53054: षष्ठ्या रूप्य च ====================== **Padacheda:** षष्ठ्या | S | 5 | 1 | रूप्य | S | | | 1 च | S | 0 | 0 | Sutrartha --------- **षष्ठीसमर्थात् 'भूतपूर्वः' अस्मिन् अर्थे चरट् तथा रूप्य एतौ प्रत्ययौ भवतः ।** षष्ठीसमर्थात् प्रातिपदिकात् 'अस्य भूतपूर्वः' (Belonging to someone in past ) अस्मिन् अर्थे 'चरट्' तथा 'रूप्य' एतौ प्रत्ययौ भवतः । यथा - 1. देवदत्तस्य भूतपूर्वः गौः (A cow that used to belong to Devadatta in past) = देवदत्तचरः गौः / देवदत्तरूप्यः गौः । 2. कृष्णस्य भूतपूर्वः गौः = कृष्णचरः गौः / कृष्णरूप्यः गौः । ज्ञातव्यम् - 1. यद्यपि अस्मिन् सूत्रे **समर्थानाम् प्रथमात् वा** (4.1.82) इत्यस्मात् 'समर्थानाम्' इति न अनुवर्तते, तथाप्यत्र सूत्रस्य विधानसामर्थ्यात् षष्ठीसमर्थात् एव प्रत्ययविधानम् भवति । 2. अत्र 'भूतपूर्वः इति षष्ठ्यन्तस्य विशेषणम् नास्ति अपितु प्रथमान्तस्य विशेषणमस्ति, यस्य सम्बन्धः षष्ठीसमर्थेन सह विद्यते । तस्यैव प्रथमान्तस्य निर्देशः तद्धितान्तशब्देन अपि भवति । यथा, ' देवदत्तस्य भूतपूर्वः गौः' इत्यत्र 'भूतपूर्वः' इति शब्दः 'गौः' इत्यस्य विशेषणरूपेण प्रयुज्यते न हि 'देवदत्तः' इत्यस्य । तथा च, 'देवदत्तचरः' तथा 'देवदत्तरूप्यः' एताभ्यां शब्दाभ्यामपि 'गौः' इत्यस्यैव निर्देशः भवति । 3. चरट्-प्रत्यये परे **तसिलादिष्वाकृत्वसुचः** (6.3.35) इत्यनेन अङ्गस्य पुंवद्भावः विधीयते । यथा - शुभ्रायाः भूतपूर्वः गौः = शुभ्रा + चरट् → शुभ्र + चरट् [पुंवद्भावः] → शुभ्रचर 'रूप्य' प्रत्यये परे तु पुंवद्भावः न भवति, यतः **तसिलादिष्वाकृत्वसुचः** (6.3.35) इत्यत्र 'रूप्य' प्रत्ययस्य ग्रहणं न भवति । यथा - शुभ्रायाः भूतपूर्वः गौः = शुभ्रा + रूप्य → शुभ्रारूप्यः । Vasu English Summary -------------------- After a प्रातिपदिक (Nominal Stem) ending in the Genitive 6th-Case comes the affix रूप्य and also चरट् in the sense of 'having belonged formerly to somebody'. Vasu English Translation ------------------------ After a प्रातिपदिक (Nominal Stem) ending in the Genitive 6th-Case comes the affix रूप्य and also चरट् in the sense of 'having belonged formerly to somebody'. The word भूतपूर्व here qualifies the sense of the affix, and not the sense of the base, as it in the last *sutra*. Thus देवदत्तस्य भूतपूर्वो गौः = देवदत्तरूप्यः 'the cow that formerly belonged to *Devadatta*'. Similarly देवदत्तचरः ॥ Kashika ------- षष्ठ्यन्तात् प्रातिपदिकाद् रूप्यः प्रत्ययो भवति, चकारात् चरट् च। षष्ठ्यन्तात् प्रत्ययविधानात् संप्रति भूतपूर्वग्रहणं प्रत्ययार्थस्य विशेषणम्, न तु प्रकृत्यर्थविशेषणम्। देवदत्तस्य भूतपूर्वो गौर्देवदत्तरूप्यः। देवदत्तचरः॥ Siddhanta Kaumudi ----------------- षष्ठ्यन्ताद्भूतपूर्वेऽर्थे रूप्यः स्याच्चरट् च । कृष्णस्य भूतपूर्वो गौः । कृष्णरूप्यः कृष्णचरः । तसिलादिषु रूप्यस्यापरिगणितत्वान्न पुंवत् । शुभ्राया भूतपूर्वः शुभ्रारूप्यः ॥ Balamanorama ------------ **षष्ठ्या रूप्य च** - षष्ठआ रूप्य च ।रूप्ये॑ति लुप्तप्रथमाकम् । 'भूतपूर्वे' इत्यनुवर्तते । षष्ठन्ताद्भूतपूर्वेऽर्थे इति । भूतपूर्वेऽर्थे विद्यमानात्षष्ठन्तादित्यन्वयः । भूतपूर्वे इत्यनुवृत्तं हि श्रुतत्वात्षष्ठआ विशेषणम् । भूतपूर्वे सम्बन्धे या षष्ठी तदन्तात्स्वार्थे रूप्यः स्यादिति फलति । यथाश्रुते तु स्वार्थिकप्रकरणविरोधः । कृष्णरूप्य इति । भूतपूर्वगत्या कृष्णसंबन्धी गौरित्यर्थः । शुभ्रारूप्यशब्दे 'तसिलादिषु' इति पुंवत्त्वमाशङ्क्यतसिलादयः प्राक्पाशपः॑ इत्यादिवार्तिकपरिगणितेषु रूप्यस्यानन्तर्भावात्तस्मिन्परे पुंवत्त्वं नेत्याह — तसिलादिइआत्यादि । शुभ्राया भूतपूर्व इति ।गौ॑रिति शेषः । शुभ्रारूप्य इति । भूतपूर्वगत्या शुभ्रासंबन्धी गौरित्यर्थः । Tattvabodhini ------------- **षष्ठ्या रूप्य च** - षष्ठआ रूप्य च । भूतपूर्व इत्यनुवर्तते । तच्च यद्यपि पूर्वत्र ङ्याप्प्रातिपदिकस्य विशेषणं, तथापीह न तथा, षष्ठन्तार्थस्य विशेषणत्वात्, तदाक्षिप्तस्य ॑संबन्धिनो गवादेः प्रधानत्वात्, प्रधानेतरसंनिधौ च प्रधाने कार्यसंप्रत्ययस्य न्याय्यत्वात् । त [देत]दाह -भूतपूर्वेऽर्थे रूप्यः स्यादिति । Padamanjari ----------- शेषविषये विधानातदन्तव्यवच्छेदकत्वाद्विशेषणमप्रधानम्। यत्पुनः षष्ठ।लक्षिप्तं सम्बन्धिमात्रम्, तद्व्यवच्छेद्यत्वाद्विशेष्यं प्रधानम्। प्रदानेतरसन्निधौ च प्रधाने कार्यसम्प्रत्ययो भवतीति प्रत्ययस्तावचतत्रैव विज्ञायते, ततश्च भूतपूर्वग्रहणमपि तस्यैव विशे,णमित्याह-षष्ट।ल्न्तात्प्रत्ययविधान इति। हेतुगर्भ चेदमभिधानम्-यस्मात् षष्ठ।ल्न्तात्प्रत्ययविधानं तस्मादिति। सम्प्रतीति। यद्यपि पूर्वं ङ्याप्प्रातिपदिकेनैव सम्बद्धमासीदिदानीं त्वेवमित्यर्थः। तत्र विधान इति सप्तम्यन्तस्य सम्प्रतीत्यस्य च पौरनरुक्त्यं मन्यमाना विधानशब्दमधिकरणसाधनं सूत्रपरं व्याचक्षते ॥ Nyaas ----- इह षष्ठन्तं यत्त्द्विशेषणं परार्थत्वादप्रधानम्, इतरत्? पुनस्तेनैवोपक्रियमाणत्वाद्विशेष्यं प्रधानम्। प्रधानेन च कार्यसम्प्रत्यय इतदि यता षष्ठन्तात्? प्रत्यविधाने सम्प्रतति षष्ठन्तप्रतियोगिनि प्रधाने प्रत्ययो विज्ञायतो, म प्रकृत्यर्थे; तथा भूतपूर्वग्रहणं तस्यैव ज्ञायते, न प्रकृत्यर्थस्येत्येतदालोच्याऽऽह - `षष्ठन्तात्` इत्यादि। प्रत्ययार्थस्तु षष्ठन्तस्य यः प्रतियोगी स वेदितव्यः॥ Prakriyasarvasvam ----------------- षष्ठ्यन्ताद् भूतपूर्वे रूप्यश्चरट् च स्यात् । कुवेरस्य पूर्वं भूता कुबेररूप्या लङ्का । कुबेरचरी ।।