52015: अनुग्वलंगामी =================== **Padacheda:** अनुगु | S | 0 | 0 | अलंगामी | S | 1 | 1 | Sutrartha --------- **'अनुगु' शब्दात् 'अलङ्गामी (पर्याप्तम् गच्छति)' अस्मिन् अर्थे ख-प्रत्ययः भवति ।** 'अनुगु' इति किञ्चन अव्ययम् । 'गोः पश्चात्' इत्यस्मिन् अर्थे 'अनु' अव्ययेन सह अव्ययीभावसमासं कृत्वा 'अनुगु' शब्दः सिद्ध्यति । अस्मात् 'अनुगु' शब्दात् 'अलम् (= पर्याप्तम्) गच्छति' अस्मिन् अर्थे ख-प्रत्ययः भवति । यथा - अनुगु अलङ्गामी (= पर्याप्तं गच्छति) = अनुगु + ख → अनुगु + ईन [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ख-प्रत्ययस्य ईन-आदेशः] → अनुगो + ईन [**ओर्गुणः** (6.4.146) इति गुण-एकादेशः] → अनुगव् + इन [**एचोऽयवायावः** (6.1.78) इति अव्-आदेशः] → अनुगवीन यः गोपालः धेनूनाम् रक्षणार्थम् तेभ्यः पश्चात् बहु दूरं यावत् गच्छति, धेनूभ्यः अवधानम् न त्यजति, तस्य निर्देशार्थम् 'अनुगवीन' शब्दस्य प्रयोगः क्रियते । A गोपाल who closely / appropriately follows the herd of cows wherever they go and does not leave the cows alone is referred as अनुगवीनः । Vasu English Summary -------------------- The affix ख (ईन) comes in the sense of 'who is fit to follow' after the word अनुगु। Vasu English Translation ------------------------ The affix ख (ईन) comes in the sense of 'who is fit to follow' after the word अनुगु। Thus the word अनुगु means गो पश्चाद् ॥ Thus अनुगु पर्याप्तं गच्छति = अनुगवीनः 'who is suited or able to follow after the cows' i.e. a cowherd. Kashika ------- गोः पश्चाद् अनुगु। अनुगुशब्दादलंगामीत्यस्मिन्नर्थे खः प्रत्ययो भवति। अनुगु पर्याप्तं गच्छति अनुगवीनो गोपालकः॥ Siddhanta Kaumudi ----------------- अनुगु गोः पश्चात्पर्याप्तं गच्छति अनुगवीनो गोपालः ॥ Balamanorama ------------ **अनुग्वलंगामी** - अनुग्वलंगामी । 'अनुगु' इत्यविभक्तिको निर्देशः । गोः पश्चादिति विग्रहे पश्चादर्थे अनोरव्ययीभावे ह्रस्वत्वे अनुगुशब्दः । तस्मादलङ्गामीत्यर्थे खः स्यादित्यर्थः । अत्र 'अनुगु' इत्यस्य क्रियाविशेषणत्वाद्द्वितीयैव समर्थविभक्तिरिति हरदत्तः । कृद्योगषष्ठीत्यन्ये ।अलङ्गामी॑त्यत्र अलंशब्दस्य विवरणं — पर्याप्तमिति । क्रियाविशेषणम् । Tattvabodhini ------------- **अनुग्वलंगामी** - अनुग्वलं ।ख॑इत्यनुवर्तते । अनुगुशब्दात्अलंगामी॑त्यस्मिन्नर्थे खः स्यात् । गोः पश्चादिति । पश्चादर्थेऽव्ययीभावः । पर्याप्तिमिति । क्रियाविशेषणम् । अत्र हरदत्तः -अनुग्वित्यस्य क्रियाविशेषणत्वाद्द्वितीयान्तादिह प्रत्ययः । न चालङ्गामीत्यस्यसुप्यजातौ॑इति णिनिप्रत्ययान्ततया कृद्योगलक्षणा षष्ठी स्यादिति वाच्यं, क्रियाविशेषणात्तदप्रवृत्तेः,शोभनं पाचक॑इत्यादौ तथादर्शनादित्याह । अत्र केचित् -धातूपात्तव्यापारजन्यफलाश्रयत्वं यत्र तन्मुख्यं कर्म, यत्र तु व्यापारजन्यत्वमात्रं तदौपचारिकम् । ततश्चतण्डुलाना पाचक॑इत्यत्र मुख्ये कर्मणि कृद्योगलक्षणा षष्ठी भवति ।मृदु पाचकः॑शोभनं पाचक॑इत्यत्र तु सा न भवति, फलव्यापारयोः क्रियाकर्मभावव्यवहारे सत्यपि फलस्योपचारिककर्मत्वात्, तद्विशेषणत्वाच्च मृद्वादेरिति तस्याशयैत्याहुः । अन्ये त्वेवं तर्हि तुल्यन्यायेन क्रियाविशेषणाद्द्वितीययाया अप्यप्रवृत्तिः स्यात् । तस्मात्तदर्ह मिति निर्देशादनित्या कृद्योगषष्ठीति क्रियाविशेषणात्सान स्वीक्रियत इति हरदत्ताशयः कथं चिद्वर्णनीय इत्याहुः । वस्तुतस्तु पश्चादर्थेऽव्ययीभावोऽयमिति निर्बिवादम् । पश्चादिति चाऽस्तत्यर्थे निप#आतितम् । तच्च यद्यपि विभक्तित्रयसाधारणं तथापीह योग्यताबलात्सप्तम्यर्थवृत्तिः । अतस्तस्य कर्मत्वाऽयोगात्प्रथमान्तादेवेह प्रत्यय इति वक्तुमुचितम् । कृद्योगलक्षणषष्ठीशङ्काऽप्यत एव नेति बोध्यम् । Padamanjari ----------- अलङ्गगामीति।'सुप्यजातौ' इति णिनिः। गोः पश्चादनुस्विति। पश्चादर्थेऽव्ययीभावः, उपसर्जनह्रस्वः। पर्याप्तमिति। क्रियाविशेषणमेव। अनुग्विति। ततश्च द्वितीयान्तात्प्रत्ययः। कृद्योगलक्षणा तु षष्ठी क्रियाविशेषणान्न भवति, तद्यथा - शोबनं पाचक इति ॥ Prakriyasarvasvam ----------------- अनुगुशब्दादस्मिन्नर्थे खः । गोः पश्चादत्यन्तं गच्छन्ननुगवीनः ॥ Sutra Prayogas -------------- * **पक्षति** (शिशुपालवधम्): `पक्षात्तिः` इति तिप्रत्ययः।