52001: धान्यानां भवने क्षेत्रे खञ् ================================== **Padacheda:** धान्यानाम् | S | 6 | 3 | भवने | S | 7 | 1 | क्षेत्रे | S | 7 | 1 | खञ् | S | 1 | 1 | Sutrartha --------- **धान्यविशेषवाचिभ्यः षष्ठीसमर्थेभ्यः शब्देभ्यः तेषामुत्पत्तेः क्षेत्रस्य निर्देशार्थम् खञ् प्रत्ययः भवति ।** अस्मिन् सूत्रे चत्वारः शब्दाः प्रयुक्ताः सन्ति - 1) धान्यानाम् - अयम् षष्ठीसमर्थः । धान्यवाचिभ्यः शब्देभ्यः प्रत्ययविधानम् भवति - इत्यर्थः । अत्र बहुवचनस्य रूपम् 'स्वरूपविधिनिरासार्थम्' प्रयुक्तमस्ति । इत्युक्ते, 'धान्यानाम्' इत्यनेन 'धान्य' इत्यस्य शब्दरूपस्य निर्देशः न भवति अपितु धान्यवाचिनः शब्दस्य (यथा - मुद्ग, तण्डुल - आदयः) निर्देशः भवति । 2) भवने - भू-धातोः ल्युट्-प्रत्ययान्तरूपम् 'भवन' इति । भवति / जायते यत्र तत् भवनम् । अत्र **करणाधिकरणयोश्च** (3.3.117) इत्यनेन अधिकरणे ल्युट्-प्रत्ययः कृतः अस्ति । 3) क्षेत्रे - क्षेत्र (farm) इत्यस्य सप्तम्येकवचनमस्य रूपम् । अयम् शब्दः 'भवन' इत्यस्य विशेषणरूपेण प्रयुक्तः अस्ति । धान्यानामुत्पत्तिस्थानम् (= भवनम्) यदि क्षेत्रमस्ति, तर्हि एव अस्य सूत्रस्य प्रयोगः भवति - इति आशयः । 4) खञ् - अयम् तद्धितप्रत्ययः । अत्र ञकारः इत्संज्ञकः अस्ति, तस्य च प्रयोजनद्वयम् - **ञ्नित्यादिर्नित्यम्** (6.1.197) इत्यनेन तद्धितान्तस्य आद्युदात्तत्वम्, तथा च **तद्धितेष्वचामादेः** (7.2.117) इत्यनेन आदिवृद्धिः । अतः अस्य सूत्रस्य अर्थः अयम् - षष्ठीसमर्थात् धान्यवाचिशब्दात् तस्य निर्मितेः क्षेत्रस्य निर्देशं कर्तुं खञ् प्रत्यय भवति । यथा - मुद्गानाम् भवनम् क्षेत्रम् मौद्गीनम् । प्रक्रिया इयम् - मुद्ग + खञ् → मुद्ग + ईन [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ईन-आदेशः] → मौद्ग + ईन [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → मौद्ग् + ईन [**यस्येति च** (6.4.148) इति अकारलोपः] → मौद्गीन तथैव - कुलत्थानाम् भवनम् क्षेत्रम् कौलत्थीनम् । कोद्रवानामुत्पत्तिस्थानम् कौद्रवीनम् । ज्ञातव्यम् - अस्मिन् सूत्रे 'भवने' तथा 'क्षेत्रे' द्वयोः ग्रहणम् कृतमस्ति । अस्य प्रयोजनम् 'भवन-शब्दस्य अर्थनियमनम्' इति अस्ति । इत्युक्ते, वस्तुतः 'भवन' शब्दस्य अर्थः 'भवति / अस्ति / विद्यते यत्र, तत् भवनम्' एतादृशमपि भवितुमर्हति । अतः धान्यभाण्डारम् (storage unit) अपि धान्यानाम् भवनमस्तीति वक्तुम् शक्यते । परन्तु 'क्षेत्रे' इत्यस्य ग्रहणेन केवलम् क्षेत्रस्य निर्देशार्थम् एव अस्य सूत्रस्य प्रयोगः कर्तव्यः - इति स्पष्टीभवति, येन 'भवन'शब्दस्य अर्थः अपि केवलम् 'जायते / उद्भवति यत्र तत् भवनम्' इति नियम्यते । अतः सूत्रार्थे 'भवन' शब्दस्य अर्थः 'उत्पत्ति-क्षेत्रम्' इति उक्तः अस्ति । एतदेव स्पष्टीकर्तुम् न्यासकारः वदति - 'क्षेत्रग्रहणे त्वसति, भवतिः सत्तावचनोऽपि गृह्रते। तथा कुसूलेऽपि प्रसज्येत' । इत्युक्ते, 'क्षेत्र' शब्दः न स्वीक्रियेत चेत् 'भवन' इत्यनेन 'कुसूल' (store-room) शब्दात् अपि प्रत्ययः विधीयते, यः च न इष्यते । अतएव अत्र 'क्षेत्र'ग्रहणमावश्यकमस्ति । Vasu English Summary -------------------- The affix खञ् comes in the sense of 'a place of growing when that place is a field' after the name of any particular corn being in the Genitive 6th-Case. Vasu English Translation ------------------------ The affix खञ् comes in the sense of 'a place of growing when that place is a field' after the name of any particular corn being in the Genitive 6th-Case. According to Bohtlingk, the *Sutra* should be thus translated. "To a corn-name is added ईन, to express the fields in which the corn grows". According to Ballantyne, it is translated "when we speak of a place for grain, or a field of it, there may be the affix *khan*". The word धान्यानां 'of grains', shows that the word in construction should be in the genitive case. The plural number shows that the affix is not to be added to the word-form धान्य, but to words which denote various kinds of *dhanya* (1.1.63). भवन means 'the place where a thing is produced or grows (भवन्ति जायन्ते)' ॥ Thus मुद्गानां भवनं क्षेत्रं = मौद्गीनम्, कौद्रवीणम्, कौलत्थीनम् ॥ Why do we say "of grains"? There will be no affixing in a case like this तृणानां भवनं क्षेत्रं ॥ Why do we say "when it is a field"? Observe मुद्गानां भवनं कुशूलं 'a granary where kidney-beans grow'. Kashika ------- निर्देशादेव समर्थविभक्तिः। धान्यविशेषवाचिभ्यः षष्ठीसमर्थेभ्यो भवनेऽभिधेये खञ् प्रत्ययो भवति, तच्चेद् भवनं क्षेत्रं भवति। भवनमिति भवन्ति जायन्तेऽस्मिन्निति भवनम्। मुद्गानां भवनं क्षेत्रं मौद्गीनम्। कौद्रवीणम्। कौलत्थीनम्। धान्यानामिति किम् ? तृणानां भवनं क्षेत्रमित्यत्र न भवति। क्षेत्रमिति किम् ? मुद्गानां भवनं कुसूलम्। बहुवचनं स्वरूपविधिनिरासार्थम्॥ Siddhanta Kaumudi ----------------- भवन्त्यस्मिन्निति भवनम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् ॥ Laghu Siddhanta Kaumudi ----------------------- भवत्यस्मिन्निति भवनम्। मुद्गानां भवनं क्षेत्रं मौद्गीनम्॥ Balamanorama ------------ **धान्यानां भवने क्षेत्रे खञ्** - अथ पाञ्चमिका निरूप्यन्ते । धान्यानां भवने । धान्यवाचिभ्यः षष्ठन्तेभ्यो भने क्षेत्रेऽर्थे खञित्यर्थः । भवनशब्दस्य भावल्युडन्तत्वे क्षेत्रशब्दसामानाधिकरण्यानुपपत्तेराह — भवन्त्यस्मिन्निति । भवनमिति । भूधातुरुत्पत्तिवाची । उत्पत्तिस्थानं भवनमिति लभ्यते । धान्योत्पत्तिस्थानं क्षेत्रम् ।केदारः क्षेत्र॑मित्यमरः । क्षेत्रशब्दाऽभावे भूधातोः सत्तावाचित्वमाश्रित्य यत्र विद्यते तद्भवनमिति व्युत्पत्त्या आधारसामान्यं गृहकुसूलादिलभ्येत, अतः क्षेत्रपदम् । भवनपदाऽभावे तु क्षेत्रशब्देन सेतुवन्धकाश्यादिपुण्यप्रदेशोऽपि लभ्येत, अतो भवनपदम् । उभयोपादाने तु धान्योत्पत्तिप्रदेश एव लभ्यत इति न पौनरुक्त्यम् । Tattvabodhini ------------- **धान्यानां भवने क्षेत्रे खञ्** - धान्यानाम् ।धिवि प्रीणने॑इत्यस्मात्कृत्यल्युटो बहुल॑मिति कर्तरि ण्यत् । अस्मादेव निपातनादन्त्यस्य लोप इकारस्य चात्वम् । धिनोतीति धान्यम् । मन्त्रश्चधन्यमसि धिमुहि देवान्इति दृश्यते ।धान्याना॑मिति भवनापेक्षया कर्तरि षष्ठी । सा च निर्देशादेव समर्थविभक्तिः । बहुवचनं तु स्वरूपविधिनिरासार्थम् । अलौकिके प्रकियावाक्ये तु षष्ठन्तत्वानुवादेन तद्विधिसामर्थ्यादेवेति बोध्यम् । भवतिरिहोत्पत्तिवचनः, क्षेत्रग्रहणसामर्थ्यात् । सूत्रे हि सत्तावचनस्यापि भवतेग्र्रहणं माभूदिति क्षेत्रग्रहणं कृतम् । अन्यथाधान्यानां भवनं कुसूलः॑इत्यत्रापि स्यादिति । धान्यानां किम् । तृणानां भवनं क्षेत्रम् । Padamanjari ----------- धिनोतेः'कृत्यल्युटो बहुलम्' इति कर्तरि ण्यत्, अस्मादेव निपातनादन्त्यस्य लोपः, इकारस्य चात्वम्। धिनोतीति धान्यम्।'धान्यमसि धिनुहि देवान्' इति हि दृश्यते। धान्यानामिति भवनापेक्षया कर्तरि षष्ठी। भवनमित्यधिकरणे ल्युट्। क्षियष्ट्रन्, क्षेत्रम्। भवति जायतेऽस्मिन्निति भवनमिति। एतेनोत्पतिवचनोऽत्र भवतिर्गृह्यते, न सतावचन इति दर्शयति। एतच्च क्षेत्रग्रहणाल्लभ्यते। क्षेत्रशब्दो हि तृणानां धान्यानां चोत्पत्याधारमाचष्टे। न हि धान्यानां सतां प्रति भूमिः क्षेत्रव्यपदेशमासादयति। मुद्रानां भवनं कुसूलमिति। असति क्षेत्रग्रहणे सतावचनस्यापि भवतेर्ग्रहणं स्यादिसि भावः। किञ्च - भवनशब्दो गृदे रुढ इति मुद्गानां गृहमित्यत्रैव प्रसङ्ग इत्यपि शक्यते वक्तुम्। यदि तर्हिह क्षेत्रग्रहणमवश्यं कर्तव्यम्, तदेवास्तु, किं भवनग्रहणेन ? धान्यानामिति शेषलक्षणषष्ठी, क्षेत्रं प्रत्ययार्थः। न चैवं क्षेत्रशब्दस्यापि शरीरभार्याद्यनेकार्थत्वादतिप्रसङ्ग; धान्यसम्बन्धादुत्पत्तिभूमिरेव प्रत्यष्यते। तदेतद्भवनग्रहणं चिन्त्यप्रयोजनम् ॥ Nyaas ----- `भवन्ति जायन्तेऽस्मिन्निति भवनम्` इति। अधिकरणे ल्युट्। जायन्त उत्पद्यन्त इत्यर्थः। एतेनोत्पत्तिवचनो भवतिरत्र गृह्रते, न सत्तावचनः तस्य हि ग्रहणे सत्यन्यत्र चोत्पन्नानां यत्र स्थापनं पश्चाद्यत्र स्थाप्यन्ते तत्रापि प्रसज्येत। यदि तद्ध्युत्पत्तिवचनो भवतिर्गृह्रते, क्षेत्रग्रहणमनर्थकं स्यात्। तत्र मुद्गानां भवनं कुसूल इत्यत्र मा भूदित्येवमर्थं क्रियते। न चोत्पत्तिवचनस्य भवतेग्र्रहणे सति कुसूले प्रसङ्गः, न ह्रसौ मुद्गादीनामुत्पत्तेरधिकरणम्, किं तर्हि? सत्तायाः; नैतदस्ति; सति हि क्षेत्रग्रहणे भवतिरत्रोत्पत्तिवचनो भवति। कथम्? क्षेत्रशब्दो ह्रयंधान्यानामुत्पत्त्याधारमाचष्टे। तेन तस्य ग्रहमे सति सत्तां प्रति न भूमिः क्षेत्रव्यपदेशमासादयतीति युक्तं तदुत्पत्तौ भवतिर्वर्तत इति। क्षेत्रग्रहणे त्वसति, भवतिः सत्तावचनोऽपि गृह्रते। तथा कुसूलेऽपि प्रसज्येत। अपि च - भवनशब्दो रूढआ गृहवचनोऽपयस्ति, सोऽपि क्षेत्रशब्देन निवत्र्यत इति। अथ कथं षषठी समर्थविभक्तिरुपादीयते, यावता **तस्य भावस्त्वतलौ** (5.1.119) इत्यतः षष्ठीसमर्थविभक्तिरनुवर्तत इति ततैव सिद्धम्। एवं तह्र्रेतज्ज्ञापयति - पूर्वे प्रत्यय#आ नावश्यं षष्ठीसमर्थाद्भवन्तीति। तेन **होत्राभ्यश्छः** (5.1.135) इति। होत्रायाः प्रथमासमर्थयाः स्वार्थे च्छः सिद्धो भवति - होत्रैव होत्रीयमिति। एवञ्च चतुर्वर्णादिभ्यः प्रथमासमर्थेभ्यः स्वार्थेष्यञ्? सिद्धो भवति॥ Prakriyasarvasvam ----------------- धान्येभ्यस्तस्य भवनं क्षेत्रमित्यर्थे खञ् स्यात् । उद्भवत्यस्मिन्निति भवनम् । मौद्गीनं क्षेत्रम् ॥