52084: श्रोत्रियंश्छन्दोऽधीते ============================= **Padacheda:** श्रोत्रियन् | S | 1 | 1 | छन्दः | S | 2 | 1 | अधीते | T | | | Sutrartha --------- **'छन्दः अधीते' अस्मिन् अर्थे 'श्रोत्रिय' इति शब्दः विकल्पेन निपात्यते ।** 'छन्दः अधीते' (studies a certain part of vedas) अस्मिन् अर्थे 'श्रोत्रिय' इति शब्दः अनेन सूत्रेण निपात्यते । छन्दः अधीते सः श्रोत्रियः । 'श्रोत्रिय' शब्दस्य निर्माणप्रक्रिया एतादृशम् दीयते - छन्दः अधीते → श्रोत्र + घन् [छन्दस्-शब्दस्य निपातनात् 'श्रोत्र' इति आदेशः, 'घन्' इति च प्रत्ययः] → श्रोत्र + इय [नकारस्य इत्संज्ञा, लोपः । **आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति इय-आदेशः ] → श्रोत्र् + इय [**यस्येति च** (6.4.148) इति अकारलोपः] → श्रोत्रिय स्मर्तव्यम् - 'छन्दः अधीते' इत्यत्र **तदधीते तद्वेद** (4.2.59) इत्यस्मिन् अर्थे अण्-प्रत्ययं प्रयुज्य 'छान्दस' इति अपि शब्दः सिद्ध्यति । अतएव वर्तमानसूत्रे 'वा' इति ग्रहणम् कृत्वा 'श्रोत्रियः इति विकल्पेन निपात्यते' इति निर्देशः क्रियते । पक्षे 'छान्दसः' इत्यपि साधु - इति एव अत्र आशयः । विशेषः - अस्मिन् सूत्रे 'श्रोत्रियन्' इत्यत्र निर्दिष्टः नकारः इत्संज्ञकः अस्ति, येन 'श्रोत्रिय' शब्दस्य आदिस्वरः **ञ्नित्यादिर्नित्यम्** (6.1.197) इति आद्युदात्तत्वं प्राप्नोति । अतएव अत्र निर्दिष्टायां प्रक्रियायाम् 'घन्' इति नित्-प्रत्ययः गृह्यते । Vasu English Summary -------------------- The word श्रोत्रिन् is irregularly formed meaning 'who has studied the छन्दस् (Vedas)'. Vasu English Translation ------------------------ The word श्रोत्रिन् is irregularly formed meaning 'who has studied the छन्दस् (Vedas)'. The न् in श्रोत्रियन् is for the sake of accent. As श्रो꣡त्रियो ब्राह्मणः "a *Brahmana* learned in the Vedas". The word श्रोत्रिय is either a condensed expression for the full sentence छन्दोऽधीते, referring to no particular base or affix. Or the word छन्दस् is replaced by श्रोत्र, and then is added the affix घन् ॥ But how do you form then छान्दसः, in the sense of छन्दोऽधीते, by adding the affix or अण् by (4.2.59) ? The present *sutra* is optional, the word वा of (5.2.77) being understood here: so that we have the form श्रोत्रियः also. Some say that श्रोत्रिय applies only to that person who has not only studied the Vedas but who acts upon its purport also, while छान्दस applies to a student in general, so one *sutra* does not debar the other, as they apply to different objects. Bhashya ------- श्रोत्रियंश्छन्दोऽधीते (2102) (घप्रत्ययनिपातनाधिकरणम्) (वार्तिकावतरणभाष्यम्) किं निपात्यते? (5752 सूत्रार्थोपोद्बलकवार्तिकम्॥ 1 ॥) - श्रोत्रियंश्छन्दोऽधीत इति वाक्यार्थे पदवचनम् - (भाष्यम्) छन्दोऽधीत इत्यस्य वाक्यस्यार्थे श्रोत्रियन् इत्येतत्पदं निपात्यते॥ (5753 प्रकारान्तरवर्णनवार्तिकम्॥ 2 ॥।) - छन्दसो वा श्रोत्रभावः, तदधीत इति घंश्च - (भाष्यम्) छन्दसो वा श्रोत्रभावो निपात्यते, तदधीते इत्यस्मिन्नर्थे घंश्च प्रत्ययः। छन्दोऽधीते - श्रोत्रियः॥ Kashika ------- श्रोत्रियन्निति निपात्यते छन्दोऽधीत इत्यस्मिन्नर्थे। नकारः स्वरार्थः। श्रोत्रियो ब्राह्मणः। श्रोत्रियंश्छन्दोऽधीत इति वाक्यार्थे पदवचनम्, छन्दसो वा श्रोत्रभावः, तदधीत इति घंश्च प्रत्ययः। कथं छन्दोऽधीते छान्दसः ? वाग्रहणमनुवर्तते **तावतिथं ग्रहणमिति लुग् वा** (५.२.७७) इत्यतः॥ Siddhanta Kaumudi ----------------- श्रोत्रियः । वेत्यनुवृत्तेश्छान्दसः ॥ Laghu Siddhanta Kaumudi ----------------------- श्रोत्रियः। वेत्यनुवृत्तेश्छान्दसः॥ Balamanorama ------------ **श्रोत्रियंश्छन्दोऽधीते** - श्रोत्रियंश्छन्दोऽधीते । द्वितीयान्ताच्छन्दश्शब्दादधीते इत्यर्थे घन्, प्रकृतेः श्रोत्रादेशश्च निपात्यते । अध्येत्रणोऽपवादः । वेत्यवृत्तेरिति ।तावतिथ॑मिति सूत्रान्मण्डूकप्लुत्ये॑ति शेषः । ततश्च घनभावे अद्येत्रणिति भावः । वाग्रहणाननुवृत्तौ तु घना अध्येत्रणो बाधः स्यादिति बोध्यम् । Tattvabodhini ------------- **श्रोत्रियंश्छन्दोऽधीते** - श्रोत्रियन् । यश्छन्दोऽधीते सः श्रोत्रियो भवति । अत्र भाष्येछन्दोऽधीते इत्यस्य वाक्यस्यार्थे श्रोत्रियन्नित्येतत्पदं निपात्यते॑इति वाक्यार्थे पदवचनपक्षः ।छन्दसो वा श्रोत्रभावो निपात्यते, तदधीत इत्येतस्मिन्नर्थे, घश्च प्रत्ययः॑इति पक्षान्तरं च स्थितम् । व्याख्यातं च कैयटेनवाक्यार्थस्य =संबन्धरूपस्य क्रियारूपस्य वाऽसत्त्वरूपत्वात्,श्रोत्रियशब्दस्य च सत्त्वरूपार्थाभिधायित्वाद्वाक्यार्थग्रहणेन तदाश्रयश्छन्दोऽध्ययी अभिधीयत इति ।एकां शाखामधीत्य श्रोत्रियो भवती॑ति धर्मशास्त्रम् । वेत्यनुवृत्तेरिति ।तावतिथं ग्रहणमिति लुग्वे॑त्यतः । Padamanjari ----------- वाक्यार्थ इति। वाक्यार्थग्रहणेन तदाश्रयश्च्छन्दोऽद्यायी पुरुष उपचारादुच्यते, कुतः ? मुख्यो हि वाक्यार्थः क्रियारूपः, सम्बन्धरूपो वा, स चासत्वभूतः। श्रोत्रियशब्दस्तु सत्वभूतार्थाभिधायी, तस्मिन्वाक्यार्थेऽविद्यमानप्रकृतिप्रत्ययविभागः श्रोत्रियशब्दो निपात्यत इत्यर्थः। अथ कथमस्मिनपक्षे स्वरसिद्धिः, यावता नकार इद्यस्य तत्र परतः स्वरो विधीयते, न चात्रैवं व्यपवर्गोऽस्ति ? मा भूद्वयपवर्गे, नित्करणसामर्थ्यातदभावेऽपि भविष्यति। यद्वा, नितीति कर्मधारयोऽयम् - नश्चासाविच्च नित्, तत्र परत इति। कथमित्यादि। च्छन्दसः श्रोत्रभावो घन् च प्रत्ययः, छान्दस इति न सिद्ध्यति; घनाऽणो बाधितत्वात्, श्रोत्रभावेन च च्छन्दःशब्दस्य निवर्तितत्वादिति प्रश्नः। वाग्रहणमनुवर्तत इति। अपर आह - यश्च्छन्दोऽधीते तदर्थं चानुतिष्ठति तत्र श्रोत्रियशब्दः, अध्येतृमात्रे तु छान्दशब्द इत्यर्थभेदान्नास्ति बाध्यबाधकत्वमिति। ठेकां शाखामधीत्य श्रोत्रियो भवतिऽ इति धर्मसास्त्रम् ॥ Nyaas ----- `नकारः स्वरार्थः` इति। ननु च नकार इद् यस्य तर्स्मिन्निति परतः स्वर उच्यते, न च समुदायानुबन्धे नकारे नित्परत्वमस्ति? नैष दोषः; न एवेत् नित्, तत्पुरुषोऽयम्। तेन नकार इत्संज्ञे परतः पूर्वस्य स्वरो भविष्यति। किं पुनरत्र निपात्यते? इत्याह - `छन्दोऽधीते` इति। अस्य वाक्यस्यार्थे श्रोतिंरयन्निति निपात्यते। `छन्दसो वा` इत्यादि। पूर्वत्र वाक्यार्थे पदमविद्यमानप्रकृतिप्रत्ययविभागं निपातितम्; इदानीं तु प्रकृतिप्रत्ययौ निपात्येते तदवीत इत्यस्मिन्नर्थे। अत्र यद्यपि निदित बहुव्रीहिः, तथापि स्वरः सिध्यत्येव; घन्प्रत्ययस्य नितः परस्य विद्यमानत्वात्।`कथम्` इत्यादि। यदि च्छब्दःशब्दस्य श्रोत्रशब्द आदेशो घंश्च प्रत्ययः `तदधीते` इत्यस्मिन्नर्थे निपात्यते, निपातनेन बाधितत्वादत्रार्थे च्छान्दस इति न सिष्यतीत्यभिप्रायः॥ Prakriyasarvasvam ----------------- छन्दोऽध्येतरि श्रोत्रियन्निति निपात्यते । नित्वं स्वरार्थम् । श्रोत्रियः । तदधीत इत्यणि छान्दस इत्यपीष्टम् ॥ Sutra Prayogas -------------- * **श्रोत्रियसात्** (रघुवंशम्): `श्रोत्रियंश्छन्दोऽधीते` इति निपातः।