53023: प्रकारवचने थाल् ====================== **Padacheda:** प्रकारवचने | S | 7 | 1 | थाल् | S | 1 | 1 | Sutrartha --------- **सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् प्रकारवचनस्य निर्देशार्थम् स्वार्थे 'थाल्' प्रत्ययः भवति ।** अनेन सूत्रेण 'थाल्' इति विभक्तिसंज्ञकः प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, अतः 'था' इत्येव प्रयोगे दृश्यते । **किंसर्वनामबहुभ्योऽद्व्यादिभ्यः** (5.3.2)] इत्यनेन भिन्नेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः उच्यन्ते । वर्तमानसूत्रेण उक्तः 'थाल्' प्रत्ययः अपि विभक्तिसंज्ञकः एव अस्ति, अतः अयम् प्रत्ययः अपि एतेभ्यः सर्वेभ्यः शब्देभ्यः विधीयते । अयम् प्रत्ययः वर्तमानसूत्रेण 'प्रकारेण' अस्मिन् सन्दर्भे स्वार्थे उक्तः अस्ति । एकमुदाहरणम् पश्यामः - येन प्रकारेण इत्येव येन + थाल् [वर्तमानसूत्रेण थाल् इति प्रत्ययः । विवक्षया अत्र तृतीयान्तात् प्रत्ययः भवति ।] → यद् + था [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सप्तमीप्रत्ययस्य लुक्] → य + था [**त्यदादीनामः** (7.2.102) इति दकारस्य अकारादेशः । **अतो गुणे** (6.1.97) इति पररूपम् ।] → यथा एवमेव 'तथा', सर्वथा', 'अन्यथा', 'उभयथा' - एते शब्दाः सिद्ध्यन्ति । **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन एतेषाम् सर्वेषाम् अव्ययसंज्ञा अपि विधीयते । ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रयुक्तः 'प्रकारवचने' इति शब्दः प्रत्ययार्थम् न बोधयति, अपि तु प्रकृतेः विशेष्यम् ज्ञापयति । इत्युक्ते, 'प्रकारेण' इति 'केन' इत्यस्य विशेष्यम् । प्रत्ययः अपि 'केन प्रकारेण' इत्यस्मिन्नेव अर्थे (= स्वार्थे) भवति । 2. 'किम्' तथा 'इदम्' शब्दाभ्याम् वर्तमानसूत्रेण 'थाल्' प्रत्यये प्राप्ते तं बाधित्वा **इदमस्थमुः** (5.3.24) तथा **किमश्च** (5.3.25) इत्यनेन 'थमु' इति प्रत्ययः विधीयते, येन 'इत्थम्' तथा 'कथम्' एतौ शब्दौ सिद्ध्यतः । Vasu English Summary -------------------- The affix थाल् comes after the words किम् etc. -- किंसर्वनामबहुभ्योऽद्व्यादिभ्यः (5.3.2) when we speak of a kind or manner of being. Vasu English Translation ------------------------ The affix थाल् comes after the words किम् etc. -- किंसर्वनामबहुभ्योऽद्व्यादिभ्यः (5.3.2) when we speak of a kind or manner of being. The *sutra* (5.3.2), is to be read into this. The *anuvritti* of सप्तम्याः and काले ceases. The word प्रकार means the differentiating quality distinguishing a species among the genus : it means 'sort', 'kind', 'mode', 'manner' &c. Thus तेन प्रकारेण = तथा 'so, in that manner'. Similarly यथा, सर्वथा ॥ The affix जातीयर् taught in (5.3.69) has also the same force, with this difference that *jatiyar* applies to words which denote things possessing such a quality (प्रकारयाच्च, while *thal* denotes mode itself. Therefore, one does not debar the other, so that we have forms like, तथाजातीयः and यथाजातीयः ॥ Kashika ------- **किंसर्वनामबहुभ्योऽद्व्यादिभ्यः** (५.३.२) इति वर्तते। सप्तम्या इति काल इति च निवृत्तम्। सामान्यस्य भेदको विशेषः प्रकारः। प्रकृत्यर्थविशेषणं चैतत्। प्रकारवृत्तिभ्यः किंसर्वनामबहुभ्यः स्वार्थे थाल् प्रत्ययो भवति। तेन प्रकारेण तथा। यथा। सर्वथा। जातीयरोऽपीदृशमेव लक्षणम्। स तु स्वभावात् प्रकारवति वर्तते, थाल् पुनः प्रकारमात्रे॥ Siddhanta Kaumudi ----------------- प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात्स्वार्थे । तेन प्रकारेण तथा । यथा ॥ Laghu Siddhanta Kaumudi ----------------------- प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात् स्वार्थे। तेन प्रकारेण तथा। यथा॥ Balamanorama ------------ **प्रकारवचने थाल्** - प्रकारवचने थाल् । पञ्चम्यर्थे सप्तमीत्याह — प्रकारवृत्तिभ्य इति । सामान्यस्य भेदको विशेषः प्रकारः । यथाबहुभिः प्रकारैर्भुङ्क्ते॑ इति । विशेषैरिति गम्यते । सादृश्यं त्विह न गृह्रते, सर्वथेत्यादौ तदप्रतीतेः । तेन प्रकारेणेत्यनन्तरं 'विशिष्ट' इति शेषः । 'यथा हरिस्तथा हरः' इत्यादौ यत्प्रकारवान्हरिस्तत्प्रकारवान्हर इति बोधे सति हरिसदृशो हर इति फलति । तदभिप्रायेण यथाशब्दस्य सादृश्यार्थकत्वोक्तिः । Tattvabodhini ------------- **प्रकारवचने थाल्** - प्रकारवचने थाल् । सामान्यस्य भेदको विशेषः प्रकारः । यथा ब्राआहृणसामान्यस्य माठरकाठकादय इति हरदत्तः । यद्यपिप्रकारे गुणवचनस्ये॑त्यत्र सादृश्यं प्रकारस्तथापि नेह सादृश्यं गृह्रते, अनबिधानात् ।अव्ययं विभक्ती॑ति सूत्रे सादृश्यमपि यथाशब्दार्थ इत्युक्तम्, इह तु केवलस्य थाल्प्रत्ययस्य सादृश्यं नाऽर्थः, किं तु प्रकार एवेत्युक्तमिति नास्ति पूर्वापरविरोध इति बोध्यम् । तेन प्रकारेण तथेति । प्रथमान्तात्तु न भवति -स प्रकारस्तथेति, अनभिधानादेवेति भावः । किंसर्वनामबहुभ्यो विशेषविहितेनापि थाला जातीर्न बाध्यते, अर्थभेदात् । प्रकारे हि थाल् । जातीयर्तु तद्वति, स्वभावात् । एवं च कृत्वा प्रकारमात्रे थालं विधाय तदन्तात्प्रकारवति जातीयरं प्रयुञ्जते — तथाजातीयो यताजातीयोऽन्यथाजातीय इति ।एतदोऽपि वाच्यः । अनेन एतेन वेति । द्वितीयान्तादपि थमुर्भवत्येव, इममेतं वा प्रकारमापन्न इत्थम्भूतः । अत्र चलक्षणेत्थम्भूताख्याने॑त्यादिसौत्रप्रयोगे लिङ्गम् । एतेन कथम्भूतो व्याख्यातः । इत्थमिति ।एततौ रथो॑रिति इदम इतादेशः ।एतदः॑इति योगविभागादेतदोऽपि इतादेश इति भावः । Padamanjari ----------- सामान्यस्य भेदको विशेषः प्रकार इति। यथा ब्राह्मणसामान्यस्य माठरादयः। अनेनैतद्दर्शयति - यद्यपि सादृश्यमपि प्रकारः, यथा'प्रकारे गुणवचनस्य' इत्यत्र वक्ष्यति -'प्रकारो भेदः सादृश्यं च, तदिह सादृस्यं प्रकारो गृह्यए' इति; तथापि नेह सादृस्यं गृह्यते, अनभिधानादिति। तेन प्रकारेण तथेति। प्रथमान्तातु न भवति - स प्रकारस्तथेति; अनभिधानादेवेति भावः। किंसर्वनामबहुभ्यो विशे,विहिंतेन थाला सामान्यविहितस्य जातीयरो बाधप्रसङ्ग इत्याशङ्क्याऽऽह - जातीयरोऽपीति। सत्यं जातीयरोऽपीदृशमेव लक्ष्णं'प्रकारवचने जीतीयर्' इति, कथं तर्ह्यबाध? अत आह - स त्विति। अर्थभेदाद् भेद इत्यर्थः। एवं च कृत्वा प्रकारमात्रे थालं विधाय तदन्तात्प्रकारवति जातीयरं प्रयुञ्जते - तथाजातीयः, यथाजातीय इति ॥ Nyaas ----- `सामान्यस्य [`सायास्य विशेषो भेदकः=प्रकारः`-काशिका]