52014: आगवीनः ============= **Padacheda:** आगवीनः | S | 1 | 1 | Sutrartha --------- **'यावत् गोप्रतिदानम् न क्रियते; तावत् कार्यम् करोति' अस्मिन् अर्थे 'आगवीन'-शब्दः निपात्यते ।** अनेन सूत्रेण 'आगवीनः' अस्य शब्दस्य निपातनम् क्रियते । किम् नाम आगवीनः ? यदि कश्चन निर्धनः कस्माच्चित् धनिकात् कांश्चन गाम् (धेनुम्) ऋणरूपेण स्वीकरोति ; तथा च यावत् सा गौः तस्मै धनिकाय न प्रत्यार्प्यते तावत् तस्य धनिकस्य भृत्यरूपेण कार्यम् करोति, तर्हि तादृशः भृत्यः 'आगवीन' नाम्ना ज्ञायते । A person who takes a cow from someone on rent for a certain period, and serves the owner of the cow during that period is called आगवीन. अनेन सूत्रेण 'आगवीन' शब्दस्य निपातनम् एतादृशम् क्रियते - 1. 'गोः मर्यादा' अस्मिन् अर्थे 'आङ्' अव्ययेन सह 'गो' शब्दस्य अव्ययीभावसमासम् कृत्वा प्रारम्भे 'आगु' इति शब्दः सिद्ध्यति । अत्र 'गो' शब्दः 'गोप्रतिदानम्' (returning of a cow) अस्मिन् अर्थे प्रयुक्तः अस्तीति भाष्ये स्पष्टीक्रियते । 2. 'आगु' अस्मात् शब्दात् 'कर्म करोति' अस्मिन् अर्थे ख-प्रत्ययः निपात्यते । यः 'गोप्रतिदानम् मर्यादारूपेण स्वीकृत्य कार्यम् करोति' (इत्युक्ते, यावत् गौः स्वसमीपे स्थापयति तावत् कार्यम् करोति') तस्य निर्देशार्थम् इदम् निपातनम् क्रियते । 3. 'ख' इत्यस्य **आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इत्यनेन 'ईन' आदेशः भवति । 3. 'आगु + ईन' इत्यत्र **ओर्गुणः** (6.4.146) इत्यनेन गुणादेशं कृत्वा अग्रे **एचोऽयवायावः** (6.1.78) इति अवादेशं कृत्वा वर्णमेलने कृते 'आगवीन' इति रूपम् सिद्ध्यति । Vasu English Summary -------------------- The word आगवीन is irregularly formed. Vasu English Translation ------------------------ The word आगवीन is irregularly formed. This word is formed by adding ख to the word गो preceded by the preposition आ, as आगो + ख = आगवानः ॥ The force of the affix is that of 'a servant'. A person who is engaged in business till the return of the cows, i.e. a day-labourer. Bhashya ------- आगवीनः (2032) (निपातनजिज्ञासाभाष्यम्) आगवीन इति किं निपात्यते? (5709 निपातनार्थबोधकवार्तिकम्॥ 1 ॥) - गोराङ्पूर्वादा तस्य गोः प्रतिदानात्कारिणि खः - (भाष्यम्) गोराङ्पूर्वात् आ तस्य गोः प्रतिदानात् कारिणि खो निपात्यते। आ तस्य गोः प्रतिदानात्कर्मकारी - आगवीनः कर्मकरः॥ Kashika ------- आगवीन इति निपात्यते। गोराङ्पूर्वाद् आ तस्य गोः प्रतिदानात् कर्मकारिणि खः प्रत्ययो निपात्यते। आगवीनः कर्मकरः। यो गवा भृतः कर्म करोति आ तस्य गोः प्रत्यर्पणात्॥ Siddhanta Kaumudi ----------------- आङ् पूर्वाद्गोः कर्मकरे खप्रत्ययो निपात्यते । गोः प्रत्यर्पणपर्यन्तं यः कर्म करोति स आगवीनः ॥ Balamanorama ------------ **आगवीनः** - आगवीनः । कर्मकरे इति । वार्तिकलभ्यमिदम् । भृतिं गृहीत्वा यः कर्म करोति स — कर्मकरः । अत्र गोपालो विवक्षितः । स हि प्रातर्गां गृहीत्वा आसायं चारयित्वा स्वाभिनो गृहं नीत्वा प्रत्यर्पयति । तदाह — गोः प्रत्यर्पणेति । आगवीन इति । 'गो' शब्दो गोप्रत्यर्पणे लाक्षणिकः ।आङ्मर्यादाभिविध्यो॑रित्यव्ययीभावेगोस्त्रियो॑रिति ह्रस्वत्वे, आगुशब्दात्खे 'ओर्गुणः' इति भावः । Tattvabodhini ------------- **आगवीनः** - कर्मकतरे इति । यस्तु प्रातर्गा गृहीत्वा गच्छति गोपालस्तस्मिन्नित्यर्थः । गोः प्रत्यर्पणपर्यन्तमिति । गोशब्दो लक्षणया गोः प्रतिदाने वर्तते इति भाव । आगवीन इति ।आङ्भर्यादाभिविध्यो॑रित्यव्ययीभङावेगोस्त्रियो॑रिति ह्रस्वे कृतो खप्रत्ययः ।ओर्गुणः॑ । Padamanjari ----------- गोराङ्पूर्वादिति। गोशब्दान्तादाङ्पूर्वात्प्रातिपदिकादित्यर्थः। आ तस्य गोः प्रतिदानादिति। प्रतिदानमुप्रत्यर्पणम्। एतेन वृत्तिविषये गोशब्दो गोप्रतिदाने वर्तत इति दर्शयति। करिणीति। कृञ आवश्यके णिनिः। आगवीन इति। ठाङ् मर्यादाभिविध्योःऽ इत्यव्ययीभावे उपसर्जनह्रस्वत्वे च कृते खप्रत्ययः, ठोर्गुणःऽ ॥ Prakriyasarvasvam ----------------- आ गोप्रत्यर्पणात् कर्म कुर्वन् भृत्य आगवीनः । गोदोहनमस्य वेतनमित्यर्थः ॥