53022: सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः
===================================================================================================================
**Padacheda:** सद्यः | S | 0 | 0 |
परुत् | S | 0 | 0 |
परारि | S | 0 | 0 |
ऐषमस् | S | 0 | 0 |
परेद्यवि | S | 0 | 0 |
अद्य | S | 0 | 0 |
पूर्वेद्युः | S | 0 | 0 |
अन्येद्युः | S | 0 | 0 |
अन्यतरेद्युः | S | 0 | 0 |
इतरेद्युः | S | 0 | 0 |
अपरेद्युः | S | 0 | 0 |
अधरेद्युः | S | 0 | 0 |
उभयेद्युः | S | 0 | 0 |
उत्तरेद्युः | S | 0 | 0 |
Sutrartha
---------
**काले अभिधेये स्वार्थे 'सद्यः , परुत्, परारि, ऐषमः, परेद्यवि, अद्य, पूर्वेद्युः, अन्येद्युः, अन्यतरेद्युः, इतरेद्युः , अपरेद्युः, अधरेद्युः, उभयेद्युः, उत्तरेद्युः' - एते शब्दाः निपात्यन्ते ।**
अनेन सूत्रेण आहत्य चतुर्दशानाम् शब्दानाम् निपातनम् दीयते । एते सर्वे शब्दाः सप्तम्यन्तात् काले अभिधेये उचितं प्रत्ययं कृत्वा सिद्ध्यन्ति । एतेषाम् सर्वेषामावली इयम् -
सद्यः , परुत्, परारि, ऐधमः, परेद्यवि, अद्य, पूर्वेद्युः, अन्येद्युः, अन्यतरेद्युः, इतरेद्युः , अपरेद्युः, अधरेद्युः, उभयेद्युः, उत्तरेद्युः
क्रमेण पश्यामः । भाष्यकारेण प्रत्येकस्मिन् सन्दर्भे पाठितानि वार्त्तिकानि अप्यत्र दत्तानि सन्ति -
1. **सद्यः ** - () । 'समान' इति शब्दः यत्र 'अहन्' (day) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= 'समाने' इत्यस्मात् शब्दात्) स्वार्थे 'द्यस्' इति प्रत्ययं कृत्वा 'सद्य' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् -
समाने अहनि इत्येव
= समान + द्यस् [द्यस्-प्रत्ययः]
→ स + द्यस् ['समान' इत्यस्य 'स' इति आदेशः निपात्यते]
→ सद्यः [विसर्गनिर्माणम्]
'सद्यः' इत्युक्ते 'समाने अहनि' (on the same day).
अग्रिमौ द्वौ शब्दौ अस्मात् वार्त्तिकात् सिद्ध्यतः -
2. **परुत् ** - 'पूर्व' इति शब्दः यत्र 'संवत्सर' (year) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= 'पूर्वे' इत्यस्मात् शब्दात्) स्वार्थे 'उत्' प्रत्ययः भवति । प्रक्रिया इयम् -
पूर्वे संवत्सरे इत्येव
= पूर्व + उत्
→ पर+ उत् ['पूर्व' इत्यस्य 'पर' आदेशः निपात्यते]
→ पर् + उत् [**यस्येति च** (6.4.148) इति अकारलोपः]
→ परुत्
'परुत्' इत्युक्ते 'पूर्वस्मिन् संवत्सरे' (in the previous year)
3. **परारि ** - 'पूर्वतर' इति शब्दः यत्र 'संवत्सर' (year) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= 'पूर्वतरे' इत्यस्मात् शब्दात्) स्वार्थे 'आरि' प्रत्ययः भवति । प्रक्रिया इयम् -
पूर्वतरे संवत्सरे इत्येव
= पूर्वतर + आरि
→ पर + आरि ['पूर्वतर' इत्यस्य 'पर' आदेशः निपात्यते]
→ पर् + आरि [**यस्येति च** (6.4.148) इति अकारलोपः]
→ परारि
'परारि' इत्युक्ते 'पूर्वतरे संवत्सरे' (in the year previous to the previous year).
4. **ऐषमः ** - () । 'इदम्' इति शब्दः यत्र 'संवत्सर' (year) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= 'अस्मिन्' इत्यस्मात् शब्दात्) स्वार्थे 'समसण्' प्रत्ययः भवति । प्रक्रिया इयम् -
अस्मिन् संवत्सरे इत्येव
= इदम् + समसण्
→ इदम् + समस् [प्रत्यये णकारस्य इत्संज्ञा, सकारोत्तरः अकारः उच्चारणार्थः । द्वयोः लोपः भवति ।]
→ इ + समस् [**इदमः इश्** (5.3.3) इति इश्-आदेशः]
→ ऐ + समस् [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
→ ऐसमः [**ससजुषो रुँः** (8.2.66) इति रुँत्वम्, **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
→ ऐषमः [**आदेशप्रत्यययोः** (8.3.59) इति षत्वम्]
'ऐषमः' इत्युक्ते 'अस्मिन् संवत्सरे' (in the current year).
5. **परेद्यवि ** - () । 'पर' इति शब्दः यत्र 'अहन्' (day) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= 'परस्मिन्' इत्यस्मात् शब्दात्) स्वार्थे 'एद्यवि' इति प्रत्ययं कृत्वा 'परेद्यवि' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् -
परस्मिन् अहनि इत्येव
= पर + एद्यवि [एद्यवि-प्रत्ययः]
→ पर् + एद्यवि [**यस्येति च** (6.4.148) इति अकारलोपः]
परेद्यवि
'परेद्यवि' इत्युक्ते 'परस्मिन् अहनि' (on the next day / on a different day).
6. **अद्य ** - () । 'इदम्' इति शब्दः यत्र 'अहन् ' (day) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= 'अस्मिन्' इत्यस्मात् शब्दात्) स्वार्थे 'द्य' प्रत्ययः भवति । प्रक्रिया इयम् -
अस्मिन् अहनि इत्येव
= इदम् + द्य
→ अ + द्य [इदम्-शब्दस्य 'अश्' इति आदेशः निपात्यते । शित्वात् सर्वादेशः।]
→ अद्य
'अद्य' इत्युक्ते 'अस्मिन् अहनि' (today).
अग्रे विद्यमानानाम् सर्वेषाम् शब्दानाम् विषये 'अहनि' इत्यस्मिन् सन्दर्भे स्वार्थे 'एद्युसुच्' इति प्रत्ययः निपात्यते । अस्य सिद्ध्यर्थम् भाष्यकारः इति वार्त्तिकम् पाठयति । सर्वान् शब्दान् क्रमेण पश्यामः । सर्वत्र प्रक्रियायाम् **यस्येति च** (6.4.148) इति अकारलोपं कृत्वा रूपं सिद्ध्यतीति स्मर्तव्यम् ।
7. **पूर्वेद्युः ** -
पूर्वस्मिन् अहनि = पूर्व + एद्युस् → पूर्वेद्युः । On the previous day इत्यर्थः ।
8. **अन्येद्युः ** -
अन्यस्मिन् अहनि = अन्य + एद्युस् → अन्येद्युः ।On the other day इत्यर्थः ।
9. **अन्यतरेद्युः** -
अन्यतरे अहनि = अन्यतर + एद्युस् → अन्यतरेद्युः । On any / either day इत्यर्थः ।
10. **इतरेद्युः** -
इतरस्मिन् अहनि = इतर + एद्युस् → इतरेद्युः । On a different day इत्यर्थः ।
11. **अपरेद्युः ** -
अपरस्मिन् अहनि = अपर + एद्युस् → अपरेद्युः । On an another day इत्यर्थः ।
12. **अधरेद्युः ** -
अधरस्मिन् अहनि = अधर + एद्युस् → अधरेद्युः ।On a previous / lower day इत्यर्थः ।
13. **उभयेद्युः ** -
उभययोः अह्नोः = उभय + एद्युस् → उभयेद्युः । In two days / On both days इत्यर्थः ।
'उभय' शब्दस्य विषये भाष्यकारः अन्यद् अपि एकम् वार्त्तिकं पाठयति - । इत्युक्ते, 'उभय' शब्दात् 'द्युः' इति प्रत्ययः अपि भवति -
उभययोः अह्नोः = उभय + द्युस् → उभयद्युः । In two days / On both days इत्येव अर्थः ।
14. **उत्तरेद्युः ** -
उत्तरस्मिन् अहनि = उत्तर + एद्युस् → उत्तरेद्युः । On a future / later day इत्यर्थः ।
स्मर्तव्यम् -
1. अनेन सूत्रेण निर्मिताः सर्वे शब्दाः **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति ।
2. एते सर्वे शब्दाः 'काले' इत्यस्मिन् सन्दर्भे एव प्रयुज्यन्ते ।
3. महर्षिपाणिनिना एते सर्वे शब्दाः निपातनेनैव दत्ताः सन्ति । एतेषाम् विषये प्रकृतिः / प्रत्ययः / आदेशः एतादृशम् विधानम् तु भाष्यकारेण कृतमस्तीति स्मर्तव्यम् ।
संक्षेपः - अनेन सूत्रेण सिद्धाः संक्षेपरूपेण सर्वे शब्दाः अधः दत्ताः सन्ति -
[अ] **दिवसवाचकाः शब्दाः (Words related to 'day')** -
- today = अद्य
- on the same today / currently = सद्यः
- On a previous day / earlier day = पूर्वेद्युः, अधरेद्युः
- On a next day / later day = उत्तरेद्युः, परेद्यवि
- On both days / In two days = उभयेद्युः, उभयद्युः
- On some other / separate / different day = अन्येद्युः, अन्यतरेद्युः, अपरेद्युः, इतरेद्युः ।
[आ] **संवत्सरवाचकाः शब्दाः (Words related to 'year')** -
- This year - ऐषमः
In previous year - परुत् ।
Two years ago - परारि
Vasu English Summary
--------------------
The following words are anomalous - 1. सद्यः 2. परुत् 3. परारि 4. ऐषमस् 5. परेद्यवि 6. अद्य 7. पूर्वेद्युस् 8. अन्येद्युस् 9. अन्यतरेद्युस् 10. इतरेद्युस् 11. अपरेद्युस् 12. अधरेद्युस् 13. उभयेद्युस् and 14. उत्तरेद्युस्।
Vasu English Translation
------------------------
The following words are anomalous - 1. सद्यः 2. परुत् 3. परारि 4. ऐषमस् 5. परेद्यवि 6. अद्य 7. पूर्वेद्युस् 8. अन्येद्युस् 9. अन्यतरेद्युस् 10. इतरेद्युस् 11. अपरेद्युस् 12. अधरेद्युस् 13. उभयेद्युस् and 14. उत्तरेद्युस्।
The words सप्तम्याः and काले are understood here. The base, the substitute, the affix, the particular time &c, must all be deduced from these forms. Thus सद्यः is formed from समान, by substituting स for समान, and adding the affix द्यस्; in the sense of 'a day'. समानेऽहनि = सद्यः 'the same day'. The पूर्व and पूर्वतर are replaced by पर, and then the affixes उत् and आरि are added, in the sense of 'a year'. Thus पूर्वस्मिन् संवत्सरे = परुत् 'last year'. पूर्वतरे संवत्सरे = परार 'the year belore last'. The इश replaces इदम्, and affix समतण् is added, in the sense of 'year'. Thus अस्मिन् संवत्सरे = ऐषमः 'during this years'. To पर is added एद्यवि in the sense of 'a day': as, परस्मिन्नहनि = परेद्यवि 'the other day'. The अद्य replaces इदम् and the affix द्यस् is added in the sense of 'a day'. Thus अस्मिन्नहनि = अद्य 'to day'. To the words पूर्व, अन्य, अन्यतर, इतर, अपर, अधर, उभय and उत्तर is added the affix एद्युस्, in the sense of 'a day': as पूर्वस्मिन्नहनि = पूर्वेद्युस् 'on the day before', अन्यस्मिन्नहनि = अन्येद्युस् 'on the following day'. अन्यतरस्मिन्नहनि = अन्यतरेद्युः 'on either of two days'. इतरस्मिन्नहनि = इतरेद्युः 'on another day', अपरस्मिन्नहनि = अपरेद्युः 'on the following day', अधरस्मिन्नहनि = अधरेद्युः 'on a previous day'. उभयोरहनोः = उभयेद्युः 'on both days'.
Bhashya
-------
सद्यः परुत्परार्यैषमः परेद्यव्यद्य पूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः (2180) (निपातनाधिकरणम्) (वार्तिकावतरणभाष्यम्) सद्य इति किं निपात्यते? (5813 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्॥ 1 ॥) - समानस्य सभावो द्यश्चाहनि - (भाष्यम्) समानस्य सभावो निपात्यते द्यश्च प्रत्ययोऽहन्यभिधेये। समानेऽहनि सद्यः॥ (वार्तिकावतरणभाष्यम्) परुत्परारीति किं निपात्यते? (5814 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्॥ 2 ॥) - पूर्वपूर्वतरयोः परभाव उदारी च संवत्सरे - (भाष्यम्) पूर्वपूर्वतरयोः परभावो निपात्यते, उदारी च प्रत्ययौ संवत्सरेऽभिधेये। पूर्वस्मिन् संवत्सरे परुत्। पूर्वतरे संवत्सरे परारि॥ (वार्तिकावतरणभाष्यम्) ऐषम इति किं निपात्यते? (5815 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्॥ 3 ॥) - इदमः समसण् - (भाष्यम्) इदमः समसण्प्रत्ययो निपात्यते संवत्सरेऽभिधेये। अस्मिन् संवत्सरे - ऐषमः॥ (वार्तिकावतरणभाष्यम्) परेद्यवीति किं निपात्यते? (5816 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्॥ 4 ॥) - परस्मादेद्यव्यहनि - (भाष्यम्) परस्मादेद्यविप्रत्ययो निपात्यतेऽहन्यभिधये। परस्मिन्नहनि - परद्येवि॥ (वार्तिकावतरणभाष्यम्) अद्येति किं निपात्यते? (5817 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्॥ 5 ॥) - इदमोऽश्भावो द्यश्च - (भाष्यम्) इदमोऽश्भावो निपात्यते द्यश्च प्रत्ययोऽहन्यभिधेये। अस्मिन्नहनि - अद्य॥ (वार्तिकावतरणभाष्यम्) पूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युरिति किं निपात्यते? (5818 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्॥ 6 ॥) - पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युसुच् - (भाष्यम्) पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युसुच्प्रत्ययो निपात्यतेऽहन्यभिधेये। पूर्वस्मिन्नहनि - पूर्वेद्युः। अन्यस्मिन्नहनि - अन्येद्युः। अन्यतरस्मिन्नहनि - अन्यतरेद्युः। इतरस्मिन्नहनि - ःइतरेद्युः। अपरस्मिन्नहनि - अपरेद्युः। अधरस्मिन्नहनि - अधरेद्युः। उभयोरह्नोः - उभयेद्युः। उत्तरस्मिन्नहनि - उत्तरेद्युः॥ (8819 उपसंख्यानवार्तिकम्॥ 7 ॥) - द्युश्चोभयात् - (भाष्यम्) उभयशब्दाद् द्युश्च वक्तव्यः। तस्मान्मनुष्येभ्य उभयद्युः॥
Kashika
-------
सप्तम्या इति काल इति च वर्तते। सद्यःप्रभृतयः शब्दा निपात्यन्ते। प्रकृतिः, प्रत्ययः, आदेशः, कालविशेष इति सर्वमेतद् निपातनाद् लभ्यते। समानस्य सभावो निपात्यते द्यश्च प्रत्ययोऽहन्यभिधेये। समानेऽहनि सद्यः। पूर्वपूर्वतरयोः परभावो निपात्यत उदारी च प्रत्ययौ संवत्सरेऽभिधेये। पूर्वस्मिन् संवत्सरे परुत्। पूर्वतरे संवत्सरे परारी। इदम इश्भावः समसण् प्रत्ययो निपात्यते संवत्सरेऽभिधेये। अस्मिन् संवत्सर ऐषमः। परस्मादेद्यविः प्रत्ययोऽहनि। परस्मिन्नहनि परेद्यवि। इदमोऽश्भावो द्यश्च प्रत्ययोऽहनि। अस्मिन्नहनि अद्य। पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युस् प्रत्ययो निपात्यतेऽहन्यभिधेये। पूर्वस्मिन्नहनि पूर्वेद्युः। अन्यस्मिन्नहनि अन्येद्युः। अन्यतरस्मिन्नहनि अन्यतरेद्युः। इतरस्मिन्नहनि इतरेद्युः। अपरस्मिन्नहनि अपरेद्युः। अधरस्मिन्नहनि अधरेद्युः। उभयोरह्नोरुभयेद्युः। उत्तरस्मिन्नहनि उत्तरेद्युः॥ द्युश्चोभयाद् वक्तव्यः॥ उभयद्युः (शौ०सं० १.२५.४)॥
Siddhanta Kaumudi
-----------------
एते निपात्यन्ते । (वार्तिकम्) ॥ समानेऽहनि सद्यः । (वार्तिकम्) ॥ पूर्वस्मिन्वत्सरे परुत् । पूर्वतरे वत्सरे परारि । (वार्तिकम्) ॥ अस्मिन्संवत्सरे ऐषमः । (वार्तिकम्) ॥ परस्मिन्नहनि परेद्यवि । (वार्तिकम्) ॥ अस्निन्नहनि अद्य । (वार्तिकम्) ॥ पूर्वस्मिन्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । उभयोरह्वोरुभयेद्युः । (वार्तिकम्) ॥ उभयद्युः ॥
Balamanorama
------------
**सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युर्- अन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः** - सद्यःपरुत् । ॒समानस्य सभावो द्यश्चाहनी॑ति भाष्यवाक्यमिदम् । अहर्वृत्तेः समानशब्दात्सप्तम्यन्तात् द्यस्प्रत्ययः, समानस्य सभावश्च निपात्यत इत्यर्थः । सद्यः समानेऽहनीत्यर्थः । ॒पूर्वपूर्वतरयोः परादेशः उदारी च संवत्सरे॑ इत्यपि भाष्यवाक्यम् । उच्च — आरिश्चेति द्वन्द्वः । सप्तम्यन्तादिमौ प्रत्ययौ संवत्सरे अभिधेये ।॒इदम इश् समसण् इत्यपि भाष्यवाक्यम् । ऐषम इति । समसणि णकार इत्, सकारादकार उच्चारणार्थः । णित्त्वादादिवृद्धिः । ॒परस्मादेद्यव्यहनी॑त्यपि भाष्यवाक्यम् । सप्तम्यन्तादेद्यविरिकारान्तः प्रत्ययः । ॒इदमोऽश्भावो द्यश्चे॑त्यपि भाष्यवाक्यम् । सप्तम्यन्तादकारान्तो द्यप्रत्ययः ।पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युस् चे॑त्यपि भाष्यवाक्यम् ।
Tattvabodhini
-------------
**सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युर्- अन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः** - सद्यः परुत् । निपातनाद्विषयविशेषो लभ्यत इत्याह — — अहनीति । सप्तम्यन्तस्याऽहन्शब्दस्यार्थे इत्यर्थः । समानस्य सभावो द्यश्चाऽहनि । समानेऽहनीति । पर उदारीचेति ।पर॑इत्यादेशः, उदारी प्रत्ययौ ।
Nyaas
-----
`समानेऽहनि सद्यः` इति। निमित्तनिमित्तिनोः समाने साधारणेऽहनि निपातनमेतत्। तद्यथा - सद्यः प्राणहरणं मर्मणि ताडनमिति। यस्मिन्नेवाहनि मर्मणि ताडनं तस्मिन्नेवाहनि प्राणरणमित्यर्थः। `उदारी च` इति। उच्च आरिश्चेति उदारी। `परस्मादेद्यवि` इति। परशब्दादेद्यविप्रत्ययो भवत्यहन्यभिधेये॥
Prakriyasarvasvam
-----------------
एते सप्तम्यर्थवन्तः कालविशेषे स्युः । समानेऽहनि सद्यः स्यात् पूर्वस्मिन् वत्सरे परुत् । ततः पूर्वे परारि स्यादस्मिन् वत्सर ऐषमः ॥ ३४२ ॥ परेद्यवि परश्वः स्यादद्येत्यस्मिन्नहन्यपि । पूर्वेद्युरादयः सर्वे तत्र तत्राहनि स्थिताः ॥ ३४३ ॥ परेद्यवीत्यतीतेऽपि तृतीयेऽह्र्याह भोजराट् । परुत्परारिशब्दौ च भावितत्परवर्षयोः ॥ ३४४ ॥ उभयद्युरिति चेष्टम् ।
Vartika
-------
समानस्य सभावो द्यस् चाहनि ।
Sutra Prayogas
--------------
* **अन्येद्युः** (रघुवंशम्): `सद्यः परुत्परारि-` इत्यादिना निपातनादव्ययम्।
* **परेद्यव्यद्य पूर्वेद्युरन्येद्युश्चाऽपि** (भट्टिकाव्यम्): `परेद्यव्यादयः शब्दाः सद्यः परु` इत्यादिना निपातिताः।