52069: अंशं हारी ================ **Padacheda:** अंशम् | S | 2 | 1 | हारी | S | 1 | 1 | Sutrartha --------- **द्वितीयासमर्थात् 'अंश' (= भागः) शब्दात् 'हारी' (हरणं करोति) अस्मिन् अर्थे 'कन्' प्रत्ययः भवति ।** 'अंश' इत्युक्ते भागः (portion / part) । यः कोऽपि अंशस्य हरणं करोति (Takes away a part of something) तस्य निर्देशार्थम् द्वितीयासमर्थात् 'अंश' शब्दात् कन्-प्रत्ययः भवति । अंशं हारी सः अंशकः दायादः (बान्धवः) । पूर्वजैः प्राप्तात् धनात् अंशं हरति सः - इत्याशयः । A relative who (probably legally) takes away a part of estate obtained from forefathers - इति आशयः । ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रयुक्तः 'हारी' शब्दः 'हारिन्' इत्यस्य प्रथमैकवचनमस्ति । 'हरणम् करोति' अस्मिन् अर्थे 'हृ' धातोः **आवश्यकाधमर्ण्ययोर्णिनिः** (3.3.170) इत्यनेन 'णिनि' प्रत्ययं कृत्वा अयं शब्दः सिद्ध्यति । 'अंशं हारी' इत्यत्र **अकेनोर्भविष्यदाधमर्ण्ययोः** (2.3.70) इत्यनेन षष्ठ्याः निषेधः भवति, अतः **कर्मणि द्वितीया** (2.3.2) इत्यनेन द्वितीया विधीयते । 2. यद्यपि 'हारी' इति 'हृ' धातोः रूपमस्ति, तथाप्यत्र 'चौरकर्म' इति अर्थः न विद्यते । यः मनुष्यः पूर्वजैः प्राप्तस्य धनस्य अंशः नियमरूपेण (legally) गृह्णाति, तस्य निर्देशार्थमपि अस्य सूत्रस्य प्रयोगः भवति । Vasu English Summary -------------------- The affix कन् comes in the sense of 'who must take that' after the word अंश 'a share' being in the Accusative -2nd case in construction. Vasu English Translation ------------------------ The affix कन् comes in the sense of 'who must take that' after the word अंश 'a share' being in the Accusative -2nd case in construction. The word अंश is used in the accusative in the aphorism, showing that the construction must be accusative. The word हारिन् nom. हारी is formed by adding णिनि to the root हृ, the force of the affix being that of "must, or necessity". See (3.3.170). The word हारिन् will govern accusative and not genitive (2.3.70). Thus अंश हारी = अंशकः 'an heir', i. e. who is entitled to take a share at partition i.e. a दायादः । अंशकः पुत्रः ॥ Kashika ------- अंशशब्दाद् निर्देशादेव द्वितीयासमर्थाद् हारीत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। अंशं हारी अंशको दायादः। अंशकः पुत्रः। हारीत्यावश्यके णिनिः (३.३.१७०)। तत्र षष्ठीप्रतिषेधात् कर्मणि द्वितीयैव भवति॥ Siddhanta Kaumudi ----------------- हारीत्यावश्यके णिनिः । अत एव तद्योगे षष्ठी न । अंशको दायादः ॥ Balamanorama ------------ **अंशं हारी** - अंशं हारी । द्वितीयान्तादंशशब्दाद्धरीत्यर्थे कन्स्यादित्यर्थः । ननु कृद्योगषष्ठीप्रसङ्गादंशमिति कथं द्वितीयेत्यत आह — आवश्यके णिनिरिति ।आवश्यकाधमण्र्ययो॑रित्यनेने॑ति शेषः । षष्ठी नेति ।अकनो॑रिति तन्निषेधादिति भावः । Padamanjari ----------- तत्र षष्ठीप्रतिषेधादिति। ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इत्यनेन। ननु तत्र भविष्यदधिकारविहितस्याकस्य ग्रहणम् ? सत्यम्; इनस्त्वविशेषण ग्रहणम्, अस्मादेव द्वितीयानिर्द्देशात् ॥ Nyaas ----- `कर्मणि द्वितीयैव भवति` इति। कर्मणि द्वितीयायां प्राप्तायां कृद्योगलक्षणा तदपवादा षष्ठआरभ्यते। तस्याश्चावश्यके णिनिप्रत्यये `अकेनोर्भविष्यदाधमण्र्ययोः` (2.3.70) इति प्रतिषेधः। तेन निरपवादाद्द्वितीयैव भवति॥ Prakriyasarvasvam ----------------- अंशात् तं हारीत्यर्थे कन् । अवश्यं हर्ता हारी । अंशकोऽयं पुत्रः ।।