52047: संख्याया गुणस्य निमाने मयट् ================================== **Padacheda:** संख्यायाः | S | 5 | 1 | गुणस्य | S | 6 | 1 | निमाने | S | 7 | 1 | मयट् | S | 1 | 1 | Sutrartha --------- **कस्यचन वस्तुनः मूल्यम् कस्यचन अन्यवस्तुनः भागानाम् सङ्ख्यायाः निर्देशेन कारयितुम् प्रथमासमर्थात् सङ्ख्यावाचिशब्दात् 'अस्य मूल्यम्' इत्यस्मिन् अर्थे मयट्-प्रत्ययः भवति ।** अस्य सूत्रस्य अर्थः किञ्चित् क्लिष्टः अस्ति, अतः क्रमेण पश्यामः - 1. अस्मिन् सूत्रे 'मयट्' इति प्रत्ययः उक्तः अस्ति । अयम् प्रत्ययः संख्यावाचिभ्यः शब्देभ्यः क्रियते । यथा - पञ्चन् + मयट् → पञ्चमय । द्वि + मयट् → द्विमय । शतम् + मयट् → शतमय - आदयः । 2. यत्र कस्यचन वस्तुनः एकस्य भागस्य मूल्यम् कस्यचन अन्यवस्तुनः द्वौ वा अधिकान् भागान् यावत् अस्ति, तत्र वर्तमानसूत्रस्य प्रयोगः भवति । When the cost of one unit of an entity is to be expressed in terms of the cost of two-or-more unit of another entity, then the current sutra is used. यथा - 'यवानाम् द्वयोः भागयोः एकत्ररूपेण यत् मूल्यम्, तदेव उदश्वितः एकस्य भागस्य मूल्यमस्ति' (The cost of one unit of the buttermilk is same as the cost of two unit of barley. That is, one can give two units of barley and in return take one part of buttermilk - इत्याशयः) । अस्याम् स्थितौ 'द्वि' इत्यस्मात् सङ्ख्यवाचिशब्दात् 'मयट्' प्रत्ययं कृत्वा 'द्विमय' शब्दः सिद्ध्यति, येन 'द्विमयमुदश्वित् यवानाम्' एतत् वाक्यम् जायते । 3. 'द्विमयमुदश्वित् यवानाम्' इत्यत्र विग्रहवाक्यम् 'यवानाम् द्वौ गुणौ निमानमस्य उदश्विद्भागस्य' इति क्रियते । अत्र 'निमानम्' अयम् शब्दः 'मूल्यम्' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति ; तथा च 'गुणः' अयम् शब्दः 'भागः' अस्मिन् अर्थे प्रयुक्तः अस्ति । उदश्वितः एकस्य गुणस्य यत् निमानम्, तदेव निमानम् यवानाम् द्वयोः गुणयोः अस्ति - इति अत्र आशयः । अत्र 'गुणः' इति शब्दः 'भागः / गणः' (group /unit) इत्यस्मिन् अर्थे प्रयुक्तः अस्ति, न हि 'अंशः / अवयवः' (subcomponents) इत्यस्मिन् अर्थै । One unit of buttermilk costs same as two units of barley - इति आशयः । विशेषः - 'मेङ् प्रणिदाने' अस्मात् धातोः 'नि' उपसर्गं कृत्वा 'निमीयते (क्रीयते) अनेन तत् निमानम्' अनेन प्रकारेण ल्युट्-प्रत्ययं कृत्वा 'निमानः' शब्दः सिद्ध्यति । इदानीम् सूत्रार्थः स्पष्टः स्यात् - कस्यचन वस्तुनः ( *उदश्वितः*) मूल्यम् कस्यचन अन्यवस्तुनः ( *यवानाम्* ) भागानाम् सङ्ख्यायाः ( *द्वौ इत्यस्य* ) निर्देशेन कारयितुम् प्रथमासमर्थात् सङ्ख्यावाचिशब्दात् ( *'द्वि' शब्दात्* ) 'अस्य मूल्यम्' इत्यस्मिन् अर्थे मयट्-प्रत्ययः भवति । यवानाम् द्वौ भागौ निमानमस्य उदश्विद्भागस्य तत् द्विमयमुदश्वित् । . अस्य सूत्रस्य विषये केचन विशेषबिन्दवः ज्ञेयाः । ते एतादृशाः - 1. अत्र विग्रहवाक्ये 'उदश्वितः एकस्य भागस्य मूल्यम्' इति निर्देशः क्रियते। इत्युक्ते, अत्र 'उदश्वितः' मूल्यम् न निर्दिश्यते, अपि तु 'उदश्वितः कस्यचन भागस्य' मूल्यमत्र निर्दिश्यते । The reference is to the cost of one unit of उदश्वित्, and not the entire उदश्वित् । अस्यां स्थितौ 'द्विमयमुदश्विद्भागः' इत्येव साधु भवेत्, न हि 'द्विमयमुदश्वित्' इति - इति संशयः जायते । अस्य स्पष्टीकरणार्थं काशिकाकारः वदति - *भागेऽपि तु विधीयमानः प्रत्ययः प्राधान्येन भागवन्तमाचष्टे । तेन सामान्याधिकरण्यं भवति द्विमयमुदश्विदिति* । इत्युक्ते, अत्र 'भाग' इत्यनेन 'मूलपदार्थस्यैव निर्देशः कृतः अस्ति, न हि मूलपदार्थस्य कस्यचन अंशस्य । अतः द्वयोर्मध्ये सामान्याधिकरण्यं भवितुमर्हति, येन 'उदश्वित्' शब्दात् अप्यत्र प्रत्ययविधानम् भवितुमर्हति । In the context of this sutra, the word भाग does not represent a distinct part of उदश्वित्, but it represents उदश्वित् itself, and hence it is acceptable to associate the मयट्-प्रत्ययान्त word with उदश्वित् itself. 2. अस्य सूत्रस्य प्रयोगः तदा एव भवति यदा कस्यचन वस्तुनः 'एकस्य भागस्य' मूल्यमन्यवस्तुनः 'द्वौ वा अधिकान् भागान्' यावत् अस्ति । The sutra can only be used when 'one unit' of some entity is represented in terms of 'more than one units' of some other entity. अतः अधोदत्तेषु उदाहरणेषु अस्य सूत्रस्य प्रयोगः न भवति - 1. 'यवानाम् द्वौ भागौ निमानम् एषाम् त्रयाणामुदश्विद्भागानाम्' - अत्र उदश्वितः त्रयाणाम् भागानाम् मूल्यम् निर्दिश्यते, न हि एकस्य भागस्य । अतः अत्र अस्य सूत्रस्य प्रयोहः न भवति । 2. 'यवानाम् एकः भागः निमानमस्य उदश्विद्भागस्य' - अत्र यवानाम् एकस्य भागस्यैव मूल्यम् गृह्यते, न हि द्वयोः अधिकानाम् वा भागानाम् । अतः अत्र अस्य सूत्रस्य प्रयोगः न भवति । 3. 'यवानाम् द्वौ भागौ निमानमस्य अध्यर्धस्य उदश्विद्भागस्य' - अत्र उदश्वितः 'एकः भागः' न गृह्यते (अर्धः एव गृह्यते), अतः अत्र अस्य सूत्रस्य प्रयोगः न भवति । 3. यत्र 'निमानम्' इति सन्दर्भः नापेक्षते, तत्र अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'द्वौ भागौ क्षीरस्य एकं च तैलस्य' ( one unit of oil for every two units of milk) अत्र केवलम् प्रमाणयोः सम्बन्धः दर्श्यते, न हि मूल्यस्य । अतः अत्र वर्तमानसूत्रस्य प्रयोगः न भवति । 4. अस्मिन् सूत्रे 'गुण' इत्यनेन एकस्यैव वस्तुनः भागाः गृह्यन्ते । अतः अत्र द्वयोः वा अधिकानाम् वस्तूनाम् भागैः सह मूल्यनिर्देशः क्रियते तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - 'द्वौ व्रीहियवौ निमानमस्य उदश्वितभागस्य' अत्र यद्यपि 'द्वौ भागौ' इति अर्थः दृश्यते, तथापि एतौ द्वौ भागौ एकस्यैव वस्तुनः न स्तः, अपितु द्वयोः भिन्नयोः पदार्थयोः स्तः । The cost of one unit of उदश्वित् is being equated to two parts of two distinct entities (व्रीहि and यव) - इति आशयः) । अतः अत्र अस्य सूत्रस्य प्रयोगः न भवति । 5. अस्य सूत्रस्य विषये भाष्यकारः ब्रूते - 'निमेये चापि प्रत्ययो दृश्यते' । इत्युक्ते, 'मयट्' प्रत्ययस्य प्रयोगः 'निमेय' अस्मिन् अर्थे अपि क्रियते । किम् नाम निमेयम् ? 'निमानं (= मूल्यम्) दत्त्वा यत् क्रीयते' तत् निमेयम् । The entity that is purchased by giving the specified cost is called निमेय । यथा, यवानां द्वौ भागौ दत्त्वा उदश्वितः एकभागस्य क्रयणम् क्रियते चेत् 'यवानां द्वौ भागौ' इति निमानम्, यथा 'उदश्वितः एकः भागः' इति निमेयम् । अस्यां स्थितौ भाष्यकारस्य मतेन अत्र 'निमेयम्' अस्मिन् अर्थे अपि अस्य सूत्रस्य प्रयोगः भवति । यथा - 'उदश्वितः त्रयः भागाः निमेयमस्य यवभागस्य' Three parts of उदश्वित् can be purchased by giving one part of यव ) इत्यत्र 'त्रिमयाः यवाः उदश्वितः' इति प्रयोगः भवितुमर्हति । अतः मयट्-प्रत्ययस्य विधानम् द्वयोः अर्थयोः भवितुमर्हतीति स्मर्तव्यम् - (अ) यवानाम् द्वौ भागौ निमानमस्य उदश्वितः एकभागस्य (Two parts of यव is the cost of one part of उदश्वित्) - अत्र 'द्विमयमुदश्वित् यवानाम्' इति प्रयोगः क्रियते । अस्मिन उदाहरणे 'यवान्' दत्त्वा 'उदश्वित्' स्वीक्रियते । (आ) यवानाम् द्वौ भागौ निमेयमस्य उदश्वितः एकभागस्य (Two parts of यव can be purchased by giving one part of उदश्वित्) - अत्रापि 'द्विमयमुदश्वित् यवानाम्' इति प्रयोगः क्रियते । परन्तु अस्मिन् वाक्ये उदश्वितः दत्त्वा यवाः स्वीक्रियन्ते - इति विशेषः । अतः अस्य सूत्रस्य विषये नित्यम् वाक्यस्य सन्दर्भं दृष्ट्वा एव प्रत्ययस्य अर्थः ज्ञेयः । अस्य चित्ररूपेण स्पष्टीकरणम् अत्र अपि दत्तमस्ति, जिज्ञासुभिः तदपि दृश्यताम् । 6. मयट्-प्रत्यये परे कानिचन रूपाणि एतादृशानि - 1) द्वि + मयट् → द्विमय । 2) त्रि + मयट् → त्रिमय । 3) चतुर् + मयट् → चतुर्मय । 4) पञ्चन् + मयट् → पञ्चमय । 5) षष् + मयट् → षण्मय । अत्र षकारस्य **झलां जशोऽन्ते** (8.2.39) इति डकारः भवति । ततः **यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इत्यनेन डकारस्य विकल्पेन णकारादेशे प्राप्ते तस्मिन्नेव सूत्रे निर्दिष्टेन अनेन वार्त्तिकेन नित्यम् णकारादेशः भवति, येन 'षण्मय' इति रूपं सिद्ध्यति । 6) विंशति + मयट् → विंशतिमय । 7) त्रिंशत् + मय → त्रिंशन्मय । अत्रापि प्रारम्भे **झलां जशोऽन्ते** (8.2.39) इति दकारादेशः भवति; ततः अनेन वार्त्तिकेन नित्यम् नकारादेशः विधीयते । 8) शत + मयट् → शतमय 7. 'मयट्' इत्यस्मिन् टकारः इत्संज्ञकः अस्ति । तथापि अयम् 'आगमः' नास्ति, प्रत्ययः एव अस्ति । अस्य ज्ञानम् तु व्याख्यानादेव भवति । Sutrartha (English) ------------------- When the cost of 'one unit' of an entity is to be expressed in terms of the cost of 'multiple units' of another entity, मयट् प्रत्यय can be applied to the number that represents the 'number of units' of the second entity. Vasu English Summary -------------------- The affix मयट् (मथ with feminine in ङीप्) comes when denoting a thing given in exchange in the sense of 'containing so many times more of something' or 'the price of a portion of this is so many equal portion of the other' after a Numeral. Vasu English Translation ------------------------ The affix मयट् (मथ with feminine in ङीप्) comes when denoting a thing given in exchange in the sense of 'containing so many times more of something' or 'the price of a portion of this is so many equal portion of the other' after a Numeral. The word तदस्य from (5.2.36) should be read in this. The sense of the aphorism is "after a Numeral in the first case in construction (तद्), with the force of a genitive (अस्य), comes the affix मयट्, when the word in the first case in construction denotes the value (निमान) of a portion (गुण)". The word गुण means भाग or "portion", and निमान means 'price'. In comparing the quality of one thing with another, निमान is the value or price. Thus यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्य = द्विमयमुदश्विद्यवानाम् "two parts of *Yava* is the price of one part *Udasvit*". Similarly त्रिमयम्, चतुर्मयम्, lit. "*Udasvit* is द्विमय or 'two-times' the value of *yava*". The word गुणस्य is in the singular number. The comparison must therefore be made with one portion of a thing, with the several portions of the other. The ratio must be x:1, but never x:2, or x:3 &c. Therefore the rule does not apply here, द्वौ भागौ यवानां त्रय उदश्वितः ॥ The x also must be more than one. The rule therefore does not apply here: एको भागो निमानमस्य ॥ The word गुण denotes an integral number, therefore the rule will not apply to fraction. As द्वौ भागौ यवानामध्यर्द्ध उदश्वितः ॥ The affix also comes in the sense of purchasing or the comparative value of a thing, i. e. in denoting the thing received in exchange (निमेय) As उदश्वितो द्वौ भागौ निमेयमस्य यवभागस्य = द्विमयाः, as द्विमया यवा उदश्वितः = उदश्वितो द्वौ गुणौ निमेयौ येषामेकगुणानां यवानां "the exchange value of *Udasvita* is twice as much as that of a *Yava*". The word निमान means the thing given in exchange; and निमेय the thing received in exchange. Both words are reciprocal and are terms of barter or exchange, but they do not apply to sales or purchases for coins. Why do we say गुणस्य 'of a portion'? Observe द्वौ व्रीहियवौ निमानमस्योदश्वितः ॥ Here being no comparison of ratios, there is no affixing. Why do we say निमाने "in denoting the thing given in exchange"? Observe, द्वौ गुणौ क्षीरस्य एकस्तैलस्य = द्विगुणं पच्यते तैलं क्षीरेण "one part of oil cooks or absorbs as much as two parts of milk". Here the sense is that of 'cooking' and not of purchasing. In short मयट् has the meaning of 'time or fold'. As द्विमय "two time", the word qualifying sometime the निमान, sometime the निमेय; e.g. द्विमयमुदश्वित् यवानां '*Udasvit* is two-times or two-fold of *Yava* in value', or द्विमया यवा उदश्वितः "two-times *Yava* are equal to one *Udasvit*". Bhashya ------- संख्याया गुणस्य निमाने मयट् (2065) (मयट्प्रत्ययाधिकरणम्) (5725 उपसंख्यानवार्तिकम्॥ 1 ॥) - निमाने गुणिनि - (भाष्यम्) निमाने गुणिनीति वक्तव्यम्। किं प्रयोजनम्? गुणेषु मा भूत्॥ (5726 उपसंख्यानवार्तिकम्॥ 2 ॥) - भूयसः - (भाष्यम्) भूयस इति च वक्तव्यम्। किं प्रयोजनम्? भूयसो वाचिकायाः संख्याया उत्पत्तिर्यथा स्यात्, अल्पीयसो वाचिकायाः संख्याया उत्पत्तिर्मा भूदिति॥ (5727 उपसंख्यानवार्तिकम्॥ 3 ॥) - एकोऽन्यतरः - (भाष्यम्) एकश्चेदन्यतरो भवतीति वक्तव्यम्। इह मा भूत्-द्वौ यवानां त्रय उदश्वित इति॥ (5728 उपसंख्यानवार्तिकम्॥ 4 ॥) - समानानाम् - (भाष्यम्) समानानां चेति वक्तव्यम्। इह मा भूत् - एको यवानामध्यर्धमुदश्वित इति। तत्तर्हीदं बहु वक्तव्यम्। न वक्तव्यम्। (प्रथमवार्तिकप्रत्याख्यानभाष्यम्) यत्तावदुच्यते - गुणिनीति वक्तव्यमिति, न वक्तव्यम्। गुणेषु कस्मान्न भवति? अस्येति वर्तते॥ (द्वितीयवार्तिकप्रत्याख्यानभाष्यम्) यदुक्तं - भूयस इति वक्तव्यम् इति, न वक्तव्यम्। अल्पीयसो वाचिकायाः संख्याया उत्पत्तिः कस्मान्न भवति? अनभिधानात्॥ (तृतीयवार्तिकप्रत्याख्यानभाष्यम्) यदुक्तम् - कश्चेदन्यतरो भवतीति वक्तव्यम् इति, न वक्तव्यम्। कस्मान्न भवति - द्वौ यवानां त्रय उदश्वित इति? तन्त्रं विभक्तिनिर्देशः॥ (चतुर्थवार्तिकप्रत्याख्यानभाष्यम्) यदप्युच्यते - समानानामिति वक्तव्यमिति, न वक्तव्यम्। कस्मान्न भवति - एको यवानामध्यर्द्धमुदश्वित इति? अनभिधानात्॥ (5729 अतिव्याप्तिदर्शकं वार्तिकम्॥ 5 ॥) - निमेये चापि दृश्यते - (भाष्यम्) निमेये चापि प्रत्ययो दृश्यते - द्विमया यवाः। त्रिमयाः। (निमाननिमेयपदार्थबोधकं भाष्यम्) किं पुनरिह निमानम्, किं निमेयम्? यावता उभयं त्यज्यते। सत्यमेवमेतत्। क्वचित्तुकाचित्प्रसृततरा गतिर्भवति। तद्यथा - समाने त्यागे धान्यं विक्रीणीते यवान् विक्रीणीते इत्युच्यते, न कश्चिदाह कार्षापणं विक्रीणीत इति। अथवा येनाधिगम्यते तन्निमानम्, यदधिगम्यते तन्निमेयम्॥ Kashika ------- तदस्येत्यनुवर्तते **तदस्य संजातम्** (५.२.३६) इत्यतः। तदिति प्रथमासमर्थात् संख्यावाचिनः प्रातिपदिकादस्येति षष्ठ्यर्थे मयट् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं गुणस्य चेद् निमाने वर्तते। गुणो भागः। निमानं मूल्यम्। गुणो येन निमीयते मूल्यभूतेन, सोऽपि सामर्थ्याद् भाग एव विज्ञायते। यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद् यवानाम्। त्रिमयम्। चतुर्मयम्। भागेऽपि तु विधीयमानः प्रत्ययः प्राधान्येन भागवन्तमाचष्टे। तेन सामानाधिकरण्यं भवति द्विमयमुदश्विदिति। गुणस्येति चैकत्वं विवक्षितम्, तेनेह न भवति — द्वौ भागौ यवानां त्रय उदश्वित इति॥ भूयसश्च वाचिकायाः संख्यायाः प्रत्यय इष्यते॥ इह न भवति — एको भागो निमानमस्येति। भूयस इति च प्रत्ययार्थात् प्रकृत्यर्थस्याधिक्यमात्रं विवक्षितम्, बहुत्वमतन्त्रम्। तेन द्विशब्दादपि भवति। गुणशब्दः समानावयववचनः। तेनेह न भवति — द्वौ भागौ यवानामध्यर्ध उदश्वित इति॥ निमेये चापि दृश्यते॥ निमेये वर्तमानायाः संख्याया निमाने प्रत्ययो दृश्यते। उदश्वितो द्वौ भागौ निमेयमस्य यवभागस्य द्विमया यवा उदश्वितः। त्रिमया यवा उदश्वितः। चतुर्मयाः। गुणस्येति किम् ? द्वौ व्रीहियवौ निमानमस्योदश्वितः। निमान इति किम् ? द्वौ गुणौ क्षीरस्यैकस्तैलस्य, द्विगुणं पच्यते तैलं क्षीरेणेत्यत्र मा भूत्॥ Siddhanta Kaumudi ----------------- भागस्य मूल्ये वर्तमानात्प्रथमान्तात्संख्यावाचिनः षष्ठ्यर्थे मयट् स्यात् । यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद्यवानाम् । गुणस्येति किम् । द्वौ व्रीहियवौ निमानमस्योदश्वितः । निमाने किम् । द्वौ गुणौ क्षीरस्य एकस्तैलस्य द्विगुणं क्षीरं पच्यते तैलेन ॥ Balamanorama ------------ **संख्याया गुणस्य निमाने मयट्** - सङ्ख्याया गुणस्यतदस्ये॑त्यनुवर्तते । गुणः=भागः, अंशः । निमीयते क्रीयतेऽनेनेति निमानं=मूल्यद्रव्यम् ।मेङ् प्रणिदाने॑ । करणे ल्युट् । तदाह — भागस्य मूल्य इत्यादि । षष्ठर्थे इति । अस्येत्यर्थे इत्यर्थः ।यवानां द्वौ भागौ निमानमस्योदइआद्भागस्ये॑ति विग्रहवाक्यम् । द्वाभ्यां यवप्रस्थाभ्याम् एक उदइआत्प्रस्थः क्रियते यत्र तत्रेदं वाक्यं प्रयुज्यते ।द्विमयमुमइआद्यवाना॑मित्युदाहरणम् ।यवाना॑मिति संबन्धसामान्ये षष्ठी । यवप्रस्थद्वयेन क्रेतव्यमुदइआदित्यर्थः । द्विशब्दस्य भागवृत्तेर्नित्यसापेक्षत्वेऽपि प्रत्ययः । द्वौ व्रीहियवौ निमानमस्योदइआत इति । द्वित्वसङ्ख्याविशिष्टौ व्रीहियवराशी यौ तौ अस्य उदइआतो निमानमित्यर्थः । अत्र उदइआद्यावत् तदपेक्षया व्रीहियवराश्योर्द्वि गुणत्वं न विवक्षितं, किंतु राशद्वित्वमेव विवक्षितमिति द्विशब्दस्य भागवृत्तित्वाऽभावान्न प्रत्ययः । Tattvabodhini ------------- **संख्याया गुणस्य निमाने मयट्** - सङ्ख्याया गुणस्य । गुणो -भागः । निमीयते=क्रीयतेऽनेनेति निमानं=मूल्यम् ।मेङ् प्रणिदाने -इत्यस्मान्निपूर्वात्करणे ल्युट् । तदाह -भागस्य मूल्ये इति । षष्ठआर्थे इति । यद्यपितदस्मिन्नधिक ॑मित्यतःत॑दित्यनुवृत्तौ प्रथमान्तादित्ययमेवार्थो लभ्यते, तथापि मण्डूकप्लुत्या ।तदस्य संजात॑मित्यतःतदस्य॑इत्यनुवर्तनात्षष्ठर्थे॑इत्येतदपि लभ्यत इति भावः । द्विमयमिति । द्विशब्दस्य सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वात्यवाना॑मिति पदे सत्यपि तद्धितोत्पत्तिरिहाऽविरुद्धेति ज्ञेयम् । नन्वेवमपि प्रत्ययान्तस्योदइआच्छब्देन सामानाधिकरण्यं दुर्लभम् । यावतोदइआद्भागे प्रत्ययो विहितो, नोदइआति । अत्राहुः — — भागेऽपि विधीयमानः प्रत्ययोऽभिदानस्वाभाञ्याद्भागवन्तमाचष्टे । तेन सामानाधिकरण्यं भवतीति ।गुणनिमाने॑इति वक्तव्ये व्यस्तोच्चारणात्एकत्वं गुणस्ये॑त्यत्र विवक्षितम् । तेनेह न भवतियवाना द्वौ भागौ निमानमेषामुदइआतस्त्रायाणां भागाना॑मिति ।भूयसश्च वाचिकायाः सङ्ख्यायाः प्रत्यय इष्यते॑ । इह न भवति । एको भागो निमानमस्येति ।भूयस॑इति च प्रत्ययार्थादाधिक्यमात्रं प्रकृत्यर्थस्य विवक्षितं, न तु बहुत्वम् । तेन द्विशब्दादपि भवत्येव । तस्य पूरणे ।तस्ये॑ति षष्ठन्तानुकरणम् । एकत्वं त्वविवक्षितम् । एकस्य पूरणाऽसम्भवात् । पूर्यतेऽनेनेति पूरणः । ण्यन्तात्करणे ल्युट् । एकादशानामिति । उद्भूतवयवभेदः समुदायः प्रकृत्यर्थः । अवयवः प्रत्ययार्थः । इह यस्मात्सङ्ख्यावाचिनः प्रत्ययविधिस्तदीयप्रवृत्तिनिमित्तस्य एकादशत्वादेः पूरणे प्रत्ययः । यथाअतिशायने॑,याप्ये॑इत्यादिषु प्रवृत्तिनिमित्तस्यैवातिशयादिकं गृह्रते, अन्तरङ्गत्वात्, तथेहापि । तेनएकादशानां घटानां पूरणो जलादि॑रित्यत्र नातिप्रसङ्गशषङ्कालेशोऽपीति भावः । ननु यदि प्रवृत्तिनिमित्तस्य पूरणे प्रत्ययः, तह्र्रत्र एकादशत्वस्य पूरण इति विग्रहो वक्तुं युक्त इति चेत् । अत्राहुः -॒वैयाकरणपाशः॑इत्यत्र यथायाप्यो वैयाकरणः॑इति विग्रहः, न तुयाप्यं वैयाकरणत्व॑मिति, तथेहापि बोध्यमिति । एवं च व्युत्क्रमेणाध्यायेषु गम्यमानेषुवृद्धिरादै॑जित्यध्यायो यदा चरमं गण्यते तदा सोऽप्यष्टमो भवत्येव । Nyaas ----- `गुणो येन निमीयते` इति। परिवर्त्त्यते, विक्रीयत इत्यर्थः। `सोऽपि` इत्यादि। न हि तस्य भागत्वमन्तरेण निमेयस्य गुण इत्येव निर्दिष्टस्य भागत्वमध्यवसातुं शक्यम्। यदा हि मूलस्य भागत्वं नास्ति, भागव्यपदेशो न प्रवर्तत एव। तेन यद्यपि निमानस्य भागता नोक्ता, तथापि सामर्थ्यात्? सा प्रतीयते। `यवानां द्वौ भागौ निमानमस्य` इति। ननु चोभयत्रापि परिवर्तनम्, तथापि मूल्य एव निमानशब्दो रूढ इति यन्मूल्यत्वेन विवक्षितं तदेव निमानं भवति, नेतरत्। `यवानाम्` इति। भागापेक्षया षष्ठी। यद्येवम्, परापेक्ष उवश्चिच्छब्दे तद्धितस्य वृत्तिर्विरुध्यते। ननूदइआद्भागे प्रत्ययः, नोदइआति, तत्कथं द्विमयमुदइआदिति प्रत्ययान्तस्योदइआच्छब्देन सामानाधिकरण्यम्? इत्यत आह - `भागेऽपि तु` इत्यादि। अत्र पुनरभिधानशक्तिस्वाभाव्यं हेतुः। यथैवाणादयोऽपत्यापत्यवत्सम्बन्धेऽपि विधीयमाना अभिधानशक्तिस्वाभाव्यात्? प्राधान्येन सम्बन्धिनमाचक्षते - औपगवो दाक्षिरिति, तथायमपि भागे विधीमानो भागवन्तमुदइआदादिकमाचष्टे। `गुणस्येति चैकत्वं विवक्षितम्` इति। गुणस्येति यैकसंख्या सा विवक्षिता। ननु च `तद्धिताः (4.1.76) इति निर्देशेऽपि बहुवचनमप्रमाणम्, तस्याविवक्षितत्वात्` इत्युक्तम्, तत्कथमिहैकत्वविवक्षा युज्यते? नैष दोषः; इह हि षष्ठीसमासं कृत्वा गुणनिमान एव कर्तव्यम्, एवं हि लघु सूत्रं भवति। सोऽयमेवं वक्तव्ये सति यद्गुणस्येत्येकवचनमुच्चारयति, तेनैतत्? सूचयति - विवक्षितमत्रैकत्वमिति तेनेत्यादिनैकत्वविवक्षायाः फलं दर्शयति। एकत्वविवक्षायां ह्रेतत्? प्रयोजनम् - एकस्य गुणस्य निमाने वर्तमानाद्यथा स्यात्। `द्वौ भागौ यवानां त्रय उदइआतः` इति। अत्र त्रयाणां भागानां निमाने द्विशब्दो वर्तत इति न भवति प्रत्ययः। ननु च सत्यामप्येकत्वविवक्षायां नैवान्न प्रत्ययेन भवितव्यम्, यतः `भूयसश्च वाचिकायाः संख्यायाः प्रत्यय इष्यते` इति वचनम्। न ह्यत्र द्विशब्दो भूयसो वाचकः? एवं तर्हि यवानां यौ द्वौ भागौ, ताविह निमेयत्वेन विवक्ष्येते। ये त्रय उदइआतो भागास्ते निमानत्वेन। तत्र यद्येकत्वविवक्षा न स्यात्? तदा त्रिषूदइआद्गुणेषु वर्तमानात्? प्रत्ययः स्यात्। भूयसश्चेत्यपि प्रत्ययार्थात्? प्रकृत्यर्थस्य भूयसो वाचिकायाः प्रत्यय इष्यते, नान्यतः। `इह न भवति` इति। अनभिषानात्। `तदस्मिन्नधिकम्` (5.2.45) इत्यादेः सूत्रादितिकरणानुवृत्तेर्वा। यदि भूयसो वाचिकायाः संख्याया इष्यते यवानां द्वौ भागौ निमानमस्येत्यत्र न प्राप्नोति? इत्यत आह - `भूयस इति च` इत्यादि। एवमपि हि प्राप्नोति - द्वौ यवानामष्यद्र्ध उदइआत इति, अस्ति ह्यत्र प्रत्यर्थात्? प्रकृत्यर्थस्याधिक्यम्? इत्यत आह - `गुणशब्दः` इत्यादि। गुणशब्दो ह्रयं भागवचनोऽपि समतामपि तस्य भागस्य ब्रूते, न चाष्यद्र्धशपब्देन समभाग उच्यते। `निमेये चापि दृश्यते` इति। केन पुनर्विहितो दृश्यते? अनेनैव। कथम्? द्वे अत्र वाक्ये; तत्रैकस्मिन्? वाक्ये निमानशब्दः करणसाधनः - निमीयतेऽनेनेति निमानम्; द्वितीये तु कर्मसाधनो निमीयत इति निमानम्; **कृत्यल्युटो बहुलम्** (3.3.113) इति कर्मणि ल्युट्। यदा करणसाधनस्तदा गुणस्येति कर्मणि षष्टी, यदा तु कर्मसाधनस्तदा कर्तरि। गुणो हि निमानक्रियाकरणमिति कर्त्तृत्वेन विवक्ष्यते। भवति हि करणस्य कर्त्तृत्वेन विवक्षा, यथा - साध्यसिश्छिनत्तीति। तत्रैकेन वाक्येन निमाने पर्तमानायाः संख्याया निमेयेऽभिधेये प्रत्ययो विधीयते। अपरेण निमेये वर्तमानाया निमानेऽभिधेयेऽपि प्रत्ययोऽभिधीयते। वाक्यभेदस्य च संख्याग्रहणं निबन्धनम् - `संख्याया अवयवे तयप्` (5.2.42) इत्यतः। एवञ्च संख्याग्रहणमनुवर्तते। इदमिह द्वितीयम्। तत्र यद्यत्रैकं वाक्यं स्याद्द्वितीयं संख्याग्रहणमनर्थकं स्यात्, सौत्रानुमिताभ्यां तु द्वे वाक्ये क्रियमाणे तदर्थवद्भवति। तस्माद्द्वे अत्र वाक्ये। `द्वौ व्रीहियवौ` इत्यादि। अत्र नोदइआद्भागस्य द्वौ व्रीहियवौ निमानत्वेन विवक्षितौ, किं तर्हि? उदइआतः। एवं `द्वौगुणौ` इत्यादि। अत्र प्रथमासमर्थो गुणस्य निमानेन वर्तते। न हि क्षीरस्य भागद्वयेन तैलस्य भागो निमीयते। मयटष्टित्करणं ङीबर्थम् - द्वौ गुडस्यैको द्राक्षाया द्विमयी द्राक्षेति॥ Prakriyasarvasvam ----------------- गुणो भागः । निमानं मूल्यं क्रेयं वा । एकस्य भागस्य मूल्ये क्रेये वा वर्तमानाया द्वयादिसंख्यायास्तदस्येत्यर्थे मयट् स्यात् । यद्भागस्य यवानां द्वौ भागौ मूल्यतया स्थितौ । तत्स्याद्यवानां द्विमयं तक्रं क्रेये त्वथोच्यते ॥ ३२५ ॥ यद्भागस्य हि तक्रंशौ द्वौ क्रेतव्यतया स्थितौ । तक्रस्य द्विमयास्तेऽमी यवा इति विपर्ययः ॥ ३२६ ॥ पूर्वतक्रप्रस्थस्य तक्रभागस्य द्वौ यवप्रस्थौ मूल्यमित्यर्थः, परतक्रप्रस्थस्य यवभागस्य द्वौ तक्रप्रस्थौ क्रेतव्यावित्यर्थः ।