52064: आकर्षादिभ्यः कन् ======================= **Padacheda:** आकर्षादिभ्यः | S | 5 | 1 | कन् | S | 1 | 1 | Sutrartha --------- **आकर्षादिगणस्य शब्देभ्यः सप्तमीसमर्थेभ्यः 'कुशलः' अस्मिन् अर्थे कन्-प्रत्ययः भवति ।** 'कुशलः' (प्रवीणः) अस्मिन् अर्थे आकर्षादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः 'कन्' इति प्रत्ययः विधीयते । आकर्षादिगणः अयम् - आकर्ष, त्सरु, पिप्पसा, पिचण्ड, अशनि, अश्मन्, विचय, चय, जय, आचय, अय, नय, निपाद, गद्गद, दीप, हृद, ह्याद, ह्लाद, शकुनि । यथा - 1. आकर्षे कुशलः आकर्षकः । 'आकर्ष' इति द्यूतम् । द्यूतक्रीडायाम् यः प्रवीणः अस्ति तस्य निर्देशः 'आकर्षक' इत्यनेन भवति । 'सुवर्णस्य परिक्षायाम् प्रयुज्यमानः कश्चन धातुः' इति अपि 'आकर्ष' शब्दस्य अन्यः अर्थः अस्ति, अतः सुवर्णपरीक्षायाम् यः प्रवीणः, तस्यापि निर्देशः 'आकर्षक' इत्यनेन क्रियते । 2. त्सरौ कुशलः त्सरुकः । 'त्सरु' इत्युक्ते खड्गमुष्टिः । हस्ते खड्गमुष्टिम् यः कुशलतया धारयति, सः त्सरुकः । ज्ञातव्यम् - स्त्रीत्वे विवक्षिते 'कन्' प्रत्ययान्तशब्दाः **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्ययं स्वीकुर्वन्ति; तथा च प्रक्रियायाम् **प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः** (7.3.44) इत्यनेन ककारात् पूर्वम् इकारादेशः अपि क्रियते । यथा - आकर्षे कुशला आकर्षिका । विशेषः - अस्य सूत्रस्य 'आकषादिभ्यः कन्' इति अपि कश्चन पाठः दृश्यते । 'आकष' शब्दस्य अर्थः अपि 'सुवर्णस्य परिक्षायाम् प्रयुज्यमानः कश्चन धातुः' इत्येव अस्ति । अस्मात् शब्दात् कन्-प्रत्ययं कृत्वा 'आकषक' इति शब्दः सिद्ध्यति । सुवर्णपरीक्षायाम् यः प्रवीणः सः आकषकः। Vasu English Summary -------------------- The affix कन् comes in the sense of 'versed therein or skilled therein' after the प्रातिपदिक (Nominal Stem) आकर्ष etc. being in the Locative -7th case in construction. Vasu English Translation ------------------------ The affix कन् comes in the sense of 'versed therein or skilled therein' after the प्रातिपदिक (Nominal Stem) आकर्ष etc. being in the Locative -7th case in construction. Thus आकर्षे कुशलः = आकर्षकः, त्सरुकः. Another reading has आकष (Bohtlingk). 1 आकर्ष (आकष), 2, त्सरु, 3 पिशाच (पिपासा), 4 पिचण्ड, 5 अशनि, 6 अश्मन्, 7 निचय (विचय), 8 चय, 9 विजय, 10 जय, 11 आचय, 12 नय, 13 पाद (निपाद),14 दीप, 15 ह्रद, 16 ह्राद, 17 ह्लाद, 18 गद्गद, 19 शकुनि, 20 अव ॥ Kashika ------- तत्रेत्येव, कुशल इति च। आकर्षादिभ्यः प्रातिपदिकेभ्यः सप्तमीसमर्थेभ्यः कुशल इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। आकर्षे कुशल आकर्षकः। त्सरुकः॥ आकर्ष। त्सरु। पिपासा। पिचण्ड। अशनि। अश्मन्। विचय। चय। जय। आचय। अय। नय। निपाद। गद्गद। दीप। ह्रद। ह्राद। ह्लाद। शकुनि। आकर्षादिः॥ Siddhanta Kaumudi ----------------- आकर्षे कुशल आकर्षकः । आकषादिभ्य इति रेफरहितो मुख्यः पाठः । आकषो निकषोपलः ॥ Balamanorama ------------ **आकर्षादिभ्यः कन्** - आकर्षादिभ्यः कन् । आकर्षक इति । यद्यपि वुनैवाऽनुवृत्तेनेदं सिध्यति तथापि शकुनिक॑ इत्यद्यर्थं कन्ग्रहणम् । Tattvabodhini ------------- **आकर्षादिभ्यः कन्** - आकर्षादिभ्यः कन् । वुना सिद्धे कन्ग्रहणं इदुदन्तार्थम् । शकुनिकः । अशनिकः । त्सरुकः । मुख्यः पाठ इति । आकषन्त्यस्मिन् सुवर्णादिकमित्याकषः ।पुंसि संज्ञायां घः॑इति व्याख्याय, ये तुआकर्षादिभ्यः॑ इति सरेफं पठन्ति, तेषाम्आकर्ष॑इति घञि रूपम् — — इति हरदत्तेनोक्तत्वादिति भावः । Padamanjari ----------- कन् ॥ आकषत्यस्मिन्सुवर्णादिकमित्याकषः,'पुंसि संज्ञायाम्' इति घः।'हलश्च' इति घञ् तु न भवति; प्रायग्रहणानुवृतेः, यथा निकष इति। ये तु आकर्षादभ्य इति सरेफं पठन्ति, तेषामाकृष्यतेऽस्मिन्निति घञि रूपम्। त्सरुक इति।'त्सकर च्छद्मगतौ' ,'भृमृशृ' इत्यादिनौणादिक उप्रत्ययः। त्सरुःउखड्गग्रहणप्रदेशः। एतदर्खं प्रत्ययान्तरकरणमिवर्णान्तार्थं च। अकारान्तेष्वाकर्षादिषु प्रकृतेन वुनापि सिद्धम् ॥ Nyaas ----- आकर्षादिषु यद्वृद्धं ततश्छे प्राप्ते शेषेभ्यस्त्वणि कन्विधीयते। प्रत्ययान्तरकरणम् - यदत्रोकारान्तं तस्यात्र गुणो मा भूत्, यच्चेकारान्तं तस्य `यस्येति` (6.4.148) लोपो मा भूदित्येवमर्थम्। वुनि तु सति तदुभयं प्रसज्येत। तत पुनरिहाशिष्टं प्रसज्येत। तस्य पुनर्वनि कनि वा सति न कश्चिद्विशेष इति न तत्प्रत्ययान्तरं प्रयोजयति॥