.3.43) इत्यनेन अङ्गस्य ह्रस्वादेशः] → पट्वितर → पट्वितर + टाप् [स्त्रीत्वे विवक्षिते **अजाद्यतष्टाप्** (4.1.4) इति टाप्] → पट्वितरा [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः] 3. इयसुन्-प्रत्यये परे स्त्रीवाचिनः अङ्गस्य इत्यनेन वार्त्तिकेन पुंवद्भावः भवति । यथा - पट्वी + ईयसुन् → पटु + ईयस् [पुंवद्भावः] → पट् + ईयस् [**टेः** (6.4.155) इति टिलोपः] → पटीयस् → पटीयस् + ङीप् **उगितश्च** (4.1.6) इत्यनेन ङीप्] → पटीयसी 4. अनेन सूत्रेण उक्तौ 'तरप्' तथा 'ईयसुन्' प्रत्ययौ **अतिशायने तमप्-इष्ठनौ** (5.3.35) इत्यनेन विहितयोः 'तमप्' तथा 'इष्ठन्' प्रत्यययोः अपवादरूपेण विधीयेते । 5. 'तरप्' तथा 'तमप्' एतयोः प्रत्यययोः **तरप्तमपौ घः** (1.1.22) इत्यनेन 'घ' इति संज्ञा भवति । 6. यद्यपि अनेन सूत्रेण 'तरप्' तथा 'ईयसुँन्' द्वावपि प्रत्ययौ समान-सन्दर्भे उक्तौ स्तः, तथापि **अजादी गुणवचनादेव** (5.3.58) इत्यनेन ईयसुँन्-प्रत्ययस्य प्रयोगः केवलम् गुणवाचकेभ्यः शब्देभ्यः एव नियम्यते । अतः 'द्वयोः अयमतिशयेन पाचकः' इत्यत्र केवलम् 'तरप्' प्रत्ययं कृत्वा 'पाचकतर' इति शब्दः सिद्ध्यति । 'पाचक' शब्दः गुणवाची नास्ति, अतः अस्मात् शब्दात् 'ईयसुँन्' प्रत्ययः न भवति । 7. यदि वर्तमानसूत्रेण विहितः तरप् प्रत्ययः 'अद्रव्यप्रकर्षे' विधीयते (the subject of comparison is not a physical entity), तर्हि अस्मात् 'तरप्' प्रत्ययान्तशब्दात् नित्यम् **किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे** (5.4.11) इत्यनेन नित्यम् 'आम्' प्रत्ययः भवति । यथा - 'एतौ द्वौ उच्चैः क्रन्दतः, अयम् एतयोः अतिशयेन उच्चैः क्रन्दति, अतः अयमुच्चैस्तराम् क्रन्दति' । अत्र 'उच्चैः' इत्यनेन शब्देन क्रन्दनक्रियायाः प्रकर्षः क्रियते । क्रन्दनक्रिया इति किञ्चन वस्तु न, अतः अत्र 'तरप्' प्रत्ययान्तशब्दात् **किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे** (5.4.11) इत्यनेन नित्यम् 'आम्' प्रत्ययः भवति, येन 'उच्चैस्तराम्' इत्येव रूपम् जायते । अस्मिन् विषये अधिकम् जिज्ञासवः **किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे** (5.4.11) एतम् सूत्रम् पश्यन्तु । Vasu English Summary -------------------- The affixes तरप् (तर) and ईयसुन् (ईयस्) come in the sense of 'surpassing' after a प्रातिपदिक (Nominal Stem) or a finite-verb when it expresses (comparison between) two things or when that which is added to it (उपपद) is to be distinguished from another. Vasu English Translation ------------------------ The affixes तरप् (तर) and ईयसुन् (ईयस्) come in the sense of 'surpassing' after a प्रातिपदिक (Nominal Stem) or a finite-verb when it expresses (comparison between) two things or when that which is added to it (उपपद) is to be distinguished from another. The word द्विवचन does not mean 'dual', but means an expression for two. विभज्य is irregularly formed by यत्, and means 'that which is to be distinguished or differentiated'. This debars तमप् and इष्ठन् ॥ The rule of यथासंख्य (1.3.10) does not apply here. First to take an example of द्विवचन or when comparison is between two things : thus: द्वाविमावाढ्यौ, अयमनयोरतिशयेन = आढ्यतरः 'both are rich, but he is richer amongst the two'. Similarly सुकुमारतरः, पचतितराम्, जल्पतितराम् (5.4.11): or with इयसुन् : as, द्वाविमौ पटू, अयमनयोरतिशयेन पटुः = पटीयान् 'more skillful of the two', लघीयान् ॥ Secondly to take an example of विभज्यते चोपपदे i.e. when a word in construction is to be differentiated: thus माथुराः पाटलिपुत्रकेभ्य आढ्यतराः 'The men of *Mathura* are richer than those of *Pataliputra*'. Here there are more than two things, but as the words are expressed in the sentence, the comparative degree in plural number is used. Similarly दर्शनीयतराः, पटीयांसः, लघीयांसः ॥ Of course all these words must be plural, as they refer to more than two persons. Bhashya ------- द्विवचनविभज्योपपदे तरबीयसुनौ (2215) (तरप्प्रत्ययाधिकरणम्) (न्यासाक्षेपभाष्यम्) द्विवचन इत्युच्यते, तत्रेदं न सिध्यति - दन्तोष्ठस्य दन्ताः स्निग्धतराः पाणिपादस्य पादौ सुकुमारतरौ अस्माकं च देवदत्तस्य च देवदत्तोऽभिरूपतरः इति॥ (न्यासान्तरोपपादकभाष्यम्) यदि पुनर्द्व्यर्थोपपदे इत्युच्येत, तत्रायमप्यर्थः - विभज्योपपदग्रहणं न कर्तव्यं भवति। इहापि - सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतराः इति द्व्यर्थोपपदे इत्येव सिद्धम्॥ (न्यासान्तराक्षेपभाष्यम्) नैवंजातीयिका द्व्यर्थता शक्या विज्ञातुम्। इहापि प्रसज्येत - सांकाश्यकानां पाटलिपुत्रकाणां च पाटलिपुत्रका अभिरूपतमाः इति॥ अवश्यं खल्वपि विभज्योपपदग्रहणं कर्तव्यम्। यो हि बहूनां विभागस्तदर्थम् - सांकाश्यकेभ्यश्च पाटलिपुत्रकेभ्यश्च माथुरा अभिरूपतराः इति। तत्तर्हि द्व्यर्थोपपद इति वक्तव्यम्॥ (न्यासान्तरनिराकरणभाष्यम्) न वक्तव्यम्। नेदं पारिभाषिकस्य द्विवचनस्य ग्रहणम्। किं तर्हि? अन्वर्थग्रहणम् - उच्यते इति वचनम्, द्वयोरर्थयोर्वचनं द्विवचनमिति। एवमपि - (5836 एकदेशिन उपसंख्यानवार्तिकम्॥ 4 ॥) - तरबीयसुनोरेकद्रव्यस्योत्कर्षापकर्षयोरुपसंख्यानम् - (भाष्यम्) तरबीयसुनोरेकद्रव्यस्योत्कर्षापकर्षयोरुपसंख्यानं कर्तव्यम्। परुद्भवान् पटुरासीत्, पटुतरश्चैषमः इति॥ (5837 सिद्धान्तवार्तिकम्॥ 5 ॥) - सिद्धं तु गुणप्रधानत्वात् - (भाष्यम्) सिद्धमेतत्। कथम्? गुणप्रधानत्वात्। गुणप्रधानोऽयं निर्देशः क्रियते, गुणान्तरयोगाच्चान्यत्वं भवति। तद्यथा - तमेव गुणान्तरयुक्तं वक्तारो भवन्ति - अन्यो भवान् संवृत्त इति॥ Kashika ------- द्वयोरर्थयोर्वचनं द्विवचनम्। विभक्तव्यो विभज्यः। निपातनाद् यद् भवति। द्व्यर्थे विभज्ये चोपपदे प्रातिपदिकात् तिङन्तात् चातिशायने तरबीयसुनौ प्रत्ययौ भवतः। तमबिष्ठनोरपवादौ यथासंख्यमत्र नेष्यते। द्वाविमावाढ्यौ, अयमनयोरतिशयेनाढ्य आढ्यतरः। सुकुमारतरः। पचतितराम्। जल्पतितराम्। ईयसुन् खल्वपि — द्वाविमौ पटू, अयमनयोरतिशयेन पटुः पटीयान्। लघीयान्। विभज्ये चोपपदे — माथुराः पाटलिपुत्रकेभ्य आढ्यतराः। दर्शनीयतराः। पटीयांसः। लघीयांसः॥ Siddhanta Kaumudi ----------------- द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेनलघुर्लघुतरः । लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः । पटीयांसः ॥ Laghu Siddhanta Kaumudi ----------------------- द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः। पूर्वयोरपवादः। अयमनयोरतिशयेन लघुः लघुतरो लघीयान्। उदीच्याः प्राच्येभ्यः पटुतराः पटीयांसः॥ Balamanorama ------------ **द्विवचनविभज्योपपदे तरबीयसुनौ** - द्विवचन । उच्यतेऽनेनेति वचनम् । द्वयोरर्थयोर्वचनं द्विवचनम् । द्व्यर्थप्रतिपादकमिति यावत् । न द्विवचनसंज्ञकमिह गृह्रते, व्याख्यानात् विभक्तव्यं — विभज्यम् ।ऋहलो॑रिति ण्यतं बाधित्वा निपातनाद्यत् । द्विवचनं च विभज्यं चेति समाहारद्वन्द्वः । द्विवचनविभज्यं च तदुपपदं चेति कर्मधारयः । द्व्यर्थप्रतिपादके विभक्तव्यविषयके च उपपदे सतीति फलितम् । प्रातिपदिकादिति, तिङ इति चानुवर्तते । सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात्सुबन्तत्वं प्रातिपदिकविशेषणं लभ्यते । फलितमाह — द्वयोरेकस्येत्यादिना । द्वयोर्मध्ये अन्यतरापेक्षया अतिशयविशिष्टस्वार्थवृत्तेः, विभागप्रयोजकीभूतधर्मवाचकाच्च शब्दात्स्वार्थे तरबीयसुनौ स्त इति यावत् । यद्यप्यत्र द्वे सुबन्ततिङन्ते प्रकृती, द्वौ च प्रत्ययौ, तथापि न यथासङ्ख्यम्, व्याख्यानात्, अथ द्विवचनोपपदे उदाहरति — अयमनयोरिति । अत्र उपोच्चारितं पदमुपपदम्, नतु कृत्रमं, तद्धितविधौ तदसंभवात्, धात्वधिकार एव तत्प्रवृत्तेरुक्तत्वात् । तच्चोपपदं विग्रहवाक्येऽवश्यं प्रयुज्यते । तद्धितवृत्तौ तु गतार्थत्वान्नवस्यकम् । लघीयानिति । ईयसुनि नकार इत्, उकार उच्चारणार्थः, उगित्त्वान्नुम्,सान्ते॑ति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ ।अथ विभज्योपपदे उदाहरति — उदीच्याः प्राच्येभ्य इति । 'पञ्चमी विभक्ते' इति पञ्चमी । द्विवचनसंज्ञकग्रहणे तुदन्ताः स्निग्धतराः॑ इति न सिध्येत् ।बहुषु पुत्रेषु एतदुपपन्नं भवति अयं मे ज्येष्ठोऽयं मे मध्यमः, अयं मे कनीया॑निति आद्यन्तवत्सूत्रस्थबाष्यप्रयोगात्,नैर्देशिकानां वार्ततरका॑ इति 'तस्मिन्' इति सूत्रभाष्यप्रयोगाच्च अद्वयर्थोपपदेऽपि तरबीयसुनावित्याहुः । Tattvabodhini ------------- **द्विवचनविभज्योपपदे तरबीयसुनौ** - द्विवचनविभज्योपपदे । द्वयोरर्थयोर्वचनं -द्विवचनम् । करणे ल्युट् । कर्मणि षष्ठआ समासः । येन पदेन द्वावर्थावुच्येते तद्द्विवचनम् । विभक्तव्यं=विभज्यम् ।ऋहलो॑दिति ण्यति प्राप्ते तदपवादो यत् निपात्यते । ण्यति तुचजो॑रिति कुत्वेन विभाग्यमिति स्यात् । विभाज्यशब्दस्य स्मृतिषु प्रयुक्तस्य साधुत्वं चिन्त्यमिति हरदत्तोक्तिश्चिन्त्या । ण्यन्तात्अयो य॑दिति यति विभाज्यमिति रूपसिद्धेः । न चात्राऽर्थबेदः शङ्क्यः,नुवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिच॑इतिणेरणौ॑इति सूत्रे व्युत्पादनादिति दिक् । द्विवचनं च विभज्यं चेति द्वन्द्वः । तस्य उपपदेन कर्मधारयः । तथा च व्द्यर्थवाचके विभजनीये चोपपदे सतीत्यक्षरार्थः ।द्विवचनान्ते उपपदे॑इति व्याख्यायां तुदन्तोष्ठस्य दन्ताः स्निग्धतराः ॑इत्यादि न सिध्यति । नचद्वयोर्वचनं द्विवचन॑मिति पक्षेऽपि नेदं सिध्यति, समाहारस्यैकत्वात्, गुणभूतवर्तिपदार्थश्रयमे तु द्वातिंरशद्दन्ताः तु द्वातिंरशद्दन्ताः , द्वावोष्ठाविति तेषां बहुत्वात्सुतरां न सिध्येदिति चेत् । अत्राहुः — — वृत्ताभेदैकत्वसङ्ख्यामुपपाददति वर्तिपदानि । ततश्च ऊभेदस्य परित्यागादभेदैकत्वं , सङ्ख्यायाश्चोपादानाद्दन्तोष्ठलक्षणार्थद्वयं दन्तोष्ठशब्देनोच्यत इति नास्ति द्वयोर्वचनं द्विवचनमित्येतदर्थकद्विवचनोपपदे इति पक्षे दोष इति । विस्तरस्त्तवाकरग्रन्तेब्योऽवगन्तव्यः । अन्वर्थं चोपपदम्, — -उपोच्चारितं पदमिति, न तु कृत्रिमम् । तद्धितविधौ तस्याऽसंभवात् । तच्च विग्रहवाक्य एव प्रयुज्यते । वृत्तौ तु गतार्थत्वान्नावश्यकम् । एवं स्थिते उपपदग्रहणं स्पष्टार्थम् । इह द्वे उपपदे, द्वे च प्रकृती सुबन्ततिङन्तरूपे, द्वौ च प्रत्ययौ, तथापि यथासङ्ख्यं नेष्यते । द्विवचनोपपदमुदाहरति — — अनयोरिति । लघीयामिति ।टे॑रिति लोपः । उगित्त्वान्नुम् ।सान्तमहतः॑इति दीर्घः । हल्डआदिसंयोगान्तलोपौ । विभज्योपपदमुदाहरति -प्राच्येभ्य इति ।पञ्चमी विभक्ते॑इति पञ्चमी । कथं तर्हिपरुद्भवान् पटुरासीत्, ऐषमस्तु पटुतरः॑इति । अत्राहुः — — एकस्यापि धर्मिणस्तत्कालस्थत्वादिरूपधर्मभेदेन भेदाध्यारोपात्प्रतियोग्यपेक्षस्तत्कालस्थप्रकर्षःष तदाश्रयश्चेह तपप्प्रत्यय इति । व्यपदिशन्ति च — — ॒अन्य एवासि संवृत्तः॑,कच्चित्स एवासि धनञ्जयस्त्वम्इति । Padamanjari ----------- द्वयोरर्थयोर्वचनं द्विवचनमिति। करणे ल्युट्, कर्मणि षष्ठयाः समासः। येन पदेन द्वावर्थावुच्येते तद् द्विवचनमित्यर्थः। एतेनान्वर्थस्य द्विवचनस्येदं ग्रहणम्, न पारिभाषिकस्येति दर्शयति। पारिभाषिकस्य हि ग्रहणे, अस्माकं च देवदतस्य च देवदतोऽभिरूपतर इत्यत्र न स्यात्। अन्वर्थग्रहणे तु भवति, तथा हि - अस्माकमित्यनेनैकोऽर्थ उच्यते, ठस्मदो द्वयोश्चऽ इत्येकस्मिन्नेवार्थे बहुवद्भावविधानाद्; देवदतस्य चेत्यनेनापि द्वितीयोऽर्थ उच्यते इति कभवत्येतदन्व्रथम् - द्विवचनमुपपदम्। विभक्तव्यःउपृथक्कर्तव्यः, स चातिशय्यमानः। तस्य ह्युपपदत्वम्, न अतिशयितुः; ततः प्रत्ययविधानात्। अपर आह - आद्यादेरतिशयितृविशेषणात्प्रत्ययो विधीयते, नातिशयितुर्माधुरादेरिति तस्याप्युपपदत्वमविरूद्धम्। पृथक्कारोऽपि तस्याप्यविशिष्ट इति। निपातनाद्यदिति। ठृहलोर्ण्यत्ऽ इति ण्यतोऽपवादः। तेन विभाग्यमिति नैव भवति। विभाज्यशब्दस्यतु स्मृतिषु प्रयुक्तस्य साधुत्वं चिन्त्यम्। द्व्यर्थे विभज्ये चोपपद इति। सूत्रे तु द्विवचनं च विभज्यं च द्विवचनविभज्यम्, तच्च तदुपपदं चेति कर्मधारयात्सप्तमी। अन्वर्थं चोपपदम्-उपोच्चारितं पदमुपपदमिति। तच्च विग्रहवाक्य एव प्रयुज्यते। वृतोतु गतार्थत्वान्नावश्यं प्रयुज्यते। एवं चोपपदग्रहणं स्पष्टार्थम्। इह द्वे उपपदे, द्वे च प्रकृती -'ङ्याप्प्रातिपदिकात्' 'तिङ्श्च' इति, प्रत्ययावपि द्वावेव, ततश्च यथासंख्यप्रसङ्गः? इत्यत आह - यथासंख्यामिति। इष्टिरेवेयम्। अयमनयोरिति। अनयोरित्येतदत्र द्व्यर्थमुपपदम्। पटीयानिति। पूर्ववट्टिलोपः, अगित्वान्नुम्,'सान्तमहतः' इति दीर्घत्वम्, हल्ङ्यादिसंयोगान्तलोपौ। माधुरा इत्यादि। किं पुनरत्र विभज्यम्? पाटलिपुत्रका हत्याह। तथा च तत्र'पञ्चमी विभक्ते' इति पञ्चमी भवति। यद्यप्यत्रापी माधुराणामेको राशिः, पाटलिपुत्रकाणां चापर इति राश्यपेक्षं द्व्यर्थत्वमस्ति; तथापि नासौ शब्देनोपादीयते, प्रत्युतावयवभेद एव। अत एव बहुवचनम्। इह च-माधुराः पाटलिपुत्रकेभ्यः सांकश्यकेब्यश्चाभिरूपतरा इति न राश्यपेक्षमपि द्व्यर्थत्वमस्ति। तस्माद्विभज्योपपदग्रहणं कृतम्। इह दन्तोष्ठस्य दन्ताः स्निग्धतराः, पाणिपादस्य पाणी सुकुमारतरावित्यत्र तरब्न प्राप्नोति, किं कारणम् ? समाहारस्यैकत्वात्; न च गुणभूतवर्तिपदार्थाश्रयः प्रत्ययः, तेषां बहुत्वात् - द्वात्रिंशद्दन्ताः, द्वावोष्ठौ ? अत्राऽऽहुः - वृतावभेदैकत्वसंख्यामुपाददते वर्तिपदानि, ततश्च भेदपरित्यागादबेदैकत्वसंख्यायाश्चोपादानाद् - एवम्भूतदन्तोष्ठलक्षणार्थद्वयाश्रयः प्रत्यय इति। इतरेतरयोगद्वन्द्वे त्ववयवार्थबेदसद्भावाद् द्व्यर्थता नास्तीति तरब्न भवति। प्लक्षन्यग्रोधानां प्लक्षा दीर्घतमा इति विभज्योपपदाश्रयोऽपि न भवति, कथम्? प्रतियोग्यपेक्षत्वात्प्रकर्षस्य। सामर्थ्यलभ्ये विभागे विभज्योपपदग्रहणमवधारणार्थम् - विभागा एव यत्र शब्देन प्रतिपाद्यत इति। इह तु निर्धारणाश्रयनिर्द्देशो निर्धार्यमाणस्यापि साधारण इति न विभाग एव केवलः, किन्त्वविभागोऽपि। एतेन'पञ्चमी विभक्ते' इति पञ्चमी व्याख्याता। इह'परुद्भवान्पटुअरासीत्, पटुअतरश्चैषमः' इत्येकस्यापि धर्मिणो गुणभेदेन द्वित्वाध्यारोपात्प्रतियोग्यपेक्षः प्रकर्षः, तदाश्रयश्च प्रत्ययः। व्यपदिशति च - ठन्य एवासि संवृतःऽ'कच्चित्स एवासि धनञ्जयसत्वम्' इति ॥ Nyaas ----- `द्वयोरर्थयोर्वचनं द्विवचनम्` इति। एतेनान्वर्थस्य द्विवचनस्य ग्रहणम्, न पारिभाषिकस्येति दर्शयति यदि हि पारिभाषिकं द्विवचनं, गृह्रेत, `अस्माकं च देवदत्तस्य देवदत्तोऽभिरूपतरः इत्यत्र प्रत्ययो न स्यात्; पारिभाषिकतस्य द्विवचनस्याभावात्। अन्वर्थस्य तु ग्रहणे सति भवति द्व्यर्थतोपपदस्य। तथा हि - अस्माकमित्यनेनैकोऽर्थ उच्यते, एकस्मिन्नेवार्थे **अस्मदो द्वयोश्च** (1.2.59) इति बहुवचनस्य विधीनात्। देवदत्तस्येत्यनेनापि द्वितीयोऽर्थ उच्यत इति भवत्येव तदन्वर्थद्विवचनमुपपदम्। तदेवमन्वर्थस्य ग्रहणे सर्वत्र सिध्यतीति तस्येदं ग्रहणं युक्तमिति मन्यते। `विभक्तव्यः` इति। पृथक्? कर्तव्य इत्यर्थः। यः पुनरतिशय्यमानस्तस्योपपदत्वम्, नातिशयितुः; ततः प्रत्यविधानात्। ननु च `ऋहलोण्र्यत्` (3.1.124) इति ण्यति कृते विभाग्य इति भवितव्यम्, कथं विभज्य इति निर्देश उपपद्यते? इत्याह - `निपातनाद्यद्भवति` इति। इह द्वे उपपदे, एवं प्रकृती च प्रत्ययावपि द्वावेव, ततश्च यथासंख्येन भवितव्यमिति कस्यचिद्भान्तिः स्यात्, अतस्तन्निरासार्थमाह - `यथासंख्याम्`चारचिह्नात्। स हि लक्षणान्तरनिरपेक्षतां दर्शयन्? यथासंख्यलक्षणमपीह नापेक्षेतेति सूचयति। `पटीयान्? इति। पूर्ववट्टिलोपः, **अत्वसन्तस्य चाधातोः** (6.4.14) इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ। (6.1.70; 8.2.23)। `माथुराः पाटलिपुत्रकेभ्य आढतराः` इति **पञ्चमी विभक्ते** (2.3.42) इत्यनेन पञ्चमी। पाटलिंपुत्रकेभ्य इत्येदत्र विभज्योपपदम्, पाटलिपुत्रका हि माथुरेभ्यो विभज्यन्ते=पृथक्? क्रियन्ते। ननू चैतदपि `द्विवचनोपपदे` इत्येव सिद्धम्, अस्ति ह्यत्र द्विवचनमुपपदम्, तथा हि - माथुराणामेको राशिः, अपरः पाटलिपुत्रकाणाम्, तौ च द्विवचनेनोच्येते, तस्माद्विभज्यग्रहणमनर्थकम्? नैतदस्ति; यद्यप्यत्र राश्यपेक्षा द्व्यर्थताऽस्ति, तथापि नासौ शब्देनोपादीयते। किं तर्हि? अवयवभेदः। अत एव माथुराः पाटलिपुत्रकेभ्य इति बहुवचनम्। इह राश्यपेक्षापि द्व्यर्थता नास्तीति - साङ्काश्यकेभ्यः पाटलिपुत्रकेभ्यश्च माथुराः सुकुमारतरा इति। तस्माद्विभज्यग्रहणमपि कर्तव्यम्॥ Prakriyasarvasvam ----------------- द्व्यर्थवचने विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । अयमनयोर्लघुतरः लघीयान् । विभज्ये—प्राच्येभ्यः प्रतीच्याः पटुतराः पटीयांसः । अत्र प्राच्यान्विभज्य तेभ्यः प्रतीच्यानामतिशय उच्यते । ‘बौद्धप्रतियोग्यपेक्षायामप्यतिशायनिका’ इति वामनोक्तेरुपपदाप्रयोगेऽपि पटुतरोऽयमित्यादि स्यात् । Sutra Prayogas -------------- * **शुद्धिमत्तरः** (रघुवंशम्): `द्विवचनविभज्योपपदे तरबीयसुनौ` इति तरप्प्रत्ययः। * **सुतरां** (रघुवंशम्): `द्विवचनविभज्योपपदे तरबीयसुनौ` इति तरप्। * **गरीयसीर्** (शिशुपालवधम्): `द्विवचनविभज्योपपदे तरबीयसुनौ` इति ईयसुन्प्रत्ययः। * **भूयस्या** (शिशुपालवधम्): `द्विवचनविभज्योपपदे तरबीयसुनौ` इति ईयसुन् प्रत्ययः।