53035: एनबन्यतरस्यामदूरेऽपञ्चम्याः ================================== **Padacheda:** एनप् | S | 1 | 1 | अन्यतरस्याम् | S | 7 | 1 | अदूरे | S | 7 | 1 | अपञ्चम्याः | S | 5 | 1 | Sutrartha --------- **'उत्तर', 'अधर' तथा 'दक्षिण' एते शब्दाः यदा 'अदूर' अस्मिन् सन्दर्भे 'दिशा', 'स्थान' उत 'काल' एतेषु अर्थेषु प्रयुज्यन्ते, तदा तेषाम् सप्तम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः विकल्पेन 'एनप्' इति प्रत्ययः स्वार्थे विधीयते ।** 'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः **दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः** (5.3.27) इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते तस्य अपवादस्वरूपेण 'उत्तर', 'अधर' तथा 'दक्षिण' एतेभ्यः शब्देभ्यः **उत्तराधरदक्षिणादातिः** (5.3.34) इत्यनेन 'आति' प्रत्ययः विधीयते । यदि अत्र निर्दिश्यमाना दिक् / देशः / कालः अदूरः (= निकटः / समीपः close) अस्ति, तर्हि अस्मिन्नेव अर्थे एतेषाम् शब्दानाम् सप्तम्यन्तात् तथा प्रथमान्तरूपात् वर्तमानसूत्रेण विकल्पेन 'एनप्' इति प्रत्ययः विधीयते । यथा - 1. उत्तरस्यामदूरायाम् दिशि / उत्तरस्मिन् अदूरे देशे / उत्तरस्मिन् अदूरे काले / उत्तरा अदूरा दिक् / उत्तरः अदूरः देशः / उत्तरः अदूरः कालः = उत्तर + एनप् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → उत्तर + एन → उत्तर् + एन [**यस्येति च** (6.4.148) इति अकारलोपः] → उत्तरेण [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम्] 2. अधरस्यामदूरायाम् दिशि / अधरस्मिन् अदूरे देशे / अधरस्मिन् अदूरे काले / अधरा अदूरा दिक् / अधरः अदूरः देशः / अधरः अदूरः कालः = अधर + एनप् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → अधर + एन → अधर् + एन [**यस्येति च** (6.4.148) इति अकारलोपः] → अधरेण [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम्] 3. दक्षिणस्यामदूरायाम् दिशि / दक्षिणे अदूरे देशे / दक्षिणा अदूरा दिक् / दक्षिणः अदूरः देशः = दक्षिण + एनप् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → दक्षिण + एन → दक्षिण् + एन [**यस्येति च** (6.4.148) इति अकारलोपः] → दक्षिणेन विशेषः - 'दक्षिण' शब्दः 'काल' अस्मिन् अर्थे न प्रयुज्यते, अतः तस्य उदाहरणानि न लभन्ते । स्मर्तव्यम् - 1. अत्र सिद्धाः 'उत्तरेण', 'अधरेण' तथा 'दक्षिणेन' एते शब्दाः **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति । एते शब्दाः तृतीयाप्रथमैकवचनस्य रूपवत् दृश्यन्ते, परन्तु एते भिन्नाः शब्दाः सन्तीति स्मर्तव्यम् । यथा - 'उत्तरेण वसति', 'उत्तरेण दिक्' एतादृशाः प्रयोगाः समीचीनाः ज्ञेयाः । 2. 'अदूर' इत्यस्यमिन् सन्दर्भे एव अस्य सूत्रस्य प्रयोगः भवति । केवलम् 'उत्तरस्याम् दिशि / उत्तरा दिक्' इति वक्तव्यमस्ति चेत् अस्य 'एनप्' प्रत्ययस्य प्रयोगः न भवति । 3. पूर्वसूत्रात् 'सप्तमीपञ्चमीप्रथमाभ्यः' इत्यस्य अनुवृत्त्यां प्राप्तायाम् वर्तमानसूत्रे 'अपञ्चम्याः' इति निर्देशेन अत्र केवलम् सप्तम्यन्तेभ्यः तथा प्रथमान्तेभ्यः रूपेभ्यः एव प्रत्ययविधानम् भवति । 4. केचन पण्डिताः अस्मिन् सूत्रे 'उत्तर-अधर-दक्षिणात्' इति न अनुवर्तयन्ति । तेषां मतेन सर्वेभ्यः दिशावाचिभ्यः शब्देभ्यः 'अदूरे' अस्मिन् अर्थे वर्तमानसूत्रेण विकल्पेन 'एनप्' प्रत्ययः भवति । यथा = 'पूर्वस्यां अदूरायाम् दिशि / पूर्वस्मिन् अदूरे देशे / पूर्वस्मिन् अदूरे काले / पूर्वा अदूरा दिक् / पूर्वः अदूरः देशः / पूर्वः अदूरः कालः = पूर्वेण । Vasu English Summary -------------------- The affix एनप् (एन) comes optionally after the words 1. उत्तर and 2. दक्षिण in the sense of अस्ताति, when the limit indicated is not remote and when it is not a substitute of the Ablative -5th case affix. Vasu English Translation ------------------------ The affix एनप् (एन) comes optionally after the words 1. उत्तर and 2. दक्षिण in the sense of अस्ताति, when the limit indicated is not remote and when it is not a substitute of the Ablative -5th case affix. The affix अस्ताति and the other affixes taught above come with the force of locative, ablative and nominative. The एनप् comes with the force of locative and nominative and not that of ablative. The adverbs so formed refer to objects not at a distance. Thus उत्तरेण or उत्तरात् or उत्तरतो वसति or रमणीयम् ॥ Similarly अधरेण, अधरात्, अधस्ताद् वसति &c, so also दक्षिणेन, दक्षिणात्, दक्षिणतो वसति &c, 'He lives near by in the north-ward or southward'. Why do we say 'when not denoting distance'. Observe उत्तराद्वस्ति 'he lives far away in the north'. Why do we say 'when not having the force of ablative'? Observe उत्तरादागतः 'come from the north'. The word अपञ्चम्याः governs all the succeeding *sutras* upto (5.3.39), exclusive. Some do not read उत्तर &c into this *sutra*: according to them this is a general rule applicable to all words denoting direction. As पूर्वेण ग्रामम्, अपरेण ग्रामम् (2.3.31). The प् in *enap* is for the sake of accent (3.1.4). Bhashya ------- एनबन्यतरस्यामदूरेऽपञ्ञ्चम्याः (2193) (एनप्प्रत्ययाधिकरणम्) (5825 अनुवृत्तिनिर्द्धारकवार्तिकम्॥ 1 ॥) - अपञ्ञ्चम्या इति प्रागसः - (भाष्यम्) अपञ्ञ्चम्या इति यदुच्यते प्रागसस्तद् द्रष्टव्यम्। द्वेष्यं विजानीयात् अविशेषेण इत उत्तरमपञ्ञ्चम्या इति। तदाचार्यः सुहृद् भूत्वाऽन्वाचष्टे - अपञ्ञ्चम्या इति प्रागसः इति॥ Kashika ------- उत्तराधरदक्षिणशब्देभ्य एनप् प्रत्ययो भवत्यन्यतरस्यामस्तातेरर्थे,अदूरे चेदवधिमानवधेर्भवति। विभक्तित्रये। प्रकृतेऽपञ्चम्या इति पञ्चमी पर्युदस्यते। तेनायं सप्तमीप्रथमान्ताद् विज्ञायते प्रत्ययः। उत्तरेण वसति, उत्तराद् वसति, उत्तरतो वसति। उत्तरेण रमणीयम्, उत्तराद् रमणीयम्, उत्तरतो रमणीयम्। अधरेण वसति, अधराद् वसति, अधस्ताद् वसति। अधरेण रमणीयम् अधराद् रमणीयम् अधस्ताद् रमणीयम्। दक्षिणेन वसति, दक्षिणाद् वसति, दक्षिणतो वसति। दक्षिणेन रमणीयम्, दक्षिणाद् रमणीयम्, दक्षिणतो रमणीयम्। अदूर इति किम् ? उत्तराद् वसति। अपञ्चम्या इति किम् ? उत्तरादागतः। अपञ्चम्या इति प्रागसेः (५.३.३९)। असिप्रत्ययस्तु पञ्चम्यन्तादपि भवति। केचिदिहोत्तरादिग्रहणं नानुवर्तयन्ति। दिक्छब्दमात्रात् प्रत्ययं मन्यन्ते। पूर्वेण ग्रामम्। अपरेण ग्रामम्॥ Siddhanta Kaumudi ----------------- उत्तरादिभ्य एनब्वा स्यादवध्यवधिमतोः सामीप्ये पञ्चम्यन्तं विना । उत्तरेण । अधरेण । दक्षिणेन । पक्षे यथास्वं प्रत्ययाः । इह केचिदुत्तरादीनननुवर्त्य दिक्शब्दमात्रादेनपमाहुः । पूर्वेण ग्रामम् ॥ अपरेण ग्रामम् ॥ Balamanorama ------------ **एनबन्यतरस्यामदूरेऽपञ्चम्याः** - एनबन्यतरस्याम् ।अपञ्चम्या इति प्रागसे॑रिति भाष्यम् । सूत्रक्रमेपूर्वाधरे॑त्यसिं वक्ष्यति ततः प्रागित्यर्थः । उत्तरादिभ्य इति । उत्तराधरदक्षिणादित्यनुवर्तत इति भावः । 'अदूरे' इत्येतद्व्याचष्टे — अवध्यवधिमतोः सामीप्ये इति । पञ्चमीं विनेति । पञ्चम्यन्तान्न भवतीत्यर्थः । यथास्वमिति । एनबभावे पक्षे अस्तातिः असिः आतिश्चेत्यर्थः । दिक्छब्दमात्रादिति । अञ्चत्यन्तात्तु नेदम्, व्यवस्थितविभाषाश्रयणात् । तेन प्राचेन ग्राममित्यादि न भवतीत्याहुः । Tattvabodhini ------------- **एनबन्यतरस्यामदूरेऽपञ्चम्याः** - पञ्चम्यन्तं विनेति । नेह -उत्तरादागतः । अधरादागतः । उत्तरेणेत्यादि । वसति रमणीयं वा । पक्षे यथास्वमिति । दक्षिणतः । उत्तरतः । अधः । अधस्तात् । उत्तारात् ।अधरात् । दक्षैणात् । Padamanjari ----------- अदूरे चेत्यादि। यद्यप्यवधिरवधिमान् वा सूत्रे न श्रूयते, तथापि दिक्शब्दानामवध्यपेक्षा प्रवृत्तिर्भवति। अवधिश्चावधिमन्तमपेक्षते इति सामर्थ्यादेव विशेषो लभ्यते। तत्र देशकालयोरवध्यपेक्षायां न विवादः, दिशि तु विवदन्ते। प्रागसेरिति। ठसिपुरधवश्चैषाम्ऽ इत्यस्मात्। दिवशब्दमात्रादिति। तेन पूर्वेण वसतीत्याद्यपी भवति। अञ्चत्यन्तातु न भवति; व्यवस्थैतविभाषाविज्ञानात्। अस्तु वा तदन्तादपि, ठञ्चेर्लुक्ऽ इत्यनुवृतेर्लुग्भविष्यति। पकारः स्वरार्थ इति। ठेनपा द्वितीयाऽ इति विशेषणार्थस्तु न भवति। अस्त्वेनेनेति, ठतसर्थप्रत्ययेनऽ इत्यनुवृतेः'द्वितीयाटौःस्वेनः' इत्यस्यात्र ग्रहणं न भविष्यति ॥ Nyaas ----- `अदूरे चेदवधिमानवधेर्भवति` इति। कथं पुनरेवं विशेषो लभ्यते, यावता सूत्रेऽवधिशब्दो न श्रूयते, नाप्यवधिमान्? दिकशब्दानामवध्यपेक्षा प्रवृत्तिर्भवति। अवधिमानष्यवधिमपेक्ष्य भवतीति सामर्थ्यादनुक्तीऽप्येष विशेषो लभ्यत इति। `अधस्ताद्वसति` इति। **अस्ताति च** (5.3.40) इति वक्ष्यमाणेनास्तातौ परतोऽधरशब्दस्यादेशः। `प्रागसेः` इति। `असि पुरधवश्चैषाम्` (5.3.39) इति वक्ष्यमाणः। केचिद्दिक्शब्दमात्रात्? प्रत्ययं मन्यन्त इति तेषां मतेन पूर्वेण वसतीत्याद्यपि भवति। यदि दिक्शब्दमात्रात्? प्रत्यो भवतीत्यञ्चात्यन्तादपि स्यात्? भवतु, **अञ्चेर्लुक्** (5.3.30) इति लुम्भविष्यति? नैतदस्ति; `मध्येऽपवादाः पूर्वान्? विधीन्? बाधन्ते` (व्या। प। 10) इत्यस्तातेरेवात्रानेन लुक्, नान्यस्य। एवं तह्र्रन्यतरस्यामिति व्यवस्थितविभाषेयम्। तेनाञ्चत्यन्तान्न भविष्यति। पकारः **एनपा द्वितीया** (2.3.31) इति विशेषणार्थः, स्वरार्थश्च॥ Prakriyasarvasvam ----------------- पञ्चमीवर्जितपूर्वोक्तविभक्त्यन्तेभ्य उत्तरादिभ्योऽस्तात्यर्थेऽदूरत्वे द्योत्ये एनब् वा स्यात् । उत्तरस्यां दिश्यदूरे वसति उत्तरेण वसति । उत्तरेण रम्यम् । एवमधरेण दक्षिणेन । विकल्पादुत्तरत इत्यादिपि । दिक्शब्दमात्रादेनबिति केचित् । पूर्वेण, पश्चिमेन ।। Sutra Prayogas -------------- * **दक्षिणेनाऽहं** (भट्टिकाव्यम्): `एनबन्यतरस्याम्` इति सप्तम्यन्तादेनप् प्रत्ययः।