52087: सपूर्वाच्च ================= **Padacheda:** सपूर्वात् | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **यस्मिन् शब्दे 'पूर्व' शब्दः कस्यचन समस्तपदस्य उत्तरपदरूपेण आगच्छति, तस्मात् प्रथमासमर्थात् 'अनेन' अस्मिन् अर्थे इनि-प्रत्ययः भवति ।** **पूर्वादिनिः** (5.2.86) इत्यनेन सूत्रेण 'पूर्व'शब्दात् 'अनेन' इत्यस्मिन् अर्थे 'इनि' प्रत्ययः विधीयते । अयमेव 'पूर्व'शब्दः यदि कस्यचन समस्तपदस्य उत्तरपदरूपेण विद्यते तर्हि तस्मात् शब्दात् 'अनेन' इत्यस्मिन्नेव अर्थे वर्तमानसूत्रेण इनि-प्रत्ययः भवति । यथा - 1. अनेन कृतम् पूर्वम् सः कृतपूर्वी । अत्र 'कृतम् पूर्वम्' इत्यस्य समस्तपदं कृत्वा तस्मात् 'इनि' प्रत्ययः विधीयते, येन 'कृतपूर्विन्' इति शब्दः सिद्ध्यति । अनेन शब्देन कर्तुः निर्देशः भवति । यथा - देवदत्तः कृतपूर्वी कटम् । (Devadatta is the one who created the mat earlier) 2. भुक्तम् अनेन पूर्वम् सः भुक्तपूर्वी । यथा - यज्ञदत्तः भुक्तपूर्वी ओदनम् । Yajnadatta is the one who ate the rice earlier - इत्याशयः । विशेषः - 1. 'देवदत्तः कटम् कृतपूर्वी' इति वाक्यम् वस्तुतः साधु नास्ति । 'देवदत्तः कटस्य कृतपूर्वी' इत्येव वाक्यम् वस्तुतः साधु, यतः अत्र **कर्तृकर्मणोः कृति** (2.3.65) इत्यनेन षष्ठी एव विधीयते । परन्तु व्याख्यानेषु 'देवदत्तः कटम् कृतपूर्वी' इत्येव वाक्यम् पाठ्यते, अतः अस्य वाक्यस्य साधुत्वम् ज्ञेयम् । अस्यैव स्पष्टीकरणार्थम् न्यासकारः वदति - *नैष दोषः; नेयं कर्मणि निष्ठा, किं तर्हि? भावे । ... तस्माद्विशेषकर्मणोऽनभिहितत्वाद्द्वितीया भविष्यति* । सामान्यभाषायामस्य अर्थः अयम् - 'कटम्' इति शब्दः अत्र 'कृतम्' इत्यस्य कर्मपदरूपेण न स्वीकर्तव्यः, यतः तादृशं क्रियते चेत् षष्ठीविभक्तिः एव इष्यते । अतः अत्र 'कृतम्' इति भावेप्रयोगं स्वीकृत्य तस्य 'पूर्वम्' इत्यनेन सह समस्तपदम् कृत्वा वर्तमानसूत्रेण 'इनि' इत्यस्य तद्धितप्रत्ययस्य योजनं कृत्वा 'कृतपूर्विन्' इति प्रातिपदिकस्य निर्माणम् प्रारम्भे कर्तव्यम्, ततः च 'किम् कृतपूर्वी ? कटम् कृतपूर्वी' इति अन्वयम् दत्त्वा 'कटम्' इति कर्मपदरूपेण ग्रहीतव्यम् , येन अस्य वाक्यस्य साधुत्वं सिद्ध्यति । अस्मिन् विषये जिज्ञासवः न्यासमेव पश्यन्तु । 2. वस्तुतः **पूर्वादिनिः** (5.2.86) इत्यनेन पूर्वसूत्रेण केवलात् 'पूर्व' शब्दात् प्रत्ययविधानम् कृतमेव अस्ति । तथापि पाणिनिः वर्तमानसूत्रस्य भिन्नरूपेण निर्माणम् कृत्वा 'पूर्वान्त'शब्दस्य विषये अस्य प्रत्ययस्य पुनः विधानम् करोति । अयम् विधानमस्यैव ज्ञापकम्, यत् पाणिनिः प्रातिपदिकग्रहणे तदन्तविधिं न गृह्णाति । अतः एतमेव सन्दर्भम् स्वीकृत्य नागेशः परिभाषेन्दुशेखरे **ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति** (परिभाषा 31) इति परिभाषाम् पाठयति । प्रातिपदिकस्य निर्देशं कृत्वा यत्र प्रत्ययविधानम् क्रियते, तत्र सः प्रत्ययः तदन्तात् न इष्यते - इति अस्याः परिभाषायाः आशयः । 3. वस्तुतः **सपूर्वाच्च** (5.2.87) इत्यस्य स्थाने 'पूर्वान्तात् इनिः' इति एकमेव सूत्रम् क्रियते चेत् व्यपदेशिवद्भावस्य आधारेण केवलम् पूर्व-शब्दात् अपि प्रत्ययविधानम् भवितुमर्हति । ( The word पूर्व indeed ends in पूर्व, and hence this word is technically 'पूर्वान्त' - The पूर्वपद being empty - इति आशयः) । अस्याम् स्थितौ वस्तुतः **पूर्वादिनिः** (5.2.86) इत्यस्य पूर्वसूत्रस्य आवश्यकता नास्ति, यतः तस्यापि अर्थः 'पूर्वात् सपूर्वात् इनिः' इत्यनेन निर्दिश्यते । तथापि आचार्यः पूर्वसूत्रस्य पृथक् रूपेण निर्देशं करोति । अयम् निर्देशः अस्यैव ज्ञापकम् यत् प्रातिपदिकग्रहणे व्यपदेशिवद्भावः न स्वीक्रियते । अस्मिन्नेव सन्दर्भे नागेशः परिभाषेन्दुशेखरे **व्यपदेशिवद्भावः अप्रातिपदिकेन** (परिभाषा 32) इमाम् परिभाषाम् पाठयति । प्रातिपदिकस्य निर्देशं कृत्वा यत्र प्रत्ययविधानम् क्रियते, तत्र व्यपदेशिवद्भावः न स्वीकर्तव्यः - इति अस्याः परिभाषायाः आशयः । 4. अस्मिन् सूत्रे 'सपूर्वात्' इति शब्दः प्रयुज्यते, तथा च 'पूर्वात्' इति शब्दः अनुवृत्तिरूपेण स्वीक्रियते । एतयोः द्वयोः शब्दयोः अर्थौ भिन्न स्तः । 'सपूर्वात्' इत्यत्र प्रयुक्तः 'पूर्व' शब्दः 'पूर्वपदेन सह' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति । 'पूर्वात्' इत्यत्र प्रयुक्तः 'पूर्व'शब्दः तु 'पूर्वकालः' अस्मिन् अर्थे प्रयुक्तः अस्ति । Vasu English Summary -------------------- The affix इनि (इन्) comes in the sense of 'by whom something is done' after the word पूर्व, also when another word precedes it. Vasu English Translation ------------------------ The affix इनि (इन्) comes in the sense of 'by whom something is done' after the word पूर्व, also when another word precedes it. Thus कृतपूर्वी कटम् = पूर्वं कृतमनेन 'who formerly made'. भुक्तपूर्वी ओदनम् ॥ In these words, first कृत and पूर्व are compounded by (2.1.4); and then the affix is added. These two *sutras* (5.2.86), (5.2.87), give rise to these two maxims ग्रहनवता प्रातिपदिकेन तदन्तविधिर्नास्ति "that which cannot possibly be anything but a *Pratipadika* or Nominal-stem, does, (contrary to (l. 1.72)) not denote that which ends with it, but it denotes only itself." व्यपदेशिवद्भावोऽप्रातिपदिकेन "The rule of *vyapadesivad*-*bhava* does not apply to a *pratipadika*". That rule is embodied in the following *paribhasha*- व्यपदेशिवदेकस्मिन् -- "an operation which affects some thing on account of some special designation, which for certain reasons attaches to the latter, affects likewise that which stands alone and to which therefore, just because the reasons for it do not exist, that special designation does not attach". Kashika ------- विद्यमानं पूर्वं यस्मादिति सपूर्वं प्रातिपदिकम् । तस्य पूर्वशब्देन तदन्तविधिः। सपूर्वात् प्रातिपदिकात् पूर्वशब्दान्तादनेनेत्यस्मिन्नर्थ इनिः प्रत्ययो भवति। पूर्वं कृतमनेन कृतपूर्वी कटम्। भुक्तपूर्वी ओदनम्। सुप्सुपेति समासं कृत्वा तद्धित उत्पाद्यते। योगद्वयेन चानेन पूर्वादिनिः सपूर्वाच्चेति परिभाषाद्वयं ज्ञाप्यते — **व्यपदेशिवद्भावोऽप्रातिपदिकेन**, **ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति** इति॥ Siddhanta Kaumudi ----------------- कृतपूर्वी ॥ Laghu Siddhanta Kaumudi ----------------------- कृतपूर्वी॥ Balamanorama ------------ **सपूर्वाच्च** - सपूर्वाच्च । विद्यमानपूर्वादपि पूर्वशब्दादुक्तविषये इनिः स्यादित्यर्थः । पूर्वान्तादिति यावत् । प्रातपदिकविशेषणत्वेऽपि प्रत्ययविधौ तदन्तविधिप्रतिषेधादप्राप्ते सूत्रमिदम् । कृतपूर्वी कटमिति । अत्र यद्वक्तव्यं तत्कर्तृकर्मणोः कृतीत्यत्रोक्तम् । Tattvabodhini ------------- **सपूर्वाच्च** - सपूर्वाच्च ।अनेने॑ति, पूर्वसूत्रं चानुवर्तते । विद्यमानपूर्वकात्पूर्वशब्दादनेनेत्यस्मिन्नर्थे इनिः स्यात् ।पूर्वान्ताच्चे॑त्येतत्फलितम् । कृतपूर्वबीति । कृतपूर्वशब्दयोःसुप्सुपा॑इति समासः । इह प्रातिपदिकाधिकारात्पूर्वादिनि॑रित्यनेनैव पूर्वशब्दान्तप्रातिपदिकात्कृतपूर्वशब्दादिनौ सिद्धेसपूर्वाच्चे॑त्येतत्ग्रहणवता प्रातिपदिकेन तदन्ततविधिर्ने॑ति परिभाषां ज्ञापयति ।कृतपूर्वी॑त्येतत्सिद्धयेपूर्वान्ताच्चे॑ति स्वीकृते तेनैव व्यपदेशिवद्भावेन पूर्वीत्यपि रूपे सिद्धेपूर्वादिनिः॑इत्येतत्व्यपदेशिवद्भावोऽप्रातिपदिकेने॑ति परिभाषां ज्ञापयति । Padamanjari ----------- विद्यमानं पूर्वमस्मिन्निति सपूर्वमिति।'तेन सहेति तुल्ययोगे' इत्युपाधिवचनस्य प्रायिकत्वाद्विद्यमानवचनस्यापि समासः। पूर्वशब्दोऽवयववचनः। न च शब्दान्तरं पूर्वशब्दस्यावयव उपपद्यते। पकारस्त्वव्यभिचारी, तेन प्रातिपदिकस्यैतद्विशेषणम् - सपूर्वं यत्प्रातिपदिकमिति। एवं च पूर्वशब्दोऽपि तस्यैव विशेषणम्, विशेषणेन च तदन्तविधिरित्याह - तस्य पूर्वशब्देन तदन्तविथधिरिति। सपूर्वादित्यादि। यद्यपि पूर्वशब्दान्तं प्रातिपदिकं सपूर्वमेव, तथापि असति सपूर्वग्रहणे तदन्तविधिर्न लभ्यत इति'सपूर्वात्' इत्युक्तम्। कृतकर्मणोः कृतिऽ इत्यत्रायं प्रयोग उपपादितः। योगद्वयेनेत्यादि। यदि'व्यपदेशिवद्भावो' प्रातिपदिकेनऽ इत्येषा परिभाषा न स्यात्'पूर्वादिनिः सपूर्वात्' इत्येकमेव योगं कुर्यात्, व्यपदेशिवद्भावात्केवलादपि भविष्यति, किं योगद्वयकरणेन! अत्र चकारः कर्तव्यो न भवति। यदि च'ग्रहणवता प्रातिपदिकेन' इत्येषा परिभाषा न स्यात्,'पूर्वादिनिः' इत्येतावदेव ब्रूयात्, तदन्तविधिना सपूर्वादपि भविष्यतीति किं द्वितीयेन योगेन ! तदिह योगद्वयेन परिभाषाद्वयं ज्ञाप्यते ॥ Nyaas ----- सहशब्दो विद्यमानवचनः। अत एवाह - `विद्यमानं पूर्वम्` इति। **वोपसर्जनस्य** (6.3.82) इति सहस्य सभावः। `कृतपूर्वो कटमिति` ननु च निष्ठआ कर्मणोऽभिहितत्वाद्द्वितीयाऽतर न प्रापनोति? नैष दोषः; नेयं कर्मणि निष्ठा, किं तर्हि? भावे। यदापि कर्मणि तदापि न दोषः; निष्ठया हि सामान्यं कर्माभिहितम्, न विशेषकर्म। तस्माद्विशेषकर्मणोऽनभिहितत्वाद्द्वितीया भविष्यति। ननु च पूर्वं कृतमित्यनेकपदावयवत्वाच्च वाक्यमिदम्। वाक्यस्य चार्थवत्समुदायानां समासग्रहणं नियमार्थमिति प्रातिपदिकसंज्ञा नास्ति। तत्कथमतः प्रत्ययः? इत्याह - `सुप्सुपा` इत्यादि। `योगद्वयेन च` इत्यादि। यदि `व्यपदेशिवद्भावोऽप्रातिपदिकेन` (शाक। प। 65) इत्येषा परिभाषा न स्यात्? तदा `सपूर्वात्पूर्वादिनिः` इत्येकयोगं कुर्यात्? किं योगविभागेन! एकयोगे हि सति केवलादपि व्यपदेशिवद्भावेन प्रत्ययो भविष्यति। तदेवमेकयोगेन सिद्धे यत्? **पूर्वादिनिः** (5.2.86) इति पृथग्योगं करोति, तज्ज्ञापयति - अस्तीयं परिभाषा `व्यपदेशिवद्भावोऽप्रातिपदिकेन` (शाक। प। 65) इति। यदि वा `ग्रहणवता` (व्या। प। 89) इत्यादिका परिभाषा न स्यात्? `सपूर्वाच्च` इतीमं योगं न कुर्यात्। **पूर्वादिनिः** (5.2.86) इत्यनेनैव हि कृतपूर्वीत्यादावपि भविष्यति तदन्तविधिना। तदेयं पूर्वयोगेणैव पूर्वशब्दादपि सिद्धे प्रत्यये यत्? `सपूर्वाच्च` इतीमं योगं करोति तज्ज्ञापयति - अस्तीयं परिभाषा `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न भवति` (व्या। प। 89) इति॥ Prakriyasarvasvam ----------------- सपूर्वपदाच्च पूर्वादिभिः । भावे कर्मसामान्ये वा क्तं कृत्वा भुक्तं पूर्वमनेनेति विगृह्य सुप् सुपेति भुक्तपूर्वशब्दस्य समासे कृत इनिः । भुक्तपूर्वी खल्वयम् । अत्र कर्मविशेषस्यानभिहितत्वात् पुनस्तद्विवक्षास्ति चेत् भुक्तपूर्वी (वा० २–३–३६) सक्तूनित्याद्यपि ॥