53031: उपर्युपरिष्टात् ====================== **Padacheda:** उपरि-उपरिष्टात् | S | 0 | 0 | Sutrartha --------- **'उपरि' तथा 'उपरिष्टात्' एतौ शब्दौ निपात्येते ।** अनेन सूत्रेण 'उपरि' तथा 'उपरिष्टात्' एतयोः शब्दयोः निपातनम् दीयते । 'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमणस्य 'ऊर्ध्व' शब्दस्य प्रथमान्तरूपात्, पञ्चम्यन्तरूपात्, तथा च सप्तम्यन्तरूपात् स्वार्थे 'रिल्' तथा 'रिष्टातिल्' एतौ प्रत्ययौ कृत्वा एतयोः शब्दयोः सिद्धिः दत्ता अस्ति । यथा - ऊर्ध्वा दिक् / उर्ध्वायाः दिशः / उर्ध्वायाम् दिशि / ऊर्ध्वः देशः / उर्ध्वात् देशात् / उर्ध्वे देशे = ऊर्ध्व + रिल् / रिष्टातिल् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → ऊर्ध्व + रि / रिष्टात् [लकारस्य इत्संज्ञा, लोपः । 'रिष्टातिल्' इत्यत्र इकारः उच्चारणार्थः, अतः तस्यापि लोपः] → उप + रि / रिष्टात् ['ऊर्ध्व' शब्दस्य 'उप' आदेशः ] → उपरि / उपरिष्टात् । ज्ञातव्यम् - **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन 'उपरि' तथा 'उपरिष्टात्' एतौ शब्दौ अव्ययसंज्ञकौ भवतः । Vasu English Summary -------------------- The words 1. उपरि and 2. उपरिष्टात् are anomalous in the sense of अस्ताति। Vasu English Translation ------------------------ The words 1. उपरि and 2. उपरिष्टात् are anomalous in the sense of अस्ताति। These words are derived irregularly from the word ऊर्ध्व, by changing it into उप, and adding the affixes रिल् and रिष्टातिल् ॥ Thus ऊर्ध्वायां दिशि वसति = उपरि वसति. So also उपर्यागतः, उपरि रमणीयम् ॥ उपरिष्टाद्वसति, उपरिष्टादागतः, उपरिष्टद्रमणीयम् ॥ Bhashya ------- उपर्युपरिष्टात् (2189) (निपातनाधिकरणम्) (वार्तिकावतरणभाष्यम्) उपर्युपरिष्टादिति किं निपात्यते? (5820 सूत्रार्थनिर्देशवार्तिकम्॥ 1 ॥) -ऊर्ध्वस्योपभावो रिल्रिष्टातिलौ च - (भाष्यम्)ऊर्ध्वस्योपभावो रिल्रिष्टातिलौ च प्रत्ययौ निपात्येते। उपरि, उपरिष्टात्॥ Kashika ------- उपरि उपरिष्टाद् इत्येतौ शब्दौ निपात्येते अस्तातेरर्थे। ऊर्ध्वस्योपभावो रिल्रिष्टातिलौ च प्रत्ययौ निपात्येते। ऊर्ध्वायां दिशि वसति उपरि वसति। उपर्यागतः। उपरि रमणीयम्। उपरिष्टाद् वसति। उपरिष्टादागतः। उपरिष्टाद् रमणीयम्॥ Siddhanta Kaumudi ----------------- अस्तातेर्विषये ऊर्ध्वशब्दस्योपादेशः स्याद्रिल्रिष्टातिलौ च प्रत्ययौ ॥ उपरि उपरिष्टाद्वा वसति आगतो रमणीयं वा ॥ Balamanorama ------------ **उपर्युपरिष्टात्** - उपर्युपरिष्टात् ।उध्र्वस्य उपभावो रिल्प्रत्ययो रिष्टातिल्प्रत्ययश्चे॑ति भाष्यम् । तदाह — अस्तातेर्विषये इत्यादिना । वसति, आगतो, रमणीयं वेति — विभक्तित्रयस्य यथासङ्ख्यमुदाहरणम् । पश्चात् ।अपरस्य पश्चभावः, आतिश्च प्रत्ययः॑ इति भाष्यवाक्यमिदम् । प्रत्यये इकार उच्चारणार्थः । Prakriyasarvasvam ----------------- एतौ ऊर्ध्वस्यास्तात्यर्थे स्तः । (उपरि, उपरिष्टात्) ।।