53004: एतेतौ रथोः ================= **Padacheda:** एत-इतौ | S | 1 | 2 | र-थोः | S | 7 | 2 | Sutrartha --------- **'इदम्' सर्वनाम्नः रेफादौ विभक्तिसंज्ञके तद्धितप्रत्यये परे 'एत' इति आदेशः भवति, तथा च थकारादौ विभक्तिसंज्ञके तद्धितप्रत्यये परे 'इत्' इति आदेशः भवति ।** 'इदम्' इति सर्वनामसंज्ञकः शब्दः । **किंसर्वनामबहुभ्योऽद्व्यादिभ्यः** (5.3.2) अनेन सूत्रेण अस्मात् शब्दात् प्राग्दिशीय-विभक्तिप्रत्ययाः भवितुमर्हन्ति । तत्र यदि इदम्-शब्दात् रेफादि-प्रत्ययः विधीयते, तर्हि इदम्-शब्दस्य 'एत' इति आदेशः भवति । तथा च, यदि थकारादि-प्रत्ययः विधीयते, तर्हि 'इदम्'शब्दस्य 'इत्' इति आदेशः भवति । क्रमेण पश्यामः - 1. इदम्-शब्दात् रेफादिः विभक्तिसंज्ञकः एकः एव प्रत्ययः भवितुमर्हति - र्हिल् (= र् + हिल्) । अयम् प्रत्ययः 'अस्मिन्' इत्यस्मात् सप्तमीविभक्त्यन्तात् भवति । अस्मिन् + र्हिल् ['अस्मिन् काले' इति विवक्षिते स्वार्थे **इदमो र्हिल्** (5.3.16) इति र्हिल्-प्रत्ययः] → इदम् + र्हि [लकारस्य इत्संज्ञा, लोपः । सुप्-प्रत्ययस्य अपि लुक् ।] → एत + र्हि [**एतेतौ रथोः** (5.3.4) इति इदम्-शब्दस्य रेफादौ प्रत्यये परे एत-आदेशः] → एतर्हि । 2. इदम्-शब्दात् थकारादिः विभक्तिसंज्ञकः एकः एव प्रत्ययः भवितुमर्हति - थमु । अनेन + थमु ['प्रकारवचने' विवक्षिते स्वार्थे **इदमस्थमुः** (5.3.12) इति थमु-प्रत्ययः] → इदम् + थम् [उकारः उच्चारणार्थः, तस्य लोपः । सुप्-प्रत्ययस्य अपि लुक् । ] → इत् + थम् [**एतेतौ रथोः** (5.3.4) इति इदम्-शब्दस्य थकारादौ प्रत्यये परे इत् -आदेशः] → इद् + थम् [थम्-प्रत्यये परे अङ्गस्य **स्वादिष्वसर्वनामस्थाने** (1.4.17) इति पदसंज्ञा । पदसंज्ञायां सत्याम् **झलां जशोऽन्ते** (8.2.39) इति जश्त्वे तकारस्य दकारः] → इत् + थम् [**खरि च** (8.4.55) इति चर्त्वे तकारः] → इत्थम् । ज्ञातव्यम् - 1. **इदमो इश्** (5.3.3) अनेन सूत्रेण इदम्-शब्दस्य विभक्तिसंज्ञके तद्धितप्रत्यये परे इश्-आदेशः भवति । तं बाधित्वा 'र्हिल्' तथा 'थमु' प्रत्यययोः विषये वर्तमानसूत्रेण विशिष्ट-आदेशौ उक्तौ स्तः । 2. अस्मिन् सूत्रे 'रथोः' इति रथ्' इत्यस्य सप्तमीद्विवचनम् । अत्र 'र' इत्यत्र अकारः केवलं उच्चारणार्थः स्थापितः अस्ति । विधानम् तु 'र्' इत्यनेन आरभ्यमाणस्य प्रत्ययस्यैव भवति । 'थ्' इत्यस्य विषये तु विधानमेव हलन्तस्य कृतमस्ति अतः तत्र कोऽपि संशयः न विद्येत । 3. अस्मिन् सूत्रे 'रथोः' इति सप्तमीविभक्तेः प्रयोगः कृतः अस्ति । इयम् परसप्तमी । अत्र **यस्मिन् विधिः तदादौ अल्ग्रहणे** अनेन वार्त्तिकेन 'रथोः' इत्यस्य अर्थः 'रेफादिः / थकारादिः' इति क्रियते । 4. अस्मिन् सूत्रे स्थानी एकः अस्ति - 'इदमः' इति । निमित्तौ द्वौ - 'रेफथकारौ' । आदेशौ अपि द्वौ - 'एत-इतौ' । **यथासंख्यमनुदेशः समानाम्** (1.3.10) इत्यनेन अत्र यथासङ्ख्यमादेशविधानम् भवति । इत्युक्ते, रेफादि-प्रत्यये परे 'एत' इति आदेशः भवति, तथा च थकारादौ प्रत्यये परे 'इत्' इति आदेशः भवति । 5. 'एत' तथा 'इत्' द्वावपि आदेशौ अनेकालौ स्तः, अतः सर्वादेशरूपेण विधीयेते । 6. सूत्रमिदम् तद्धितप्रकरणे विद्यते, न हि अङ्गाधिकारे । अतः अस्मिन् सूत्रे पाठितौ आदेशौ 'अङ्गकार्यम्' न स्तः, केवलं प्राकृतिककार्यमेव स्तः । Vasu English Summary -------------------- The substitutes एत and इत come instead of इदम् when a प्राग्दिशीय affix beginning with र and थ respectively follows. Vasu English Translation ------------------------ The substitutes एत and इत come instead of इदम् when a प्राग्दिशीय affix beginning with र and थ respectively follows. This debars इश् ॥ The अ in र is for the sake of euphony. Thus इदम् + र्हिल = एतर्हि (5.3.16); इदम् + थमु = इत्थम् (5.3.24). Kashika ------- रेफथकारादौ प्राग्दिशीये प्रत्यये परत इदम एतेतावादेशौ भवतः। इशोऽपवादः। रेफेऽकार उच्चारणार्थः। **इदमो र्हिल्** (५.३.१६) — एतर्हि। **इदमस्थमुः** (५.३.२४) — इत्थम्॥ Siddhanta Kaumudi ----------------- इदं शब्दस्य एत इत इत्यादेशौ स्तो रेफादौ थकारादौ च प्राद्गिशीये परे । इशोऽपवादः ॥ Laghu Siddhanta Kaumudi ----------------------- इदम् शब्दस्य एत इत् इत्यादेशौ स्तौ रेफादौ थकारादौ च प्राग्दिशीये परे। अस्मिन् काले एतर्हि। काले किम्? इह देशे॥ Balamanorama ------------ **एतेतौ रथोः** - एतेतौ रथोः । 'इदम' इत्यनुवर्तते । एतश्च इच्चेति द्वन्द्वात्प्रथमाद्विवचनम् । रश्च थ् च तयोरिति द्वन्द्वः । रेफादकार उच्चारणार्थः । रेफाथकाराभ्यां प्राग्दिशीयं प्रकरणलभ्यं विशेष्यते ।यस्मिन्विधि॑रिति तदादिविधिः । तदाह — इदंशब्दस्येत्यादिना । तत्र रेफादौ परे एतः, थादौ तु इदिति यथासङ्ख्यं बोध्यम् । एतर्हि । इत्थम् । Padamanjari ----------- इशोऽपवाद इति। भावे घञ्, इशो बाधनमेताभ्यां क्रियत इत्यर्थः। योगापेक्षं त्वेकवचनम्, अयं योग इसोऽपवाद इत्यर्थः। आदेशाभ्यां वा प्रत्येकमभिसम्बन्धादेकववनम्, यथा'भूशादिभ्यो भुव्यच्वेः' इति। इशोऽपवादाविति वा पठितव्यम्। रेफेऽकार उच्चारणार्थ इति। अकारवतो रेफस्य प्राग्दिशीयस्याभावात् ॥ Nyaas ----- `रथोः` इति वर्णयोरिवं ग्रहणम्। तत्र `यस्मिन्? विधिस्तदादावल्ग्रहणे` (वा। 14) इति रेफादौ थकारादौ च कार्यं विज्ञायत इत्यादि - `रेफादौ` इत्यादि। रेफस्याकार उच्चारणार्थ इति कथं ज्ञायते? इदमः परस्य प्राग्दिशीयस्याकारवतो रेफस्याभावात्॥ Prakriyasarvasvam ----------------- इदमो रेफे थे च परे क्रमात् एत इत् इत्यादेशौ स्तः । एतर्हि ॥ Vartika ------- थाहेतौ च च्छन्दसि ।