52003: यवयवकषष्टिकाद्यत् ======================== **Padacheda:** यव-यवक-षष्टिकात् | S | 5 | 1 | यत् | S | 1 | 1 | Sutrartha --------- **षष्ठीसमर्थेभ्यः 'यव', 'यवक', 'षष्टिक' शब्देभ्यः तेषामुत्पत्तेः क्षेत्रस्य निर्देशार्थम् 'यत्' प्रत्ययः भवति ।** **धान्यानां भवने क्षेत्रे खञ्** (5.2.1) इत्यनेन सूत्रेण धान्यवाचिभ्यः प्रातिपदिकेभ्यः तेषामुत्पत्तेः क्षेत्रस्य निर्देशार्थम् औत्सर्गिकरूपेण खञ्-प्रत्ययः उक्तः अस्ति । अस्य अपवादरूपेण 'यव' (barley), 'यवक' (barley), तथा 'षष्टिक' एतेभ्यः शब्देभ्यः यत्-प्रत्ययः भवति । 1. यवानाम् भवनम् क्षेत्रम् यव्यम् । 2. यवकानाम् भवनम् क्षेत्रम् यवक्यम् । 3. षष्टिकानाम् भवनम् क्षेत्रम् षष्टिक्यम् । ज्ञातव्यम् - 'षष्टिक' इति कस्यचन धान्यविशेषस्य संज्ञा अस्ति । अस्य शब्दस्य निपातनम् **षष्टिकाः षष्टिरात्रेण पच्यन्ते** (5.1.90) इत्यनेन क्रियते । Vasu English Summary -------------------- The affix यत् comes in the sense of 'a place of growing, when it is a field' after the words 1. यव 2. यवक and 3. षष्टिक। Vasu English Translation ------------------------ The affix यत् comes in the sense of 'a place of growing, when it is a field' after the words 1. यव 2. यवक and 3. षष्टिक। This debars खञ् ॥ Thus यवानां भवनं क्षेत्रं = य꣡व्यम्, यवक्य॑म्, षष्टिक्य॑म् ॥ See (6.1.213) for accent. Kashika ------- यवादिभ्यः शब्देभ्यो यत् प्रत्ययो भवति भवने क्षेत्रेऽभिधेये। खञोऽपवादः। यवानां भवनं क्षेत्रं यव्यम्। यवक्यम्। षष्टिक्यम्॥ Siddhanta Kaumudi ----------------- यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् ॥ Balamanorama ------------ **यवयवकषष्टिकादत्** - यवयवक । यव, यवक, षष्टिक-एभ्यः षष्ठन्तेभ्यो भवने क्षेत्रे यत्स्यादित्यर्थः । खञोऽपवादः ।धान्याना॑मित्यनुवृत्तेरिहापि षष्ठएव समर्थविभक्तिः । Tattvabodhini ------------- **यवयवकषष्टिकादत्** - यवयवक । अत्र प्रत्ययार्थसामर्थ्याल्लभ्या षष्ठी समर्थविभक्तिः । विभाषा खञि नित्ये प्राप्ते वचनम् । औमीनं भाह्गीनमिति । ननूमाभङ्गयोर्धान्यत्वाऽबावात्कथमिह खञ् ।व्राहियश्च मे यवाश्च मे॑इति चनकानुवाके हि द्वादशैव धान्यानि पठितानि, न तूमाभङ्गौ पठितौ इति चेत् । मैवम् ।शणसप्तदशानि धान्यानी॑ति स्मरणात् । तत्र चोमभङ्गयोरपि पाठाद्धान्यत्वमस्तीति भाष्यादौ स्थितत्वात् । न च चमकानुवाके धान्यपरिगणनेनाऽर्थः, तत्राऽधान्यानामप्यश्मादीनां पाठात्, धान्यानामपि कैषांचित्कोद्रवादीनामपाठात् । तस्मादन्यत एव धान्यनिर्णय इति पूर्वोक्तस्मृत्या तयोर्धान्यत्लमस्तीति ज्ञेयम् । Padamanjari ----------- अत्र प्रत्ययार्थसामर्थ्यलभ्या षष्ठी समर्थविभक्तिः ॥ Prakriyasarvasvam ----------------- यव एव यवकः । अजमोदेत्यन्ये । यव्यं क्षेत्रम् । यवक्यम् । षष्टिक्यम् ॥