52033: इनच्पिटच्चिकचि च ======================= **Padacheda:** इनच्-पिटच् | S | 1 | 1 | चिक-चि | S | | | 1 च | S | 0 | 0 | Sutrartha --------- **'नता नासिका' अस्मिन् सन्दर्भे 'नि' उपसर्गात् 'इनच्' तथा 'पिटच्' प्रत्ययौ भवतः , तत्सन्नियोगेन च 'नि' इत्यस्य यथासङ्ख्यम् 'चिक' तथा 'चि' आदेशौ अपि भवतः ।** नासिकायाः विशिष्टां स्थितिम् निर्देशयितुमस्मिन् सूत्रे प्रत्ययविधानम् क्रियते । यदि नासिका नता / अधोगता अस्ति (nose pointing / bent downwards) तर्हि तस्याः नतस्य (pointedness) निर्देशार्थम् 'नि' उपसर्गात् 'इनच्' तथा 'पिटच्' प्रत्ययौ भवतः ; तथा च एतयोः उपस्थितौ 'नि' इत्यस्य क्रमेण 'चिक' तथा 'चि' एतौ आदेशौ भवतः - (अ) नि + इनच् → चिक + इन → चिक् + इन [**यस्येति च** (6.4.148) → चिकिन (आ) नि + पिटच् → चि + पिट → चिपिट यथा - नासिकायाः नतम् चिकिनम् चिपिटम् वा । स्मर्तव्यम् - या नासिका नता अस्ति, सापि 'चिकिना' / 'चिपिटा' अनेन शब्देन सम्बुध्यते ।तथा च, यस्य पुरुषस्य नासिका नता अस्ति, सः पुरुषः अपि 'चिकिनः' / 'चिपिटः' अनेन शब्देन सम्बुध्यते । एतेषाम् सर्वेषाम् व्युत्पत्तिः अनेनैव सूत्रेण लक्षणार्थम् स्वीकृत्य दीयते । अत्र कानिचन वार्त्तिकानि ज्ञातव्यानि - 1. - नासिकायाः नतस्य निर्देशार्थम् 'नि' उपसर्गात् 'क' इति प्रत्ययः भवति, तथा च तत्सन्नियोगेन अङ्गस्य 'चिक्' इति आदेशः भवति । यथा - नि + क → चिक् + क → चिक्क । उदाहरणानि - चिक्कम् नतम् ; चिक्का नासिका , चिक्कः पुरुषः । 2. - यस्य मनुष्यस्य नेत्रे क्लिन्ने (अश्रुपूर्णौ / wet) स्तः ; तस्य निर्देशार्थम् 'क्लिन्न' शब्दात् 'ल' इति प्रत्ययः विधीयते, तथा च तत्सन्नियोगेन 'क्लिन्न' शब्दस्य 'चिल्' तथा 'पिल्' एतौ आदेशौ भवतः । क्लिन्न + ल → चिल् + ल → चिल्ल । क्लिन्न + ल → पिल् + ल → पिल्ल । चिल्लः पिल्लः वा पुरुषः । 3. - यस्य मनुष्यस्य नेत्रे क्लिन्ने (अश्रुपूर्णौ / wet) स्तः ; तस्य निर्देशार्थम् 'क्लिन्न' शब्दात् 'ल' इति प्रत्ययः विधीयते, तथा च तत्सन्नियोगेन 'क्लिन्न' शब्दस्य 'चुल्' आदेशः भवति । यथा - क्लिन्न + ल → चुल् + ल → चुल्ल । चुल्लः पुरुषः । विशेषः - 'क्लिन्न' शब्दस्य विषये उक्तयोः द्वयोः अपि वार्त्तिकयोः विषये 'तस्मान्नार्थोऽस्य ग्रहणेन' इति भाष्ये उच्यते । इत्युक्ते, भाष्यकारस्य मतेन अनयोः वार्त्तिकयोः 'अस्य' इत्यस्य शब्दस्य ग्रहणम् न इष्टम्, यतः 'चिल्ल' 'पिल्ल', तथा 'चुल्ल' - एते सर्वे शब्दाः क्लिन्नयोः नेत्रयोः एव निर्देशं कुरुतः । यथा - चिल्ले पिल्ले चुल्ले वा नेत्रे । ततः 'तद् अस्य अस्ति' अस्मिन् अर्थे 'अ' प्रत्ययं कृत्वा एतादृशे नेत्रे यस्य पुरुषस्य तस्यापि निर्देशः एतैः शब्दैः भवितुमर्हति ; यथा - चिल्ले पिल्ले चुल्ले वा चक्षुषी यस्य, सः चिल्लः पिल्लः चुल्लः वा पुरुषः । Vasu English Summary -------------------- The affixes इनच् and पिटच् come in the sense of 'a hooked nose' after the word नि ; and चिक् and चि are the substitutes of नि before those affixes respectively. Vasu English Translation ------------------------ The affixes इनच् and पिटच् come in the sense of 'a hooked nose' after the word नि ; and चिक् and चि are the substitutes of नि before those affixes respectively. Thus नि + इनच् = चिक् + इनच् = चिकिनः; नि + पिटच् = चि + पिटच् = चिपिटः ॥ Vart:- So also comes क, and चिक replacing नि, as नि + क = चिक् + क = चिल्लः ॥ Vart:- The affix ल comes after the word क्लिन्न in the sense of 'its eyes'; and चिल् and पिल् are substitutes of क्लिन्नः as, क्लिन्ने अस्य चक्षुषी = चिल्लः, पिल्लः 'blear-eyed'. Vart:- चुल is also the substitute. As, चुल्लः ॥ These words apply to 'eye' also, as चिल्ले, पिल्ले, चुल्ले "sore-eyes." They apply to person also. Bhashya ------- इनच्पिटच्चिकचिच (2046) (ःइनच्पिटजधिकरणम्) (5715 उपसंख्यानवार्तिकम्॥ 1 ॥) - इनच्पिटच्काः चिकचिचिकादेशाश्च - (भाष्यम्) इनच्पिटच्काः प्रत्ययाः वक्तव्याः, चिक चि चिक्-ःइत्येते च प्रकृत्यादेशा वक्तव्याः। चिकिनः। चिपिटः। चिक्कः॥ (5716 उपसंख्यानवार्तिकम्॥ 2 ॥) - क्लिन्नस्य चिल्पिल्लश्चास्य चक्षुषी - (भाष्यम्) क्लिन्नस्य चिल्पिल् इत्येतौ प्रकृत्यादेशौ वक्तव्यौ लश्च प्रत्ययः, अस्य चक्षुषी इत्यस्मिन्नर्थे। क्लिन्ने अस्य चक्षुषी - चिल्लः, पिल्लः। चुल् च वक्तव्यः। चुल्लः। यद्यस्येत्युच्यते, चिल्ले चक्षुषी पिल्ले चक्षुषी - इति न सिध्यति तस्मान्नार्थोऽस्य ग्रहणेन। कथं चिल्लः पिल्ल इति? अकारो मत्वर्थीयः। चिल्ले अस्य स्तः - चिल्लः। पिल्ले अस्य स्तः - पिल्ल इति॥ Kashika ------- नेरित्येव, नते नासिकाया इति च। निशब्दाद् नासिकाया नतेऽभिधेय इनच् पिटच् इत्येतौ प्रत्ययौ भवतः, तत्संनियोगेन च निशब्दस्य यथासंख्यं चिक चि इत्येतावादेशौ भवतः। चिकिनः। चिपिटः॥ ककारः प्रत्ययो वक्तव्यश्चिक् च प्रकृत्यादेशः॥ चिक्कः । तथा चोक्तम् — **इनच्पिटच्काश्चिकचिचिकादेशाश्च** (महाभाष्य ५.२.३३) वक्तव्या इति॥ क्लिन्नस्य चिल्पिल्लश्चास्य चक्षुषी॥ क्लिन्नस्य चिल् पिल् इत्येतावादेशौ भवतो लश्च प्रत्ययोऽस्य चक्षुषी इत्येतस्मिन्नर्थे। क्लिन्ने अस्य चक्षुषी चिल्लः। पिल्लः॥ चुलादेशो वक्तव्यः॥ चुल्लः। अस्येत्यनेन नार्थः। चक्षुषोरेवाभिधाने प्रत्यय इष्यते। क्लिन्ने चक्षुषी चिल्ले। पिल्ले। चुल्ले। तद्योगात् तु पुरुषस्तथोच्यते॥ Siddhanta Kaumudi ----------------- नेरित्येव । नासिकाया नतेऽभिधेये इनच् पिटचौ प्रत्ययौ प्रकृतेश्चिकचि इत्यादेशौ च । (वार्तिकम्) ॥ चिकिनम् ॥ चिपिटम् । चिक्कम् । (वार्तिकम्) ॥ क्लिन्ने चक्षुषी अस्य चिल्लः । पिल्लः । (वार्तिकम्) ॥ चुल्लः ॥ Balamanorama ------------ **इनच्पिटच्चिकचि च** - इनच्पिटच् । इनच् पिटजिति समामहाद्वन्द्वात्प्रथमैकवचनम् । 'चिकचि' इत्यपि चिक-चि-इत्यनयोः समाहाद्वन्द्वात्प्रथमैकवचनम् । प्रकृतेरिति । नेरित्यर्थः । तत्र इनचि परे चिक इत्यादेशः । तत्र अकार उच्चारणार्थः । पिटचि तु परे चीत्यादेशः । कप्रत्ययेति । उक्तनेः कप्रत्ययः, प्रकृतेः चिकादेशश्चेत्यर्थः । अयमपि ककारान्तः एवादेशः । चिकिनमिति । इनचि प्रत्यये कृते नेश्चिकादेशे रूपम् । चिपिटमिति । पिटचि कृते नेश्चीत्यादेशे रूपम् । चिक्कमिति । कप्रत्यये नेश्चिकादेशे रूपम् । क्लिन्नस्य चिल्पिल्लश्चास्य चक्षुषी इति । वार्तिकमिदम् । चिल् पिलिति समाहारद्वन्द्वात्प्रथमैकवचनम् । क्लिन्ने अस्य चक्षुषी इति विग्रहे क्लिन्नशब्दादस्य चक्षुषी इत्यर्थे लप्रत्ययः, प्रकृतेश्चिल् पिल् एतावादेशौ स्त इत्यर्थः । क्लिन्ने इति । नेत्राऽ.ञमयप्रयुक्तजलनिष्यन्दवतीइत्यर्थः । चिल्ल पिल्ल इति । क्लिन्नचक्षुष्क इत्यर्थः । चुल्चेति । उक्तविषये क्लिन्नस्य चुल् आदेशश्च लप्रत्ययसंनियोगेन वक्तव्य इत्यर्थः । उपाधिभ्याम् । उप, अधि आभ्यां यथासङ्ख्यमासन्नारूढयोर्वर्तमानाभ्यां स्वार्थे त्यकन्प्रत्ययः स्यादित्यर्थः । आसन्नं=समीपम् । आरूढम्ुच्चम् । अनुवर्तत इति । 'नते नासिकायाः' इत्यस्मादिति भावः । कस्य समीपं, कस्योच्चमित्याकाङ्क्षायां संज्ञाधिकारात् पर्वतस्येति लभ्यत इत्यभिप्रेत्याह — पर्वतस्येति । उपत्यका, अधित्यकेति । स्त्रीत्वं लोकात् । अत्रप्रत्ययस्था॑दिति इत्त्वं तु न,त्यकनश्चे॑त्युक्तेः । Padamanjari ----------- ककारः प्रत्यय इति। अकारो विवक्षितः; चकारः, एवकार इत्यादिवत् कारशब्दः, कप्रत्यय त्यिर्थः। तथा चोक्तमिति। सूत्रे निशब्दस्य द्वावादेशौ द्वौ च प्रत्ययौ विहितावित्यादेशप्रत्ययात्रविधानार्थमेतद् वार्तिककारोणोक्तम्। अस्य चक्षुषी इत्येतस्मिन्नर्थ इति। यद्यपि चक्षुषी प्रकृत्यर्थविशेषणम्, अस्येति षष्ठ।ल्र्थे प्रत्ययः, तथापि क्लिन्नत्वस्य चक्षुर्गतत्वं प्रत्ययस्यैव द्योत्यभिति मत्वैवमुक्तम्। अस्येत्यनेनेति। वाक्यैकदेशं प्रत्याचष्टे, कस्मात्? नार्थः, इत्याह। चक्षुषोरेवभिधान इति। चक्षुषोर्वर्तमानात्क्लिन्नशब्दात्स्वार्थे प्रत्यय इत्यर्थः। कथं तर्हिपुरुषस्याभिधानम् ? इत्याह - तद्योगादित्यादि। अर्शाअदिषु'स्वाङ्गाद्धीनात्' इति पठ।ल्ते, तेन मत्वर्थेऽकारः ॥ Nyaas ----- `संज्ञाधिकाराच्च` इति। `नते नासिकायाः` (5.2.31) इत्यादिसूत्रात्? संज्ञाधिकारानुवृत्तेः। `नियतविषयम्` इति। पर्वतविषयमेवासन्नारूढं गृह्रते। तेन वृक्षस्यासन्नम्, प्लक्षस्यारूढमित्यतर न भवतीति भावः। अथोपत्यका, अधित्यकेत्यत्र `प्रत्ययस्थात्? कात्? पूर्वस्य` (7.3.44) इत्यनेनेत्त्वं कस्मान्न भवति? इत्यत आह - `प्रत्ययस्थात्? कात्` इति। यद्यत्रेत्त्वं स्यात्? संज्ञारूपं न सिध्येत्; नोपत्यिकाधित्यिकेत्येवंरूपा संज्ञा। तस्मात्? संज्ञाधिकारादित्त्वं न भवति॥ Prakriyasarvasvam ----------------- नेर्नते वाच्ये इनच्पिटच्प्रत्ययौ क्रमात्, चिक चि इत्यादेशौ च स्तः । चिकिनम् चिपिटम् । 'कप्रत्ययश्चिग्भावश्च वाच्यः' । चिक्कः । एतत्सूत्रद्वयं वृत्तौ व्याख्यातं नासिकानते । मया भोजानुसाराच्च प्रयोगाच्चैवमीरितम् ।। ३१६ ।। क्लिन्नाच्चक्षुषि वाच्ये लः स्याच्चिल्पिल्चुलोऽस्य चादेशाः । स्यात् क्लिन्नमक्षि चिल्लं पिल्लं चुल्लं तथैव तद्वांश्च ।। ३१७ ।। Vartika ------- कप्रत्ययचिकादेशौ च वक्तव्यौ ।