52010: परोवरपरम्परपुत्रपौत्रमनुभवति =================================== **Padacheda:** परोवर-परम्पर-पुत्रपौत्रम् | S | 2 | 1 | अनुभवति | T | | | Sutrartha --------- **द्वितीयासमर्थेभ्यः 'परोवर', 'परम्पर', 'पुत्रपौत्र' शब्देभ्यः 'अनुभवति' अस्मिन् अर्थे ख-प्रत्ययः भवति ।** अस्मिन् सूत्रे त्रयः शब्दाः उच्यन्ते - 'परोवर', 'परम्पर', 'पुत्रपौत्र' । एतेभ्यः 'अनुभवति' (अनुभवम् प्राप्नोति / experiences) अस्मिन् अर्थे 'ख' प्रत्ययः भवति । क्रमेण पश्यामः - 1. परोवर - अयम् शब्दः 'पर' तथा 'अवर' एतयोः मेलनेन जायते । 'पर + अवर' इति स्थिते निपातनात् 'अवर' शब्दस्य अकारस्य उकारादेशः भवति, ततश्च गुण-एकादेशं कृत्वा 'परोवर' शब्दः सिद्ध्यति । 'पर' तथा 'अवर' द्वाभ्यां शब्दाभ्यां अत्र द्वौ लोकौ निर्दिश्येते । परलोकम् (उच्चतरम् लोकम् - यथा स्वर्गलोकम् )) तथा च अवरलोकम् (निम्नतरम् लोकम्, यथा भूलोकम्) द्वावपि यः अनुभवति, तस्य निर्देशार्थमस्मिन् सूत्रे 'परोवर'शब्दात् 'ख' प्रत्ययः उक्तः अस्ति । परान् च अवरान् च अनुभवति सः परोवरीणः । 2. 'परम्पर' - अयम् शब्दः 'पर' तथा 'परतर' एतयोः मेलनेन जायते । 'पर + परतर' इति स्थिते मेलनं कृत्वा द्वयोः 'परम्पर' इति एकादेशः निपात्यते । परम् परतरम् च यः अनुभवति, तस्य निर्देशार्थम् 'परम्पर' शब्दात् 'ख' प्रत्ययः भवति । यथा - परान् च परतरान् च अनुभवति सः परम्परीणः । विशेषः - 'परम्परा' इति कश्चन अन्यः स्त्रीलिङ्गवाची शब्दः अस्ति, सः अत्र न गृह्यते । 3. 'पुत्रपौत्र' - 'पुत्र' तथा 'पौत्र' एताभ्याम् द्वन्द्वसमासेन 'पुत्रपौत्र'शब्दः सिद्ध्यति - पुत्राः च पौत्राः च पुत्रपौत्राः । पुत्रपौत्रान् यः अनुभवति (one who sees / experiences the company of children and grandchildren) तस्य निर्देशार्थम् 'पुत्रपौत्र'शब्दात् 'ख' प्रत्ययः भवति । पुत्रपौत्रान् अनुभवति सः पुत्रपौत्रीणः । स्मर्तव्यम् - 'परोवर' तथा 'परम्पर' एतौ द्वौ शब्दौ ख-प्रत्ययप्रयोगार्थम् एव निपात्येते । एतयोः शब्दयोः पृथक्-रूपेण वाक्ये प्रयोगः न कर्तव्यः । अतएव उभयत्र 'परान् च अवरान् च अनुभवति' तथा 'परान् च परतरान् च अनुभवति' एते एव विग्रहवाक्ये उच्येते । Vasu English Summary -------------------- The affix ख (ईन) comes in the sense of 'who witnesses or experiences that' after the words 1. परोवर 2. परम्पर and 3. पुत्रपौत्र , in the Accusative -2nd case in construction. Vasu English Translation ------------------------ The affix ख (ईन) comes in the sense of 'who witnesses or experiences that' after the words 1. परोवर 2. परम्पर and 3. पुत्रपौत्र , in the Accusative -2nd case in construction. The word परोवर is compounded of पर and अवर the ओ in रो being irregular, the compounding being caused by the affix. परांश्चावरांश्च अनुभवति = परोवरीणः "who lives to see high and low". The word परम्पर is compounded of पर and परतर the compounding being caused by the affix. As, परांश्च परतरांश्चानुभवति = परम्परीणः ॥ Similarly पुत्रपौत्रीणः ॥ The word परम्पर is a separate word as well, not formed by or admitting this affix. As मन्त्रिपरम्परा मन्त्रं भिनत्ति ॥ Bhashya ------- परोवरपरम्परपुत्रपौत्रमनुभवति (2028) (निपातनजिज्ञासाभाष्यम्) परोवरेति किं निपात्यते? (5503 निपातनार्थबोधकवार्तिकम्॥ 1 ॥) - परोवरे परस्योत्ववचनम् - (भाष्यम्) परोवरेति परस्यौत्वं निपात्यते॥ (सूत्रनिर्देशोपपादकं भाष्यम्) यद्येवं परस्यौत्ववचनमिति प्राप्नोति। शकन्धुन्यायेन निर्देशः। अथ वा नैवं विज्ञायते परस्यौत्वं निपात्यत इति। कथं तर्हि? परस्य शब्दरूपस्यादेरुत्वं निपात्यत इति। परांश्चावरांश्चानुभवति - परोवरीणः। (निपातनजिज्ञासाभाष्यम्) अथ परम्परेति किं निपात्यते? (5704 निपातनार्थबोधकवार्तिकम्॥ 2 ॥) - परपरतराणां परम्परभावः - (भाष्यम्) परपरतराणां परम्परभावो निपात्यते। परांश्च परतरांश्चानुभवति - परम्परीणः॥ Kashika ------- परोवर परम्पर पुत्रपौत्र इत्येतेभ्यस्तदिति द्वितीयासमर्थेभ्योऽनुभवतीत्यस्मिन्नर्थे खः प्रत्ययो भवति। परोवरेति परस्योत्वं प्रत्ययसंनियोगेन निपात्यते। परांश्चावरांश्चानुभवति परोवरीणः। परपरतराणां च परम्परभावो निपात्यते। परांश्च परतरांश्चानुभवति परम्परीणः। पुत्रपौत्राननुभवति पुत्रपौत्रीणः। परम्परशब्दो विनापि प्रत्ययेन दृश्यते — मन्त्रिपरम्परा मन्त्रं भिनत्तीति। तच्छब्दान्तरमेव द्रष्टव्यम्॥ Siddhanta Kaumudi ----------------- परांश्चावरांश्चानुभवतीति परोवरीणः । अवरस्योत्वं निपात्यते । परांश्च परतरांश्चानुभवति परम्परीणः । प्रकृतेः परम्परभावो निपात्यते । पुत्रपौत्राननुभवति पुत्रपौत्रीणः । परम्पराशब्दस्तु अव्युत्पन्नं शब्दान्तरं स्त्रीलिङ्गं तस्मादेव स्वार्थे ष्यञि पारम्पर्यम् । कथं पारोवर्यवदिति । असाधुरेवायम् । खप्रत्ययसन्नियोगेनैव परोवरेति निपातनात् ॥ Balamanorama ------------ **परोवरपरम्परपुत्रपौत्रमनुभवति** - परोवर । परोवर, परम्पर, पुत्रपौत्र-एभ्यो द्वितीयान्तेभ्योऽनुभवतीत्यर्थे खः स्यादित्यर्थः । परोवरीण इति । परे च अवरे च परावरे ताननुभवतीत्यर्थः । अवरस्योत्त्वमिति । अवरशब्दस्य आदेरकारस्य खप्रत्ययसंनियोगेन उत्त्वं निपात्यत इत्यर्थः । एवं च विग्रहवाक्ये इदमुत्त्वं न भवति । प्रकृतेरिति । परपरतरशब्दाद्द्वन्द्वात्खे सति तत्सन्नियोगेन प्रकृतेः परम्परभावो निपात्यत इत्यर्थः । नन्वेवं सतिकल्याणपरम्परे॑त्यादौ कथं परम्पराशब्दः , परम्परभावस्य खप्रत्ययसन्नियोगशिष्टत्वादित्यत आह — परम्पराशब्दस्त्विति । तस्मादेवेति ।परम्परे॑त्यव्युत्न्नप्रातिपदिकादेवेत्यर्थः । कथमिति । परावरशब्दाद्भावे वा स्वार्थे वा ष्यञि अवरस्यादेरुत्वे पारोवर्यशब्दान्मतुपि पारोवर्यवदिति कथमित्याक्षेपः, उत्त्वस्य खप्रत्ययसन्नियोगाशिष्टत्वादिति भावः । उत्त्वं दुरुपपादमेवेत्याह — असाधुरेवेति । नन्वत्र परोवरेति निर्देशात् — खादन्यत्राप्युत्त्वं किं न स्यादित्यत आह — खप्रत्ययसन्नियोगेनैवेति । अत एव भाष्येपरांश्चावरंश्चानुभवती॑त्येव विग्रहो दर्शित इति भावः । Tattvabodhini ------------- **परोवरपरम्परपुत्रपौत्रमनुभवति** - अवरस्येति ।आदे॑रिति शेषः । उत्वे कृतेआद्गुणः॑ । केचुत्तु ओत्वं परशब्दस्य निपात्यते, तस्मात्परस्याऽतःएङः पदान्ता॑दिति पूर्वरूपादेश इति पक्षान्तरमाहुः । Padamanjari ----------- परस्योत्ववचनमिति। परस्य शब्दरूपस्यादेरुत्वं निपात्यत इत्यर्थः, तत्र ठाद्गुणःऽ। अथ वा - परशब्दस्य ओत्वं निपात्यतेऽन्त्यस्यालः, ततः ठेङः पदान्तादतिऽ इति पूर्वरूपैकादेशः, परस्यौत्वमिति प्राप्नोति'शकन्ध्वादिषु पररूपं अव्कव्यम्' इति पररूपेण निर्द्देशः। परपरतराणां चेति। चकारः पूर्वनिपातनापेक्ष्या समुच्ययार्थः। अर्तगतस्य बहुत्वस्य शब्दे समारोपाद् बहुवचनम्। तच्छब्दान्तरमेव द्रष्टव्यमिति। अव्युत्पन्नमेव प्रबपन्धस्य वाचकम्। अत एवस्त्रीलिङ्गमेकवचनं च। पारम्पर्यमित्यपि तस्मादेव स्वार्थे ष्यञि भवति कथं परोवर्यवदिति ? असाधुरेवायम्; खप्रत्ययसन्नियोगेन परोवरेति निपातनात् ॥ Nyaas ----- कथं पुनरप्रत्ययसन्नियोगेन निपातनस्य विना प्रत्ययेन दर्शनमुपपद्यते? इत्याह - `तच्छब्दान्तरमेव द्रष्टव्यम्` इति॥ Prakriyasarvasvam ----------------- परानवरांश्चानुभवन्ती परोवरीणा स्त्री । ओत्वं निपात्यम् । परान् परतरांश्चानुभवन् परम्परीणो मन्त्री । परम्परभावो निपात्यः । पुत्रपौत्रीणो वृद्धः ॥ Sutra Prayogas -------------- * **परम्परीणां** (भट्टिकाव्यम्): `परोवर` इत्यादिना खः परंपरादेशश्च। * **अनुपदी** (भट्टिकाव्यम्): `अनुपद्यन्वेष्टा` इति निपातनात् साधुः।