52056: विंशत्यादिभ्यस्तमडन्यतरस्याम् ==================================== **Padacheda:** विंशति-आदिभ्यः | S | 5 | 3 | तमट् | S | 1 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **षष्ठीसमर्थेभ्यः 'विंशतिः' आदिभ्यः शब्देभ्यः 'पूरणः' अस्मिन् अर्थे विहितस्य डट्-प्रत्ययस्य विकल्पेन 'तमट्' आगमः भवति ।** **तस्य पूरणे डट्** (5.2.48) अनेन सूत्रेण सर्वेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः 'पूरणम्' अस्मिन् अर्थे औत्सर्गिकरूपेण 'डट्' इति प्रत्ययः भवति । 'विंशति' तथा तस्मात् अग्रे ये शब्दाः विद्यन्ते, तेभ्यः विहितस्य डट्-प्रत्ययस्य वर्तमानसूत्रेण 'तमट्' इति विकल्पेन आगमः भवति । यथा - 1. विंशतेः पूरणः = विंशति + डट् [**तस्य पूरणे डट्** (5.2.48) इति डट्-प्रत्ययः] → विंशति + तमट् + डट् [**विंशत्यादिभ्यस्तमडन्यतरस्याम्** (5.2.53) इति डट्-प्रत्ययस्य विकल्पेन तमट्-आदेशः । **आद्यन्तौ टकितौ** (1.1.46) इति आद्यवयवः] → विंशति + तम् + अ [**टेः** (6.4.143) इति टिलोपः] → विंशतितम पक्षे तमट्-प्रत्ययस्य अप्राप्तौ 'विंश' इति अपि साधुरूपम् सिद्ध्यति । विंशतेः पूरणम् विंशतितमम् विंशम् वा । Twentieth इत्यर्थः । एवमेव - 2. एकविंशतेः पूरणः एकविंशतितमः एकविंशः वा । 3. द्वाविंशतेः पूरणः द्वाविंशतितमः द्वाविंशः वा । 4. त्रिंशतः पूरणः त्रिंशत्तमः त्रिंशः वा । 5. एकत्रिंशतः पूरणः एकत्रिंशत्तमः एकत्रिंशः वा । 6. एकचत्वारिंशतः पूरणः एकचत्वारिंशत्तमः एकचत्वारिंशः वा । 7. पञ्चाशतः पूरणः पञ्चाशत्तमः पञ्चाशः वा । अनेन प्रकारेण 'विंशति' इत्यस्मात् अग्रे विद्यामानानाम् सङ्ख्याशब्दानां विषये वर्तमानसूत्रेण 'डट्' प्रत्ययस्य विकल्पेन 'तमट्' आगमः भवति । स्मर्तव्यम् - 1. अस्मिन् सूत्रे विद्यमानस्य 'विंशत्यादि' शब्दस्य अर्थः 'विंशति-शब्दः यस्य आदौ विद्यते सः' इति नास्ति, अपितु 'विंशतिः इत्यस्मात् आरभ्य अग्रे विद्यमानाः सर्वाः सङ्ख्याः' इति अस्ति । All numbers greater than or equal to twenty - इति आशयः । 2. 'षष्टि', 'सप्तति', 'अशीति', 'नवति' एतेभ्यः चतुर्भ्यः शब्देभ्यः डट्-प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन 'तमट्' आगमे प्राप्ते **षष्ट्यादेः च असंख्यादेः** (5.2.58) इत्यनेन नित्यमेव तमट्-आगमः भवति । यथा - षष्टेः पूरणम् षष्टितमम् । 3. 'शत' इत्यस्मात् अग्रे विद्यमानानाम् शब्दानाम् विषये अपि **नित्यं शतादिमासार्धमाससंवत्सराच्च** (5.2.57) इत्यनेन नित्यमेव तमट्-आगमः भवति । शतस्य पूरणः शततमः । द्विशतस्य पूरणः द्विशततमः (=200th) । शतोत्तरएकस्य पूरणः शतोत्तरएकतमः (= 101th) । विशेषः - अस्मिन् सूत्र निर्दिष्टः 'विंशत्यादयः' इति शब्दः केषाम् ग्रहणम् करोति अस्मिन् विषये काशिकाकारस्य मतम् भाष्यकारात् भिद्यते । भाष्यकारस्य मतेन अत्र **पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्** (5.1.59) इत्यस्मिन् सूत्रे विद्यमानानाम् विंशति-आदीनाम् शब्दानाम् ग्रहणं भवति, न हि लौकिकानां सङ्ख्यावाचीशब्दानाम् । अस्मिन् पक्षे वस्तुतः 'एकविंशति' शब्दात् 'तमट्' आगमः नैव विधीयते, यतः ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते । परन्तु अत्र भाष्यकारः विशेषविधानं कृत्वा तदन्तविधिमपि ज्ञापयति । अस्मिन् विषये अधिकम् पिपठिषवः **षष्ट्यादेश्चासंख्याऽऽदेः** (5.2.58) अस्य सूत्रस्य भाष्यम् पश्येयुः । Vasu English Summary -------------------- After the words विंशति etc. तमट् (तम feminine in ङीप्) is optionally the augment of डट्। Vasu English Translation ------------------------ After the words विंशति etc. तमट् (तम feminine in ङीप्) is optionally the augment of डट्। This rule falling under the jurisdiction of पूरण, we must read the word डट् into this *sutra*, as the affix to which the augment तमट् is added. Thus विंशतेः पूरणः = विंशतितमः or विंशः 'twentieth'. एकविंशतितमः or एकविंशः, त्रिविंशतितमः or त्रिविंशः, त्रिंशत्तमः or त्रिंशः, एकत्रिंशत्तमः or एकत्रिंशः ॥ There is no विंशत्यादि class given in *Ganapatha*. These are ordinary words like विंशति, त्रिंशत् &c. The words विंशति, त्रिंशत् &c of (5.1.59), should not be taken as the विंशत्यादि alluded to by this *sutra*. For had it been so, we could not have formed the words like एकविंशतितमः; because the rule applying to विंशति specifically mentioned, will not apply to विंशति as the end of a compound. As this maxim declares, ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति "that which cannot possibly be anything but a *Pratipadika*, does, contrary to (1.1. 72); not denote that which ends with it, but it denotes only itself". This being the case, the word विंशति &c must be taken in their popular signification, and not as particular *pratipadikas*; and hence also becomes valid the exception given in (5.2.58), in the case of षष्टि &c when preceded by another numeral. For the very prohibition असंख्यादेः in that rule, shows, that with the exception of षष्टि &c, the present rule applies to other संख्यादि words, as, एकविंशति &c. Bohtlingk takes मट्, थट् and तमट् as separate affixes and not as augment. He says "The commentators take तमट् here and in the following *Sutras* as an Augment of डट् (5.2.48), because विंशति &c with the affix तमट् would yield विंशतित꣡म by (3.1.3), whilst otherwise it would be accented as विंशतितम꣡ ॥ According to this interpretation मट् (5.2.49) and थट् (5.2.50) are Augments, though they would yield the right form as affixes also. That *Panini* by forms मट्, थट् and मयट् so much resembling डट्, should not have meant an affix, is not probable. Moreover one does not understand well this, why he, if he intended that म, थ and तम should be taken as augments, does not, for the sake of clearness, ordain this after the stem, which could have been expressed by adding of the servile क् (i. e. मुक्, थुक् and तमुक्), as he does in the case of the augments थुक् (5.2.51), तिथुक् (5.2.52) and इथुक् (5.2.53). I also think this, that *Panini*, when he designated this affix तमट्, did not think of the accent." In the case of मट् and थट् there will be no difference whatever whether we take them as affixes or as augments. Thus पंचन् + मट् = पंच् + मट् (6.4.144) = पंचम ॥ Kashika ------- विंशत्यादिभ्यः परस्य डटस्तमडागमो भवत्यन्यतरस्याम्। पूरणाधिकाराद् डट् प्रत्यय आगमी विज्ञायते। विंशतेः पूरणो विंशतितमः, विंशः। एकविंशतितमः, एकविंशः। त्रिविंशतितमः, त्रिविंशः। त्रिंशत्तमः, त्रिंशः। एकत्रिंशत्तमः,एकत्रिंशः। विशंत्यादयो लौकिकाः संख्याशब्दा गृह्यन्ते, न पङ्क्त्यादिसूत्रसंनिविष्टाः। तद्ग्रहणे ह्येकविंशतिप्रभृतिभ्यो न स्यात्, ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्। एवं च सति **षष्ट्यादेश्चासंख्यादेः** (५.२.५८) इति पर्युदासो युज्यत एव॥ Siddhanta Kaumudi ----------------- एभ्यो डटस्तमडागमो वा स्यात् । विंशतितमः । विंशः । एकविशतितमः । एकविशः ॥ Balamanorama ------------ **विंशत्यादिभ्यस्तमडन्यतरस्याम्** - विंशत्यादिभ्यः । तमटि टकार इत् । मकारादकार उच्चारणार्थः । अत्रपङ्क्तिविंशती॑ति सूत्रानुक्रान्ता एव विंशत्यादयो गृह्यन्ते नतु लोकप्रसिद्धा एकविशत्यादयोऽपि, विप्रकर्षादिति कैयटः । एकविंशतितम॑ इत्यत्र तु तदन्तविधिना तमडित्यग्रे वक्ष्यते । Tattvabodhini ------------- **विंशत्यादिभ्यस्तमडन्यतरस्याम्** - विंशत्यादिभ्यः । इह प्रत्यासत्त्यापङ्क्ती॑त्यादिसूत्रे निपातिता विंशत्यादयो गृह्यन्ते, न लोकप्रसिद्धाः, विप्रकृष्टत्वादिति । भाष्यमतम् । वृत्तिकृता तु विंशत्यादयो लौकिका एव सङ्ख्याशब्द गृह्रन्तं, न पङ्क्त्यदिसूत्रनिर्दिष्टाः, तद्ग्रहणं ह्रेकविंशतिप्रभृतिभ्यो न स्यात्, ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात् । एवं च सतिषष्ठआदेश्चाऽसङ्ख्यादे॑रिति पर्युदासो युज्यत एवेत्युक्तम् । एकविंशतितम इति । यद्यपि भाष्यमते तदन्तविधिर्दुर्लभस्तथापिषष्टआदेशश्चे॑ति सूत्रे सङ्ख्यादिपर्युदासो ज्ञापयति -॒इह प्रकरणे तदन्तानामपि ग्रहण॑मिति । एवं च सति एकन्नविंशतेः पूरण एकान्नविंशतितम इत्यपि सिध्यति.॒लौकिकानां ग्रहण॑मिति वृत्तिमते ति नैतत्सिध्येत् । विंशतिसंख्यातः प्राग्भावित्वादस्याः संख्यायाः । एतच्च कैयटहरदत्तग्रन्थयोः स्पष्टम् । ननुअनारम्भो वा प्रतिपदिकविज्ञानाद्यथा सहरुआआदिषु॑ इति वदता कात्यायनेन पङ्क्त्यादिसूत्रस्य प्रत्याख्यातत्वात्तत्सूत्रे॑निपातिता विंशत्यादयो गृह्यन्ते॑इति भाष्यमतमयुक्तमिति चेदत्राहुः -यद्यपि प्रत्याख्यातं तथापीहार्थमावश्यकं तत् । अतएव तत्र भाष्यकृतानाऽसूया कर्तव्या यत्रानुगमः क्रियते॑इत्युक्तम् । अतः कात्यायनोक्तप्रत्याख्यानं नादर्तव्यमिति । शततम इति । यद्यपीदंषष्टआदेश्चे॑त्युत्तरसूत्रेणैव सिध्यति, तथापि संख्याद्यर्थनित्यं शतदी॑त्यावश्यकमिति ध्वनयन्नुदाहरति -एकशततम इति । मासादेरिति । संख्यावाचित्वाऽभावेऽपीति भावः । Nyaas ----- `विंशत्यादिभ्यः परस्य` इत्यादि। ननु च तीयप्रत्ययेन डड्? व्यवहितः, तत्कथं तमडागमः शक्यो विज्ञातुम्? अत आह - `पूरणाधिकारात्` इति। पूरणार्थे यो विहितसतस्य विंशत्यादिभ्यः परस्य तमङ्विधीयते, स नान्यो डटः सम्भवतीति डडेव विज्ञायते। `विंशात्यादयो लौकिकाः संख्याशब्दा गुह्रन्ते` इति। व्याप्तेन्र्यायात्। ते पुनर्विशत्येकविंशतिप्रभृतयः संगृहीता भवन्ति। किं पुनः स्याद्यदि पड्क्त्यादिसूत्रे (5.1.58) तेषामसन्निविष्टत्वात्। Prakriyasarvasvam ----------------- एभ्यः परस्य डटस्तमडागमो वा स्यात् । विंशतितमः । विंशः ॥