53033: पश्च पश्चा च च्छन्दसि ============================ **Padacheda:** पश्च | S | 0 | 0 | पश्चा | S | 0 | 0 | च | S | 0 | 0 | छन्दसि | S | 7 | 1 | Sutrartha --------- **वेदेषु 'पश्च' तथा 'पश्चा' एतौ शब्दौ प्रयुक्तौ दृश्येते, ते निपात्येते इति ज्ञेयम् ।** **पश्चात्** (5.3.32) इत्यनेन पाठितस्य 'पश्चात्' शब्दस्य अर्थे एव वेदेषु 'पश्च' तथा 'पश्चा' शब्दौ प्रयुज्येते, तयोः निपातनमनेन सूत्रेण दीयते । 'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमणस्य 'अपर' शब्दस्य प्रथमान्तरूपात्, पञ्चम्यन्तरूपात्, तथा च सप्तम्यन्तरूपात् स्वार्थे 'अ' तथा 'आ' प्रत्ययौ कृत्वा एतयोः सिद्धिः भवति । यथा - अपरा दिक् / अपरस्याः दिशः / अपरस्याम् दिशि / अपरः देशः / अपरस्मात् देशात् / अपरस्मिन् देशे = अपर + अ/आ [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → अपर + अ/आ → पश्च + अ/आ ['अपर' शब्दस्य 'पश्च' आदेशः निपात्यते] → पश्च् + अ/आ [**यस्येति च** (6.4.148) इति अकारलोपः] → पश्च / पश्चा यथा - सामवेदे पूर्वार्चिकायाम् 4.2.7 - 'न पश्चा पश्चात् दध्यति तस्मै' । Vasu English Summary -------------------- The words पश्च and पश्चा are anomalous in the छन्दस् (Vedas) having the force of अस्ताति। Vasu English Translation ------------------------ The words पश्च and पश्चा are anomalous in the छन्दस् (Vedas) having the force of अस्ताति। By च, the word पश्चात् is also included. As पुरा व्याघ्रो जायते, पश्च, पश्चा or पश्चात् सिंहः ॥ As प॒श्चात् पु॒रस्ता॑दध॒रादुद॑क्तात् (*Rig* *Ved* X. 87.21) प॒श्चेदम॒न्यद॑भव॒द्यज्ज॑त्रम् (*Rig*. *Veda*. X. 149.3). Kashika ------- पश्चपश्चाशब्दौ निपात्येते छन्दसि विषयेऽस्तातेरर्थे। चकारात् पश्चादित्यपि भवति। अपरस्य पश्चभावोऽकाराकारौ च प्रत्ययौ निपात्येते। पुरा व्याघ्रो जायते पश्च सिंहः। पश्चा सिंहः। पश्चात् सिंहः॥ Siddhanta Kaumudi ----------------- अवरस्य अस्तात्यर्थे निपातौ । पश्च हि सः । नो ते पश्चा । तुश्छन्दसि (SK2007) तृजन्तात्तृन्नन्ताच्च इष्ठन्नीयसुनौ स्तः । आसुतिं करिष्ठाः (आसुतिं करि॑ष्ठः) । दोहीयसी धेनुः ॥ Prakriyasarvasvam ----------------- पश्चादित्यर्थे एतौ निपात्येते । पुरो व्याघ्रो जायते पश्चसिंहः । न प्राचीन- मादित्या नो३त पश्चा । पश्चात् पुरस्तादित्यपि ।