53037: आहि च दूरे ================= **Padacheda:** आहि | S | | | 1 च | S | 0 | 0 | दूरे | S | 7 | 1 | Sutrartha --------- **'दक्षिण' शब्दः यदा 'दूरस्था दिशा' उत 'दूरस्थम् स्थानम्' एतयोः अर्थयोः प्रयुज्यते, तदा तस्य सप्तम्यन्तात् प्रथमान्तात् च रूपात् 'आहि' तथा 'आच्' प्रत्ययौ स्वार्थे विधीयेते ।** 'दिशा' तथा 'देश' एतयोः अर्थयोः प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः **दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः** (5.3.27) इत्यनेन सप्तम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते ; तस्य अपवादेन **दक्षिणादाच्** (5.3.36) इत्यनेन दक्षिण-शब्दात् 'आच्' प्रत्यये विहिते, 'दूरे' इत्यस्मिन् सन्दर्भे 'दक्षिण' शब्दात् वर्तमानसूत्रेण 'आहि' इति प्रत्ययः अपि भवति । यथा - दक्षिणस्याम् दूरायाम् दिशि / दक्षिणे दूरे देशे / दक्षिणा दूरा दिक् / दक्षिणः दूरः देशः = दक्षिण + आच् / आहि [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → दक्षिण + आ / आहि ['आच्' इत्यत्र चकारः उच्चारणार्थः, विशेषणार्थश्च । तस्य लोपः भवति ।] → दक्षिण् + आ / आहि [**यस्येति च** (6.4.148) इति अकारलोपः] → दक्षिणा / दक्षिणाहि अत्र निर्मितौ 'दक्षिणा' तथा 'दक्षिणाहि' एतौ शब्दौ **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अव्ययसंज्ञकौ भवतः ।यथा - 'दक्षिणाहि वसति / दक्षिणा वसति / दक्षिणा दिक् / दक्षिणाहि दिक्' - आदयः । ज्ञातव्यम् - 1. वस्तुतस्तु अस्मिन् सूत्रे 'दिक्-देश-कालेषु' इति सम्पूर्णः शब्दः अनुवर्तते, परन्तु 'दक्षिण' शब्दः 'काल' अस्मिन् अर्थे न प्रयुज्यते, अतः तस्य उदाहरणानि न लभन्ते । 2. पूर्वसूत्रात् 'सप्तमीपञ्चमीप्रथमाभ्यः' इत्यस्य अनुवृत्त्यां प्राप्तायाम् वर्तमानसूत्रे 'अपञ्चम्याः' इति निर्देशेन अत्र केवलम् सप्तम्यन्तात् प्रथमान्तात् च रूपात् अत्र प्रत्ययविधानम् भवति । पञ्चमीविभक्त्यन्तरूपस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । 3. अत्र पाठिते 'आच्' प्रत्यये चकारस्य 'इत्संज्ञा' न भवति, यतः चकारस्य इत्संज्ञायाः किमपि प्रयोजनमत्र न विद्यते । सामान्यरूपेण चित्-प्रत्यये कृते समुदायस्य **तद्धितस्य** (6.1.164) इत्यनेन अन्तोदात्तत्वं विधीयते । परन्तु 'आच्' प्रत्ययस्य आकारः **आद्युदात्तश्च** (1.3.3) इत्यनेनैव उदात्तत्वं प्राप्नोति, अतः 'आच्' इत्यत्र चकारस्य स्वरनिर्देशार्थम् न किञ्चित् प्रयोजनम् । अत्र चकारस्य ग्रहणम् 'आच्' इति प्रत्ययस्य अनेभ्यः 'आ' प्रत्ययेभ्यः भिन्नरूपेण ग्रहणार्थमस्ति । **अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते** (2.3.29) इति सूत्रम् 'आच्' प्रत्ययस्य विषये विधानम् करोति, अनेष्याम् 'आ' प्रत्ययानाम् विषये (यथा - टाप्, टा, डा - आदयः) न । अतः पाणिनिः **अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते** (2.3.29) इत्यत्र 'आच्' इति विशिष्टम् निर्देशं कर्तुम् इच्छति, तदर्थमेव चकारस्य ग्रहणम् वर्तमानसूत्रे कृतमस्ति । Vasu English Summary -------------------- The affix आहि comes after the word दक्षिण in the sense of अस्ताति as well as आच् when the reference is to a distant limit. Vasu English Translation ------------------------ The affix आहि comes after the word दक्षिण in the sense of अस्ताति as well as आच् when the reference is to a distant limit. Thus दक्षिणाहि वसति or दक्षिणा वसति 'he lives far away in the south'. Similarly दक्षिणाहिं रमनायम्, दक्षिणा रमणीयम् ॥ Why do we say दूरे 'when the adverb denotes a distant limit'? Observe दक्षिणतो वसति ॥ The word अपञ्चम्याः governs this also: as, दक्षिणत आगतः ॥ Kashika ------- दक्षिणशब्दादाहिः प्रत्ययो भवत्यस्तातेरर्थे, चकारादाच् दूरे चेदवधिमानवधेर्भवति। दक्षिणाहि वसति। दक्षिणा वसति। दक्षिणाहि रमणीयम्। दक्षिणा रमणीयम्। दूर इति किम्? दक्षिणतो वसति। अपञ्चम्या इत्येव — दक्षिणत आगतः॥ Siddhanta Kaumudi ----------------- दक्षिणाद् दूरे आहि स्यात् चादाच् । दक्षिणाहि । दक्षिणा ॥ Balamanorama ------------ **आहि च दूरे** - आहि च दूरे ।दक्षिणाशब्दा॑दिति शेषः । चादाजिति । तथा दूरे उक्तरूपत्रयेण सह चत्वारि रूपाणीति भावः । Padamanjari ----------- चकारादाच्चेति। अन्यथा दूरे विवक्षिते विशेषविहित आहिरेव स्यात् ॥ Prakriyasarvasvam ----------------- सप्तमीप्रथमान्ताद् दक्षिणादस्तात्यर्थे दूरे द्योत्ये आहिराजपि स्यात् । दक्षिणाहि, दक्षिणा ।। अस्मादपि दूर आज्ञाही स्तः । उत्तराहि, उत्तरा ॥ इत्यस्तातिभागः ।