51131: इगन्ताच्च लघुपूर्वात् ============================ **Padacheda:** इगन्तात् | S | 5 | 1 | च | S | 0 | 0 | लघुपूर्वात् | S | 5 | 1 | Sutrartha --------- **षष्ठीसमर्थात् इगन्त-लघुपूर्वशब्दात् 'भावः' तथा 'कर्म' एतयोः अर्थयोः अण्-प्रत्ययः भवति ।** अस्य सूत्रस्य अर्थम् ज्ञातुमादौ 'इगन्त-लघुपूर्व-शब्दः' इत्युक्ते किम्, तत् पश्यामः - [अ] 'इक्' इति कश्चन प्रत्याहारः । इवर्णः, उवर्णः, ऋवर्णः तथा ऌवर्णः अनेन प्रत्याहारेण निर्दिश्यन्ते ।अत; 'इगन्त' इत्युक्ते सः शब्दः यस्य अन्ते इक्-वर्णः विद्यते । [आ] 'लघु' इति स्वरस्य कश्चन भेदः अस्ति । शब्दे विद्यमानः ह्रस्वः स्वरः, यस्मात् अनन्तरम् संयुक्ताक्षरम् न विद्यते, **ह्रस्वं लघु** (1.4.10) इत्यनेन सूत्रेण 'लघु' इति संज्ञां प्राप्नोति । [इ] अतः इगन्त-लघुपूर्वः शब्दः इत्युक्ते सः शब्दः यस्य अन्ते इक्-वर्णः अस्ति, तथा च तस्मात् इक्-वर्णात् पूर्वम् यः स्वरः विद्यते, सः लघुसंज्ञकः अस्ति । कानिचन उदाहरणानि एतानि - (1) 'मुनि' इत्यस्मिन् शब्दे अन्तिमः स्वरः इकारः अस्ति, तथा अस्मात् इकारात् पूर्वम् विद्यमानः उकारः लघुसंज्ञकः अस्ति । अतः 'मुनि' अयम् शब्दः 'इगन्त-लघुपूर्व-शब्दः' अस्ति इत्युच्यते । (2) 'नगरी' अस्मिन् शब्दे अन्तिमः स्वरः ईकारः अस्ति (यः अपि इक्-प्रत्याहारे अन्तर्भवति), तथा च अस्मात् इकारात् पूर्वम् विद्यमानः अकारः लघुसंज्ञकः अस्ति । अतः अयमपि 'इगन्त-लघुपूर्व-शब्दः' अस्ति (3) 'प्रभु' अस्मिन् शब्दे अन्तिमः स्वरः उकारः अस्ति, तथा अस्मात् उकारात् पूर्वम् विद्यमानः अकारः लघुसंज्ञकः अस्ति (अस्मिन् शब्दे अकारात् पूर्वम् संयुक्ताक्षरम् विद्यते, अकारात् अनन्तरम् न - अतः अकारस्य लघुसंज्ञायाः बाधः न भवति), अतः अयम् शब्दः 'इगन्त-लघुपूर्व-शब्दः' अस्ति । (4) 'पितृ' अयम् शब्दः अपि 'इगन्त-लघुपूर्व-शब्दः' अस्ति । (5) 'कर्तृ' अयम् शब्दः इगन्तः अस्ति परन्तु लघुपूर्वः नास्ति । (6) 'पट' अयम् शब्दः लघुपूर्वः अस्ति परन्तु इगन्तः नास्ति । (7) 'कृष्ण' अयम् शब्दः लघुपूर्वः अपि नास्ति, इगन्तः अपि नास्ति । इदानीमस्य सूत्रस्य अर्थः स्पष्टं स्यात् - यः शब्दः इगन्त-लघुपूर्वः अस्ति, तस्मात् 'भावः' तथा 'कर्म' एतयोः अर्थयोः अण्-प्रत्ययः भवति । यथा - 1. 'शुचि' इति इगन्तलघुपूर्वः शब्दः । शुचेः भावः कर्म वा = शुचि + अण् → शौचम् । 2. मुनेः भावः कर्म वा मौनम् । 3. नगर्याः भावः कर्म वा नागरम् । 4. लघोः भावः कर्म वा लाघवम् । 5. कवेः भावः कर्म वा कावम् । विशेषः - 'कवि'शब्दः **गुणवचनब्राह्मणादिभ्यः कर्मणि च** (5.1.124) इत्यत्र निर्दिष्टे ब्राह्मणादिगणे अपि आकृतिगणत्वात् स्वीक्रियते, अतः तस्मात् **गुणवचनब्राह्मणादिभ्यः कर्मणि च** (5.1.124) इत्यनेन ष्यञ्-प्रत्ययं कृत्वा 'कवेः भावः काव्यम्' इति अपि प्रयोगः सिद्ध्यति । 6. ऋषेः भावः कर्म वा आर्षम् । 7. स्वसुः भावः कर्म वा स्वास्रम् । 8. मृदोः भावः कर्म वा मार्दवम् । 9. गुरोः भावः कर्म वा गौरवम् । 10. पितुः भावः पैत्रम् । आदयः । विशेषः - केचन वैयाकरणाः अस्य सूत्रस्य अर्थम् भिन्नरूपेण प्रतिपादयन्ति । तेषाम् मतेन 'इगन्त-लघुपूर्वः' इत्यनेन सः शब्दः निर्दिश्यते, यस्मिन् उपोत्तमः (second last) स्वरः स्वयम् इक्-वर्णः तथा लघु-वर्णः अस्ति । यथा - 'मिथुन' अस्मिन् शब्दे विद्यमानः उपोत्तमः स्वरः (थकारोत्तरः उकारः) इक्-वर्णः तथा लघु-वर्णः अस्ति, अतः तेषां मतेन अस्मात् शब्दात् अपि भावकर्मार्थयोः अण्-प्रत्ययः भवति । यथा - मिथुनस्य भावः मैथुनम् । अस्मिन् विषये अधिकम् पिपठिषवः न्यासम् काशिकाम् च पश्यन्तु । (ये पण्डिताः एतम् पक्षम् न स्वीकुर्वन्ति, तेषाम् मतेन 'मिथुनस्य भावः' इत्यत्र **तस्येदम्** (4.3.120) इति विवक्षायामण् कृत्वा 'मैथुन' इति रूपम् सिद्ध्यति )। ज्ञातव्यम् - **आ च त्वात्** (5.1.120) इत्यनेन अत्र निर्दिष्टेभ्यः सर्वेभ्यः शब्देभ्यः भावकर्मार्थयोः औत्सर्गिकौ 'त्व' / 'तल्' प्रत्ययौ अपि भवतः । यथा - शुचेः भावः कर्म वा शुचित्वम् / शुचिता । Vasu English Summary -------------------- The affix अण् comes in the sense of 'nature or action thereof' after a stem ending in इक् (इ ई उ ऊ ऋ or ऌ) when the preceding syllable is prosodially light. Vasu English Translation ------------------------ The affix अण् comes in the sense of 'nature or action thereof' after a stem ending in इक् (इ ई उ ऊ ऋ or ऌ) when the preceding syllable is prosodially light. Thus शुचेर्भावः कर्म वा = शौचम्, मौनम् (मुनि), नागरम् (नगर), हारितकम् (हरीतकी) पाटवम् (पटु), लाघवम् (लघु). Why do we say लघुपूर्वात् 'the preceding syllable being light'? Observe कण्डूत्वम्, पाण्डुत्वम् ॥ Why काव्यम् from कवि? The word कवि takes ष्यञ् as belonging to *Brahmanadi* class (5.1.124). N. B. The word *anta* in the *Sutra* may will be dispensed with. The aphorism *laghupurvad* *ikah* will give the same meaning. Kashika ------- इगन्ताच्च लघुपूर्वादण् प्रत्ययो भवति भावकर्मणोः। लघुपूर्वग्रहणेन प्रातिपदिकसमुदायो विशेष्यते। लघुः पूर्वोऽवयवोऽस्येति लघुपूर्वः। कुतः पुनरसौ लघुः पूर्वः? इक्संनिधानादिक इति विज्ञायते। लघुः पूर्वो यस्मादिकः तदन्तात् प्रातिपदिकादित्ययमर्थो विवक्षितः। अपरे तत्पुरुषकर्मधारयं वर्णयन्ति। इक् चासावन्तश्चेतीगन्तः। लघुपूर्वग्रहणेन स एव विशेष्यते। पश्चात् तेन प्रातिपदिकस्य तदन्तविधिरिति। अस्मिन् व्याख्यानेऽन्तग्रहणमतिरिच्यते। लघुपूर्वादिक इत्येतावदेव वाच्यं स्यात्। शुचेर्भावः कर्म वा शौचम्। मौनम्। नागरम्। हारीतकम्। पाटवम्। लाघवम्। इगन्तादिति किम्? पटत्वम्। घटत्वम्। लघुपूर्वादिति किम्? कण्डूत्वम्। पाण्डुत्वम्। कथं काव्यमिति ? ब्राह्मणादिषु कविशब्दो द्रष्टव्यः॥ Siddhanta Kaumudi ----------------- शुचेर्भावः कर्म वा शौचम् । मौनम् । कथं काव्यम् । कविशब्दस्य ब्राह्मणादित्वात्ष्यञ् ॥ Laghu Siddhanta Kaumudi ----------------------- इगन्ताल्लघुपूर्वात् प्रातिपदिकाद्भावेऽण् प्रत्ययः । पार्थवम् । म्रदिमा, मार्दिवम् ॥ Balamanorama ------------ **इगन्ताच्च लघुपूर्वात्** - इगन्ताच्च । लघुः पूर्वोऽवयवो यस्येति विग्रहः । पूर्वत्वं च इगवधिकमेव गृह्रते, व्याख्यानात् । तथा च लघुपूर्वो य इक्तदन्तात्प्रातिपदिकात्षष्ठन्ताद्भावकर्मणोरण्स्यादित्यर्थः ।गणवचने॑त्यादेरपवादः । कतं काव्यमिति । कविशब्दस्य लघुपूर्वेगन्तत्वात्गुणवचने॑ति ष्यञं बाधित्वा अण्प्रसङ्गात्काव्यमिति कथमित्याक्षेपः । समाधत्तेः — कविशब्दस्येति । ब्राआहृणादित्वादित्यनन्तरंष्यञि उपपाद्य॑मिति शेषः । Tattvabodhini ------------- **इगन्ताच्च लघुपूर्वात्** - इगन्ताच्च । लघुः पूर्वोऽवयवो यस्येति प्रातिपदिकविशेषणम् । पूर्वत्वं च संनिधानदिगवधिकमेव । तेनाऽतिपाण्डुशब्दान्न भवति ।लघुपूर्वेकः॑इत्येव सुवचम् । लघुपूर्वश्चासौ इक् च लघुपूर्वेक् । तस्य प्रातिपदिकविशेषणात्तदन्तलाभ इति नव्याः । इगन्तात्किम् । घटत्वम् । लघुपूर्वात्किम् । पाण्डुत्वम् । कथं काव्यमिति । कुधातोःओरावस्यके॑इति रूप सिद्धावपि कवेः कर्मेत्यर्थे कावमिति स्यादिति प्रश्नः । Padamanjari ----------- लघुपूर्वग्रहणेन प्रातिपदिकसमुदायो विसेष्यते इति। यद्येवम्, पूर्वशब्दोऽवयववचनः, व्यवस्थावचनो वा, तत्राद्ये पक्षे यस्य सर्वपूर्वो वर्णो लघुस्तस्मादेवेष्वणुप्रभृतेः स्यात्, द्वितीये तु पाण्डुप्रभृतिभ्योऽपि स्यात्। यदा लघुः पूर्वो भवतीत्याशखङ्क्यावयववचन एव पूर्वशब्दः, सोऽप्यवध्यपेक्ष एव प्रवर्तते, तत्र कस्यचिदनिर्द्देशे सर्वपूर्वः प्रतीयते, इह तु सन्निधानादिक एवेति ? दर्शयति - लघुः पूर्वो यस्येत्यादि। तेनेति लघुपूर्वेणेगन्तेन। अस्मिन्व्याख्याने, अन्तग्रहणमतिरिच्यत इति लघुपूर्वेणेका प्रातिपदिकस्य विशेषणातदन्तविधेः सिद्धत्वात्। कथं काव्यमिति। कावमिति भवितव्यमिति प्रश्नः ॥ योपधाद् गुरूपोतमाद् वुञ् ॥ त्रिप्रमृतीनामित्यादि। एतच्च ठणिञोरनार्षयोःऽ इत्यत्र व्याख्यातम्। सहायाद्वेवेति वक्तव्यमिति। सूत्रेण नित्ये प्राप्ते विकल्पः ॥ Nyaas ----- `इगन्तात्` इति। इक्? अन्तो यस्येति बहुव्रीहिः। प्रातिपदिकमन्यपदार्थः। `लघुपूर्वग्रहणे` इत्यादि। अथेगेव कस्मान्न विशेष्यते? तस्य बहुव्रीह्रर्थे गुणभूतत्वाद्विशेषणेन सम्बन्धस्य कर्त्तुमशक्यत्वात्। पूर्वशब्दोऽयं व्यवस्थाशब्दत्वादपरमपेक्षते। इह चापरस्यानिर्दिष्टत्वान्न ज्ञायते - कुतो लघुः पूर्वः? तत्परिज्ञानाय पृच्छति - `कुतः पुनरसौ लघुः पूर्वः` इति। प्रत्यासत्तिन्यायमाश्रित्याह - `सन्निधानात्` इत्यादि। सन्निधानं त्विह सूत्रे इकः; श्रुतत्वात्। `तेन` इति। अन्तभूतेन लघुपूर्वेणेकान्तग्रहणमितिरिच्यत इति; निष्फलत्वात्। यतो हि `लघुपूर्वात्` इत्युक्ते च प्रातिपदिकस्य तदन्तविधो सति सामर्थ्यादेव तस्यान्तत्वं लभ्यत इत्यपार्थकमन्तग्रहणमस्मिन्? व्याख्याने। पूर्वके तु विधाने, अन्तग्रहणेऽसति `लघुपूर्वेग्वतः` इत्येव विधिनिर्देशो विज्ञायते, ततश्चानन्तस्यापीको विधित्वं स्यात्। तदा लशुनलकुटप्रभृतिभ्योऽपि प्रत्ययप्रसङ्ग इत्येवमर्थमन्तग्रहणम्। `कथं काव्यम्` इति। अन्यथा भवितव्यम्; कविशब्दस्य लघुपूर्वोगन्तत्वादित्यभिप्रायः॥ Prakriyasarvasvam ----------------- इगन्तादुपान्त्यलघुकाच्छब्दाद् भावकर्मणोरण् । शुचेर्भावः शौचम् । मौनम् । मार्दवम् । सौरभोऽस्त्रियामित्युक्तेः तत् पुंस्यपि । गुरुलघ्वादेरुत्तरपदवृद्धिमाह भोजः । दोषस्य गुरुलाघवम् । कवेः ष्यञ्नेष्टः । काव्यम् ॥