52058: षष्ट्यादेश्चासंख्यादेः ============================= **Padacheda:** षष्टि-आदेः | S | 5 | 1 | च | S | 0 | 0 | असङ्ख्या-आदेः | S | 5 | 1 | Sutrartha --------- **असङ्ख्यादयः 'षष्टि' आदयः ये शब्दाः, तेभ्यः 'पूरणः' अस्मिन् अर्थे विहितस्य डट्-प्रत्ययस्य नित्यम् 'तमट्' आगमः भवति ।** **तस्य पूरणे डट्** (5.2.48) अनेन सूत्रेण सर्वेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः 'पूरणम्' अस्मिन् अर्थे औत्सर्गिकरूपेण 'डट्' इति प्रत्ययः भवति । 'विंशति' तथा तस्मात् अग्रे ये शब्दाः विद्यन्ते, तेभ्यः विहितस्य अस्य डट्-प्रत्ययस्य **विंशत्यादिभ्यस्तमडन्यतरस्याम्** (5.2.56) इत्यनेन 'तमट्' इति विकल्पेन आगमः अपि भवति । परन्तु 'षष्टि', 'सप्तति', अशीति', तथा 'नवति' एतेभ्यः शब्देभ्यः विहितस्य डट्-प्रत्ययस्य वर्तमानसूत्रेण नित्यम् तमट्-आगमः विधीयते । यथा - 1. षष्टेः पूरणम् षष्टितमः । 2. सप्ततेः पूरणः सप्ततितमः । 3. अशीतेः पूरणः अशीतितमः । 4. नवतेः पूरणः नवतीतमः । ज्ञातव्यम् - 1. अस्य सूत्रस्य प्रसक्तिः 'असङ्ख्यादेः' विषये एव अस्ति । अतः एकषष्टि, द्विषष्टि, एकसप्तति - एतेषां विषये वर्तमानसूत्रम् न प्रयुज्यते, अतः तेभ्यः विहितस्य डट्-प्रत्ययस्य विकल्पेनैव तमट्-आगमः भवति । यथा - एकषष्टः / एकषष्टितमः , एकसप्ततः / एकसप्ततितमः - आदयः । 2. 'शत' इत्यस्मात् अग्रे विद्यमानाः ये शब्दाः तेभ्यः विहितस्य डट्-प्रत्ययस्य तु **नित्यं शतादिमासार्धमाससंवत्सराच्च** (5.2.57) इत्यनेन नित्यमेव 'तमट्' आगमः भवति । अतः वर्तमानसूत्रस्य प्रसक्तिः केवलम् 'षष्टि', 'सप्तति', अशीति', तथा 'नवति' एतेषां विषये एव वर्तते । Vasu English Summary -------------------- After the words षष्ठी etc. when no other Numeral precedes them; तमट् is always the augment of डट्। Vasu English Translation ------------------------ After the words षष्ठी etc. when no other Numeral precedes them; तमट् is always the augment of डट्। By *sutra* (5.2.56), the augment was optional, this makes it compulsary. Thus षष्टितमः, सप्ततितमः ॥ Why do we say "when not preceded by a Numeral"? Observe, एकषष्टः एकषष्टितमः, एकसप्तमः or एकसप्ततितमः ॥ Here (5.2.56), applies also. Bhashya ------- षष्टदेश्चासंख्यादेः (2076) (पदकृत्यभाष्यम्) असंख्यादेरिति किमर्थम्? इह मा भूत् - एकषष्टः, द्विषष्टः॥ (असङ्ख्यादिपदस्य वैर्यथ्यबोधकभाष्यम्) असंख्यादेरिति शक्यमवक्तुम्। कस्मान्न भवति - एकषष्टः, द्विषष्ट इति? षष्टिशब्दात्प्रत्ययो विधीयते, कः प्रसङ्गो यदेकषष्टिशब्दात्स्यात्। नैव प्राप्नोति नार्थः प्रतिषेधेन। तदन्तविधिना प्राप्नोति। ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते॥ (असङ्ख्यादिपदस्य ज्ञापकत्वबोधकभाष्यम्) एवं तर्हि ज्ञापयत्याचार्यः - भवतीह तदन्तविधिरिति। किमेतस्य ज्ञापने प्रयोजनम्? एकविंशतितमः-एतत्सिद्धं भवति॥ Kashika ------- षष्ट्यादेः संख्याशब्दादसंख्यादेः परस्य डटो नित्यं तमडागमो भवति। **विंशत्यादिभ्यः०** (५.२.५६) इति विकल्पेन प्राप्ते नित्यार्थम्। षष्टितमः। सप्ततितमः। असंख्यादेरिति किम्? एकषष्टः, एकषष्टितमः। एकसप्ततः, एकसप्ततितमः॥ Siddhanta Kaumudi ----------------- षष्टितमः । संख्यादेस्तु विंशत्यादिभ्य - (SK1856) इति विकल्प एव । एकषष्टः । एकषष्टितमः ॥ Balamanorama ------------ **षष्ट्यादेश्चासंख्याऽऽदेः** - षष्ठआदेश्चासह्ख्यादेः । सङ्ख्यापूर्वपदात्पष्टआदेः परस्य डटो नित्यं तमडागमः स्यादित्यर्थः । विंशत्यादिभ्यः॑ इति विकल्पस्याऽपवादः । एकषष्टः एकषष्टितम इति । सङ्ख्यादित्वान्नित्यस तमटोऽभावे 'विंशत्यादिभ्यः' इति डटस्तमड्विकल्पः । तमडभावे डटियस्येति चे॑ति इकारलोपे 'एकषष्ट' इति रूपम् । ननु केवलसात्षष्टआदेर्विहितस्य नित्यतमटः सह्ख्यादेः कथं प्रसक्तिः, तमडागमविधेरप्रत्ययविधित्वेऽपिग्रहणवता प्रातिपदिकेन तदन्तविधिं ज्ञापयति । तेन 'विंशत्यादिभ्यः' इति पूर्वसूत्रमेकविंशतितम इत्यादावपि प्रवर्तत इति भाष्ये स्पष्टम् । एवंच 'एकान्नविंशतितमः' इत्यपि सिद्धम् । Tattvabodhini ------------- **षष्ट्यादेश्चासंख्याऽऽदेः** - षष्टदेश्चेति ।विशत्यादिभ्यः॑इति विकल्पे प्राप्ते नित्यार्थोऽमारम्भः । सङ्ख्यादेस्त्विति । एतच्च प्राक्शताब्दोध्यम्,नित्यं शतादी॑त्युक्तत्वात् । मतौ छः । मत्वर्थ इति । मतोर्विषय इत्यर्थः । तेनत॑दिति प्रथमा समर्थविभक्तिः,अस्याऽस्मि॑न्निति प्रत्ययार्थश्चेह लभ्यते । Padamanjari ----------- संक्यादेस्तु विक्लप एवभवतीति। न ह्ययं विकल्पस्यापि प्रतिषेधः। पर्युदासो ह्ययं संख्यादेः, न विधिर्न प्रतिषेधः, यदि केनचित् प्राप्नोति भवत्येव पूर्वेण च प्राप्नोति, प्रसज्यप्रतिषेधेऽप्यनन्तरा प्राप्तिः प्रतिषिध्यते, न व्यवहिता ॥ Nyaas ----- प्राक्शतात्? षष्टआदायो विज्ञेयाः। शतादीनां स्वशब्देन तमटो विधानात्॥ Prakriyasarvasvam ----------------- असङ्ख्यापूर्वात् षष्ट्यादेः डटो नित्यं तमट् । षष्टितमः । सप्ततितमः । सङ्ख्यादेस्त्वेकषष्टः । एकषष्टितम इति विंशत्याद्युक्तो विकल्पः ॥