52016: अध्वनो यत्खौ =================== **Padacheda:** अध्वनः | S | 5 | 1 | यत्-खौ | S | 1 | 2 | Sutrartha --------- **'अलङ्गामी (= पर्याप्तम् गच्छति)' अस्मिन् अर्थे द्वितीयासमर्थात् 'अध्वन्' शब्दात् यत् तथा खः प्रत्ययौ भवतः ।** 'अध्वन्' इत्युक्ते 'मार्गः' । 'कस्मिंश्चित् मार्गे पर्याप्तम् गच्छति' (sufficiently travels a road) अस्मिन् अर्थे अध्वन्-शब्दात् यत् तथा ख-प्रत्ययौ भवतः । प्रकिये एतादृश्यौ - 1) अध्वानमलङ्गामी सः = अध्वन् + यत् → अध्वन् + य [**नस्तद्धिते** (6.4.144) इति टिलोपे प्राप्ते तं बाधित्वा **ये चाभावकर्मणोः** (6.4.168) इति यकारादौ तद्धितप्रत्यये परे प्रकृतिभावः] → अध्वन्य 2) अध्वानमलङ्गामी सः = अध्वन् + ख → अध्वन् + ईन [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ईन-आदेशः] → अध्वनीन [ [**नस्तद्धिते** (6.4.144) इति टिलोपे प्राप्ते **आत्माध्वानौ खे** (6.4.169) इति प्रकृतिभावः। अध्वानमलङ्गामी सः अध्वन्यः अध्वनीनः वा । Vasu English Summary -------------------- The affixes यत् (यं) and ख (ईन) come in the sense of 'who is fit or able to follow' after the word अध्वन्। Vasu English Translation ------------------------ The affixes यत् (यं) and ख (ईन) come in the sense of 'who is fit or able to follow' after the word अध्वन्। Thus अध्वानमलंगामी = अध्वनीनः or अध्वन्यः 'able to undertake a journey'. By aphorisms (6.4.168), (6.4.169), the word अध्वन् retains its original form before the affix य and ख, not losing its final अन् which it does before other affixes, by (6.4.144). Kashika ------- तदिति द्वितीया समर्थविभक्तिरनुवर्तते। अलंगामीति च प्रत्ययार्थः। अध्वन्शब्दाद् द्वितीयासमर्थादलंगामीत्येतस्मिन्नर्थे यत्खौ प्रत्ययौ भवतः। अध्वानमलंगामी अध्वन्यः, अध्वनीनः। **ये चाभावकर्मणोः** (६.४.१६८), **आत्माध्वानौ खे** (६.४.१६९) इति प्रकृतिभावः॥ Siddhanta Kaumudi ----------------- अध्वानमलं गच्छति अध्वन्यः । अध्वनीनः । ये चाभावकर्मणोः (SK1154) । आत्माध्वानौ खे (SK1671) इति सूत्राभ्यां प्रकृतिभावः ॥ Balamanorama ------------ **अध्वनो यत्खौ** - अद्वनो यत्खौ । अध्वन्शब्दादलिङ्गमीत्यर्थे यत्खौ स्त इत्यर्थः । अध्वानमलंगच्छतीति । अलङ्गामीत्यनेन विग्रहे तु अध्वनोऽलङ्गामीत्येव विग्रहः । Padamanjari ----------- द्वितीयासमर्थादिति। यदा तिङ्न्तेन विग्रहः - अध्वानं गच्छतीति, तदा द्वितीयासमर्थत्वम्। यदापि सूत्रोपातेन गामीत्यनेन विप्रहः, तदापि द्वितीयैव कृद्योगलक्षणा षष्ठी न भवति; ठकेनोःऽ इति प्रतिषेधात्। इह ठध्वनो यच्चऽ इति सिद्धम्, चकारात्खश्च? एवमुच्यमाने उतरसूत्रे चकारेणानन्तरो यदेवानुकृष्यते, न चानुकृष्टः खः। अतो यत्खयोर्द्वयोरप्यनुवृत्यर्थं यत्खावित्युक्तम् ॥ Prakriyasarvasvam ----------------- अध्वानमलं गच्छन् अध्वन्यः, अध्वनीनः । 'ये चाभावकर्मणोः' (६-४- १६८) । 'आत्माध्वानौ खे' (६-४-१६९) इति द्वयोः प्रकृतिभावः ॥ Sutra Prayogas -------------- * **अध्वन्य** (भट्टिकाव्यम्): `अध्वनो यत्-खौ` इति अलंगामीत्यस्मिन्नर्थे यत्।