52115: अत इनिठनौ ================ **Padacheda:** अतः | S | 5 | 1 | इनिठनौ | S | 1 | 2 | Sutrartha --------- **'अस्य अस्ति' अस्मिन् अर्थे प्रथमासमर्थेभ्यः अदन्तशब्देभ्यः विकल्पेन 'इनि' तथा 'ठन्' प्रत्ययौ भवतः, पक्षे मतुँप्-प्रत्ययः अपि विधीयते ।** 'अस्य अस्ति' अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः **तदस्यास्त्यस्मिन्निति मतुँप्** (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । ह्रस्व-अकारान्तशब्दानां विषये अस्मिन्नेव अर्थे वर्तमानसूत्रेण 'इनि' तथा 'ठन्' एतौ प्रत्ययौ अपि भवतः । यथा - 1. इनि-प्रत्ययः - अस्मिन् प्रत्यये नकारोत्तरः अकारः इत्संज्ञकः नास्ति, अपितु 'नकारस्य **हलन्त्यम्** (1.3.3) इत्यनेन इत्संज्ञा मा भूत्' इति ज्ञापयितुम् स्थापितः अस्ति । प्रक्रियायामस्य लोपः भवति, अतः 'इन्' इति प्रत्ययः प्रयुज्यते । यथा - अ) दण्डः अस्य अस्ति सः = दण्ड + इन् → दण्डिन् । **यस्येति च** (6.4.148) इति अकारलोपं कृत्वा रूपं सिद्ध्यति आ) छत्रः अस्य अस्ति सः = छत्र + इन् → छत्रिन् । (इ) कामः अस्य अस्ति सः = काम + इन् → कामिन् । (ई) चक्रमस्य अस्ति सः = चक्र + इन् → चक्रिन् । (उ) रथः अस्य अस्ति सः = रथ + इन् → रथिन् । एवमेव शार्ङिन्, गुणिन्, फलिन्, अधिकारिन् - एते शब्दाः अपि सिद्ध्यन्ति । एतेषाम् सर्वेषाम् रूपाणि त्रिषु अपि लिङ्गेषु भवन्ति - अ) पुंलिङ्गे अस्य रूपाणि 'शशिन्' शब्दवत् भवन्ति । यथा - दण्डी, दण्डिनौ, दण्डिनः । आ) स्त्रीत्वे विवक्षिते **ऋन्नेभ्यो ङीप्** (4.1.5) इत्यनेन एते शब्दाः ङीप्-प्रत्ययं स्वीकुर्वन्ति, तथा च एतेषां रूपाणि 'नदी' शब्दवत् भवन्ति । यथा - दण्डिनी दण्डिन्यौ दण्डिन्यः । (इ) नपुंसकलिङ्गे एतेषां प्रथमाद्वितीययोः रूपाणि 'दण्डि दण्डिनी दण्डीनि' इति भवन्ति । तृतीयातः आरभ्य पुंलिङ्गवत् एव रूपाणि जायन्ते । सम्बोधनस्य प्रथमैकवचने अनेन वार्त्तिकेन विकल्पेन नकारलोपं कृत्वा 'हे दण्डि' तथा 'हे दण्डिन्' इति रूपद्वयम् जायते । 2. ठन्-प्रत्ययः अस्मिन् प्रत्यये विद्यमानस्य ठकारस्य **ठस्येकः** (7.3.50) इत्यनेन इक्-आदेशः भवति । यथा - अ) दण्डः अस्य अस्ति सः = दण्ड + ठन् → दण्ड + इक → दण्डिक । **यस्येति च** (6.4.148) इति अकारलोपं कृत्वा रूपं सिद्ध्यति । आ) छत्रः अस्य अस्ति सः छत्रिकः । (इ) कामः अस्य अस्ति सः कामिकः । एवमेव गुणिकः, फलिकः, अधिकारिकः - आदयः शब्दाः अपि सिद्ध्यन्ति । एतेषाम् रूपाणि पुंलिङ्गे बाल-शब्दवत्, स्त्रीलिङ्गे माला-शब्दवत् तथा नपुंसकलिङ्गे फल-शब्दवत् भवन्ति । विशेषः - 1. सर्वेभ्यः अदन्तशब्देभ्यः वर्तमानसूत्रेण विकल्पेन मतुँप्-प्रत्ययः अपि भवति । तथा च, प्रक्रियायाम् **मादुपधायाश्च मतोर्वोऽयवादिभ्यः** (8.2.9) इत्यनेन यवादिगणं विहाय अन्येभ्यः शब्देभ्यः विहितस्य मतुँप्-प्रत्ययस्य मकारस्य वकारादेशः अपि भवति । यथा - दण्डः अस्य अस्ति सः दण्डवान्, बलमस्य अस्ति सः बलवान् - आदयः । 2. अनेन सूत्रेण 'अस्य अस्ति' इत्यस्मिन् षष्ठ्यर्थे एव 'इनि' तथा 'ठन्' प्रत्ययौ पाठ्येते । 'अस्मिन् अस्ति' इत्यस्मिन् अर्थे (= सप्तम्यर्थे) एतौ प्रत्ययौ न भवतः । यथा - दण्डाः सन्ति अस्याम् शालायाम्' इत्यत्र एतौ प्रत्ययौ न भवतः । औत्सर्गिकः मतुँप्-प्रत्ययः तु भवत्येव । यथा - दण्डवती शाला । 3. **द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः** (5.2.128) इत्यस्मात् आरभ्य **बलादिभ्यो मतुबन्यतरस्याम्** (5.2.136) इति यावद्भिः सूत्रैः केभ्यश्चन शब्देभ्यः वर्तमानसूत्रस्य अपवादरूपेण केवलम् 'इनि' प्रत्ययविधानम् क्रियते (इत्युक्ते, ठन् तथा मतुँप्-प्रत्यययोः निषेधः भवति )। अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, वर्तमानसूत्रेण पाठितौ इनि/ठन्-प्रत्ययौ एकाक्षरस्य अङ्गस्य विषये, कृदन्तस्य अङ्गस्य विषये, जातिवाचकस्य अङ्गस्य विषये तथा च सप्तम्यर्थे न भवन्ति । उदाहरणानि एतानि - अ) एकाक्षरम् - यदि अङ्गे एकम् एव अक्षरम् (= प्रारम्भे कानिचन व्यञ्जनानि ; तदनन्तरम् एकः स्वरः) विद्यते, तर्हि तस्मात् अङ्गात् 'इनि' तथा 'ठन्' प्रत्ययौ न भवतः । यथा - स्वः अस्य अस्ति सः स्ववान् । खमस्य अस्ति सः खवान् । (आ) कृदन्तशब्दः - कृत्-प्रत्ययान्तम् यत् अङ्गम्, तस्मात् 'इनि' तथा 'ठन्' प्रत्ययौ न भवतः । यथा - कारकः अस्य अस्ति सः कारकवान् । लेखनमस्य अस्ति सः लेखनवान् । (इ) जातिवाचकः शब्दः - यदि अङ्गम् जातिवाचकमस्ति (indicates a species or a cast) तर्हि तस्मात् 'इनि' तथा 'ठन्' प्रत्ययौ न भवतः । यथा - व्याघ्रः अस्य अस्ति सः व्याघ्रवान् । शूद्रः अस्य अस्ति सः शूद्रवान् । (ई) सप्तम्यर्थै - वर्तमानसूत्रेण उक्तौ 'इनि' तथा 'ठन्' प्रत्ययौ केवलम् 'अस्य अस्ति' अस्मिन्नेव अर्थे प्रयुज्येते, न हि 'अस्मिन् अस्ति' इत्यर्थे । यथा, 'दण्डाः सन्ति अस्यां शालायाम्' इत्यत्र 'इनि' तथा 'ठन्' प्रत्ययौ न भवतः । विशेषः - केषुचन स्थलेषु कृदन्तेभ्यः / जातिवाचकेभ्यः शब्देभ्यः अपि इनि-प्रत्ययः तथा ठन्-प्रत्ययः कृतः दृश्यते । यथा - कार्यमस्य अस्ति सः कार्यी । तण्डुलाः अस्य सन्ति सः तण्डुलिकः - आदयः । एतादृशानाम् प्रयोगानाम् समर्थनार्थम् काशिकाकारः सूत्रे 'इति' एतम् शब्दमनुवृत्तिरूपेण 'विवक्षा' इत्यस्मिन् अर्थे स्वीकरोति, येन एते शब्दाः अपि साधुत्वं प्राप्नुवन्ति । भाष्यकारः तु 'अनभिधानात् न भविष्यति' इति उक्त्वा 'अस्य वार्त्तिकस्य आवश्यकता एव नास्ति' इति निदर्शयति । Vasu English Summary -------------------- The affixes इनि and ठन् come in the sense of मतुप् after the प्रातिपदिक (Nominal Stems) ending in short अ and in the alternative मतुप् also comes. Vasu English Translation ------------------------ The affixes इनि and ठन् come in the sense of मतुप् after the प्रातिपदिक (Nominal Stems) ending in short अ and in the alternative मतुप् also comes. Thus दण्डिन्, दण्डिकः, छत्रिन् nom. छत्री, छत्रिकः ॥ The word अन्यतरस्याम् (5.2.96) is understood here also, so we have मतुप्, as दण्डवान्, छत्रवान् ॥ Why do we say 'short अ'? Observe खट्वावान्. Here there is neither इन् nor ठन् ॥ These two affixes इनि and ठन् do not come after words of one syllable, after words ending in *krit*-affixes, after words denoting genus (*jati*), and when the construction is that of locative. As स्व and ख form only स्वावान्, खवान् ॥ *Krit*: as, कारकवान् ॥ Genus, as, व्याघ्रवान्, सिंहवान् ॥ Locative; as दण्डा अस्यां सन्ति = दण्डवती शाला ॥ There are, however, some exceptions to this, as *krit* :-- कार्यिन्, कार्यिकः हार्यिन्, हार्यिकः ॥ Genus (*jati*) :-- तण्डुलिन्, तण्डुलिकः ॥ Bhashya ------- अत इनिठनौ (2132) (ःइनिठनोरधिकरणम्) (5778 उपसंख्यानवार्तिकम्॥ 1 ॥) - इनिठनोरेकाक्षरात्प्रतिषेधः - (भाष्यम्) इनिठनोरेकाक्षरात्प्रतिषेधो वक्तव्यः॥ स्ववान्, खवान्। अत्यल्पमिदमुच्यते॥ (उपसंख्याने श्लोकभाष्यम्) एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ॥ एकाक्षरात् - स्ववान्। खवान्। कृतः - कारकवान्। हारकवान्। जातेः - वृक्षवान्। प्लक्षवान्। व्याघ्रवान्। सिंहवान्। सप्तम्यां च न तौ - दण्डा अस्यां शालायां सन्तीति॥ (एकाक्षरादित्यादेः प्रत्याख्यानभाष्यम्) यदि कृतो नेत्युच्यते, कार्यी - कार्यिक इति न सिध्यति। तथा जातेर्नेत्युच्यते, तण्डुली - तण्डुलिक इति न सिध्यति॥ एवं तर्हि नायं समुच्चयः - कृतश्च जातेश्चेति। किं तर्हि? जातिविशेषणं कृद्ग्रहणम् - कृद्या जातिरिति। कथं कारकवान्, हारकवान्? अनभिधानान्न भविष्यति॥ यद्येवं, नार्थोऽनेन कथं - स्ववान्, खवान्, वृक्षवान्, सिंहवान्, व्याघ्रवान्, प्लक्षवान्, दण्डा अस्यां शालायां सन्तीति? अनभिधानान्न भविष्यति॥ 5-2-116- व्रीह्यादिभ्यश्च (2134) (उपसंख्यानभाष्यम्) शिखादिभ्य इनिर्वाच्य इकन् यवखदादिषु॥ किं प्रयोजनम्? नियमार्थम्। इनिरेव शिखादिभ्यः, इकन्नेव यवखदादिभ्यः॥ (5779 प्रत्याख्यानवार्तिकम्॥ 1 ॥) - शिखायवखदादिभ्यो नियमस्यावचनं निवर्तकत्वात् - (भाष्यम्) शिखायवखदादिभ्यो नियमस्यावचनम्। किं कारणम्? निवर्तकत्वात्। किं निवर्तकम्? अनभिधानम्॥ Kashika ------- अकारान्तात् प्रातिपदिकादिनिठनौ प्रत्ययौ भवतः। दण्डी। दण्डिकः। छत्री। छत्रिकः। अन्यतरस्यामित्यधिकाराद् मतुबपि भवति। दण्डवान्। छत्रवान्। तपरकरणं किम्? श्रद्धावान्। एकाक्षरात् कृतो जातेः सप्तम्यां च न तौ स्मृतौ॥ एकाक्षरात् तावत् — स्ववान्। खवान्। कृतः — कारकवान्। जातेः — व्याघ्रवान्। सिंहवान्। सप्तम्याम् — दण्डा अस्यां सन्ति दण्डवती शालेति। इतिकरणो विषयनियमार्थः सर्वत्र संबध्यत इत्युक्तम्, तेन क्वचिद् भवत्यपि — कार्यी, हार्यी, तण्डुली, तण्डुलिक इति॥ Siddhanta Kaumudi ----------------- दण्डी । दण्डिकः ॥ Laghu Siddhanta Kaumudi ----------------------- दण्डी। दण्डिकः॥ Balamanorama ------------ **अत इनिठनौ** - अत इनिठनौ । अदन्तान्मत्वर्थे इनि ठन् एतौ स्त इत्यर्थः । समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेर्मतुलपि भवति । एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ॑ इति भाष्यम् । एकाक्षरात्-स्बवान्, कृतः-कारकवान्, जातेः-वृक्षकवान्, सप्तम्यां — दण्जा अस्यां शालायां सन्ति दण्डवती । इदं प्रायिकम् । तेन कार्यी कार्यिकः, तण्डुली तण्डुलिक इत्यादि सिद्धमिति भाष्ये स्पष्टम् । Tattvabodhini ------------- **अत इनिठनौ** - अत इनिठनौ । तपरकरणं किम् । खट्वावान् ।एकाक्षरात्कृतोजातेः सप्तम्यां च न तौ स्मृतौ॑ । एकाक्षरात् -स्ववान् । कृतः -कारकवान् । जातेः — — व्याघ्रवान्, सिंहवान् । सप्तम्यां - दण्ड अस्यां सन्ति दण्डवती शाला ।तदस्यास्ती॑ति सूत्रस्थेतिकरणो विषयनियमार्थः सर्वत्रापि संबध्यत इति । क्वचित्कृतोऽपि भवति -कार्यी । कार्यिकः । क्वचित्तु जातेरपि -तण्डुली । तण्डुलिकः । एतच्च काशिकादौ स्पष्टम्ष Padamanjari ----------- अकारान्तादिति। स्वरूपग्रहणं तु न भवति, अच्छब्दान्तात्कुर्वत्, पचदित्येवमादेरिति रसादिभ्यःऽ पुनर्वचनात्। तद्ध्यनेन प्राप्तयोरिनिठनोर्बाधनार्थमित्युक्तम्। तपकरणं किमिति। व्रीहायादिषु मालादीनामाकारान्तानां पाठो नियमार्थो भविष्यतीति प्रश्नः। किमाकारान्तविषयो नियमः ? उत स्त्रीप्रत्ययान्तविषयः ? आहोस्विदाबन्तविषयः ? इति सन्देहसम्भवादघश्यं कर्तव्यं तपरकरणमित्युतरेऽभिप्रायः। एकाक्षरादिति। रसादिभ्यः पुनर्वचनमन्यनिवृत्यर्थमित्युक्तम्, तत्र च ठेकाचःऽ इति पठीतम्, तेनैतत्सिद्धम्। कार्यीति। कार्यशब्दात्कृदन्तात् प्रत्ययः। तन्दुलीति। जातेः ॥ Nyaas ----- अत इत्यकारस्तपरो गृह्रते। अत एवाह - `अकारान्तात्` इत्यादि। अथाच्छब्दस्य स्वरूपग्रहणं कस्मान्न विज्ञायते - अच्छब्दात्? प्रातिपदिकादिति? अदित्ययुक्तं स्वरूपग्रहणं भवितुम्; स्वरूपग्रहणे हि रसादिभ्यो मतुपो विधानमनर्थकं स्यात्। स हीनिठनोर्बाधनार्थं विधीयते। न चेह स्वरूपग्रहणे तेभ्यस्तौ प्रत्ययौ प्राप्नुत इति किं तद्विधानार्थेन मतुपो विधानेन!`तपरकरणं किम्? श्रद्धावान्` (इति)। ननु च व्रीह्रादिषु मालादय आकारान्ताः पठन्ते, ते च नियमार्था भविष्यन्ति - एतेब्य एवाकारान्तेभ्य इति? नैतदस्ति; तुल्यजातीयस्यैवं नियमः स्यात्, डाप्चाबन्ताभ्यां स्यातामेवेतीनिठनौ। तस्मादकारस्तपरः कर्तव्यः। `कार्यी, इति। कृत इनिः। `तण्डुलिकः` इति। जातेरिनिठनौ॥ Prakriyasarvasvam ----------------- अदन्तात् मत्वर्थे एतौ स्तः । दण्डी । दण्डिकः । दण्डवान् । एवं कञ्चुकी । 'कञ्चुकीय इति क्यचि' इति वामन: । इच्छार्थक्यचि पचाद्यजयम्, न मत्वर्थीय: । तदिच्छया तद्धारित्वं लक्ष्यते । 'एकाक्षरात् कृतो जातेः सप्तम्यां च न तौ स्मृतौ ।' एभ्य इनिठनौ न । स्ववान्, कारकवान्, सिंहवान् । तदस्मिन्नित्यर्थेऽपि न । दण्डवती शाला । कृदादेः क्वचिदस्ति । कृतःकार्या, पाकीत्यादि । जातेस्तण्डुलीत्यादि । द्रव्यादिभ्यश्च नेति भोजः । द्रव्यवान् । 'मत्वर्थीयात् सरूपो मत्वर्थीयो नेष्टः' तेन ठनन्तात् पुनर्ने ठन् । दण्डिकवान् । Sutra Prayogas -------------- * **फलवत्पूगमालिना** (रघुवंशम्): `व्रीह्यादिभ्यश्च` इति इनिप्रत्ययः। * **दंष्ट्रिणो** (कुमारसम्भवम्): `व्रीह्यादिभ्यश्च` इति इनिप्रत्ययः। * **बर्हिणः** (कुमारसम्भवम्): `फलबर्हाभ्यामिनज्वक्तव्यः` इति इनच् प्रत्ययः। * **दंष्ट्रिणः** (किरातार्जुनीयम्): `व्रीह्यादिभ्यश्च` इति इनिप्रत्ययः। * **रसिका** (शिशुपालवधम्): `अत इनिठनौ` इतीठन्प्रत्ययः। * **लावणिकेन** (शिशुपालवधम्): `अत इनिठनौ` इति ठन्प्रत्ययः। * **पताकिनी** (शिशुपालवधम्): `व्रीह्यादिभ्यश्च` इति इनिप्रत्ययः। * **पताकिनः** (शिशुपालवधम्): `व्रीह्यादिभ्यश्च` इति इनिप्रत्ययः। * **प्रतापिनो** (शिशुपालवधम्): `अत इनिठनौ` इति इन्प्रत्ययः। * **धन्विभिः** (शिशुपालवधम्): `व्रीह्यादिभ्यश्च` इति इनिः प्रत्ययः। * **शार्ङ्गी** (भट्टिकाव्यम्): `अत इनिठनौ` इति इनिः। * **श्वगणि-शत-विकीर्णं** (भट्टिकाव्यम्): `अतः` इति इनि ठक्।