52091: साक्षाद्द्रष्टरि संज्ञायाम् ================================== **Padacheda:** साक्षात् | S | 0 | 0 | द्रष्टरि | S | 7 | 1 | संज्ञायाम् | S | 7 | 1 | Sutrartha --------- **'साक्षात्' इत्यस्मात् शब्दात् द्रष्टुः निर्देशार्थम् संज्ञायाः विषये 'इनि' प्रत्ययः भवति ।** 'साक्षात्' इति किञ्चन अव्ययम् । **साक्षात्प्रभृतीनि च** (1.4.74) अनेन सूत्रेण अस्य अव्ययसंज्ञा भवति । अस्मात् शब्दात् 'द्रष्टा' ( = पश्यति सः) अस्मिन् अर्थे संज्ञायाः निर्देशार्थम् 'इनि' प्रत्ययः भवति । प्रक्रिया इयम् - साक्षात् द्रष्टा = साक्षात् + इनि → साक्ष् + इन् [**नस्तद्धिते** (6.4.144) इत्यत्र निर्दिष्टेन अनेन वार्त्तिकेन अत्र टिलोपः भवति ।] → साक्षिन् अस्य रूपाणि - साक्षी साक्षिणौ साक्षिणः - एतादृशं भवन्ति । यः पश्यति सः साक्षी । विशेषः - अत्र 'संज्ञायाम्' इति निर्देशः क्रियते, अतः विशिष्टेषु सन्दर्भेषु एव अस्य शब्दस्य प्रयोगः भवति । यथा, यः कोऽपि स्वयं कार्यम् करोति सः यद्यपि स्वेन कृतं कार्यम् द्रष्टुमर्हति, तथापि तस्य निर्देशार्थम् 'साक्षी' इति शब्दः न विधीयते । यः केवलम् द्रष्टा अस्ति (स्वयम् कार्ये भागं न गृह्णाति) तस्यैव निर्देशः अत्र 'साक्षी' इत्यनेन भवति । Witness - इति सामान्यः अर्थः । Vasu English Summary -------------------- The affix इनि comes in the sense of 'a spectator, looker on' after the word साक्षात् when the word so formed is a Name. Vasu English Translation ------------------------ The affix इनि comes in the sense of 'a spectator, looker on' after the word साक्षात् when the word so formed is a Name. The word साक्षात् is an Indeclinable. The word संज्ञा is used in the aphorism to restrict the sense of the word. Thus साक्षाद् द्रष्टा = साक्षी, d. साक्षिणौ, pl. साक्षिणः 'an eye-witness'. In any transaction like loan, &c, three persons directly see the fact, and may be called द्रष्टा, viz. who gives, who takes, and another who merely looks on. By using the word संज्ञा, the word साक्षिन् is restricted to the mere looker on, and not to the lender or borrower. Bhashya ------- साक्षाद् द्रष्टरि संज्ञायाम् (2109) (सूत्रार्थनिश्चायकभाष्यम्) संज्ञायामिति किमर्थम्? त्रिभिः साक्षाद् द्रष्टव्यं भवति - यश्च ददाति, यस्मै च दीयते, यश्चोपद्रष्टा, तत्र सर्वत्र प्रत्ययः प्राप्नोति। संज्ञाग्रहणसार्मथ्याद्धनिकान्तेवासिनोर्न भवति॥ Kashika ------- साक्षाच्छब्दोऽव्ययम्। तस्मादिनिः प्रत्ययो भवति द्रष्टरि वाच्ये। संज्ञाग्रहणमभिधेयनियमार्थम्। साक्षाद् द्रष्टा साक्षी, साक्षिणौ, साक्षिणः। संज्ञाग्रहणादुपद्रष्टैवोच्यते, न दाता ग्रहीता वा॥ Siddhanta Kaumudi ----------------- साक्षाद्रष्टा साक्षी ॥ Balamanorama ------------ **साक्षाद्द्रष्टरि संज्ञायाम्** - साक्षाद्द्रष्टरि ।साक्षा॑दित्यव्ययम्, इह शब्दस्वरूपपरं लुप्तपञ्चमीकम् । साक्षादित्यव्ययाद्द्रष्टर्यर्थे इनिः स्यादित्यर्थः । साक्षीति । यः कर्मणि स्वयं न व्याप्रियते, किन्तु कर्म क्रियमाणं पश्यति सोऽयं साक्षीत्युच्यते । साक्षादित्यव्ययादिनिप्रत्ययः । 'अव्ययानां भमात्रे' इति टिलोपः । Tattvabodhini ------------- **साक्षाद्द्रष्टरि संज्ञायाम्** - साक्षाद्द्रष्टरि । द्रष्टर्यर्थे इनिः स्यात् । साक्षाच्छ६ब्दोऽव्ययम्, तेनप्रकृतिवदनुकरण॑मित्यतिदेशादिह सूत्रे पञ्चम्या लुक् ।उदः स्थास्तम्भोः॑,अवाच्छालम्बने॑त्यादौ तुप्रकृतिव॑दित्यतिदेशस्य वैकल्पिकत्वेनाऽभ्ययत्वाऽभावात् पञ्चम्या लुङ् न भवतीति बोध्यम् । साक्षीति ।अव्ययानां भमात्रे॑इति टिलोपः । यद्यपि साक्षाद्द्रष्टाररुआयो भवन्ति, दाता ग्रहीता उपद्रष्टा त, तथापीह संज्ञाग्रहणात्साक्षिशब्देनोपद्रष्टैवोच्यत इत्याहुः । Padamanjari ----------- साक्षाच्छब्दोऽव्ययमिति। तेन प्रकृतिवदनुकरणं भवतीति सूत्रे पञ्चम्या अलुक्, उदाहरणे च ठव्ययानां भमात्रेऽ इति टिलोप इति भावः। संज्ञाग्रहणादित्यादि। त्रिभिः साक्षाद् दृष्ट्ंअ भवति - यश्च ददाति, यस्मै च दीयते, यश्च पार्श्वे स्थितः पश्यति, तत्र सर्वत्र प्रत्ययः प्राप्नोति। संज्ञाग्रहणाद्धनिकाधमर्णयोर्न भवतीत्यर्थः ॥ Nyaas ----- `संज्ञाग्रहणम्` इत्यादि। विशिष्ट एवाभिधधेये प्रत्ययान्तस्य वृत्तिरभिधेयनियमः` (वा। 802) इति टिलोपः। `संज्ञग्रहणम्` इत्यादि। असति हि संज्ञाग्रहणे यथोग्रहणे यथोपद्रष्टा साक्षिशब्देनोच्यते, तथा दाता ग्रहीता चोच्येयाताम्, एतावपि हि द्रष्टारौ भवत एव। संज्ञाग्रहणादुपद्रष्टैवोच्यते। दातृग्रहीतृभ्यां योऽन्यो द्रष्टा समीपे स उपद्रष्टा। ननु च `स्वामीआराधिपतिदायादसाक्षि` (2.3.39) इति निपातनादेव साक्षिशब्दः साधुर्भाविष्यति, अभिधेयनियमोऽपि लौकिकत्वादस्य पदस्य लोकोक्त एव विज्ञास्यते, तदपार्थकमिदम्? नैतदस्ति; न हि तस्मिन्? निपातने साक्षिशब्दस्य नकारान्तता शक्यते व्यवसातुम्, प्रमाणाभावात्। लोके न स्वाभिधेये प्रतीयमाने प्रतिपत्तिगौरवं स्यात्। तस्मान्नकारान्तताप्रतिपत्तिगौरवपरिहारार्थं चेदमुच्यते॥ Prakriyasarvasvam ----------------- साक्षाद् द्रष्टा साक्षी । अव्ययत्वाट्टिलोपः ॥ Sutra Prayogas -------------- * **साक्षी** (कुमारसम्भवम्): `साक्षाद्द्रष्टरि संज्ञायाम्` इति इनिप्रत्ययः। * **साक्षिणीं** (शिशुपालवधम्): `साक्षाद्द्रष्टरि संज्ञायाम्` इति साक्षाच्छब्दादिनिप्रत्ययः।