51121: न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः ========================================================= **Padacheda:** न | S | 0 | 0 | नञ्पूर्वात् | S | 5 | 1 | तत्पुरुषात् | S | 5 | 1 | अ-चतुर-संगत-लवण-वट-युध-कत-रस-लसेभ्यः | S | 5 | 3 | Sutrartha --------- **'भावः' इत्यस्मिन् अर्थे अग्रे विहिताः अपवादप्रत्ययाः चतुर-संगत-लवण-वट-युध-कत-रस-लस-शब्दान् वर्जयित्वा अन्येषां विषये नञ्-तत्पुरुष-समासात् पूर्वम् न विधीयन्ते ।** **तस्य भावस्त्वतलौ** (5.1.119) इत्यनेन सूत्रेण 'भावः' अस्मिन् अर्थे 'त्व' तथा 'तल्' प्रत्ययौ उच्येते ।**ब्रह्मणस्त्वः** (5.1.136) इति सूत्रपर्यन्तम् एतयोः प्रत्यययोः भिन्नाः अपवादाः अपि पाठिताः सन्ति । एतेषाम् अपवादानाम् विषये द्वौ नियमौ वर्तमानसूत्रेण निर्दिष्टौ स्तः - 1.यदि प्रातिपदिकम् नञ्-तत्पुरुष-समासेन निर्मितमस्ति, तर्हि 'भावः' अस्मिन् अर्थे त्व-तल्-प्रत्यययोः एव प्रयोगः करणीयः, अपवादरूपेण विहितानाम् प्रत्ययानाम् प्रयोगः न करणीयः । 2. परन्तु, 'चतुर', 'संगत', 'लवण', 'वट'. 'युध', 'कत', 'रस', 'लस' - एतेषाम् शब्दानां विषये नञ्-समासेन निर्मितम् प्रातिपदिकमस्ति चेद् यथोचितः अपवादप्रत्ययः प्रयोक्तव्यः । उदाहरणानि कानिचन एतादृशानि - 1. 'भावः' अस्मिन् अर्थे **पत्यन्तपुरोहितादिभ्यो यक्** (5.1.128) इति किञ्चन सूत्रम् पाठ्यते । अनेन सूत्रेण 'पति' शब्दः यस्य अन्ते विद्यते तादृशात् शब्दात् 'यक्' प्रत्ययः भवति । यथा - सेनापतेः भावः सैनापत्यम् । परन्तु नञ्-तत्पुरुष-समासेन निर्मितस्य 'अपति' शब्दस्य विषये वर्तमानसूत्रेण अयम् यक्-प्रत्ययः निषिध्यते, अतः 'अपतेः भावः' अस्मिन् अर्थे औत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवत, याभ्याम् 'अपतित्वम्' तथा 'अपतिता' एतौ शब्दौ भवतः । 2. **इगन्ताच्च लघुपूर्वात्** (5.1.131) इत्यनेन सूत्रेण 'शुचि' शब्दात् 'भावः' अस्मिन् अर्थे 'अण्' प्रत्ययः भवति - शुचेः भावः शौचम् । परन्तु नञ्-तत्पुरुष-समासेन निर्मितात् 'अशुचि' शब्दात् वर्तमानसूत्रेण अस्य प्रत्ययस्य निषेधः भवति, अतः ओत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवतः । न शुचिः अशुचिः, अशुचेः भावः अशुचित्वम्, अशुचिता । स्मर्तव्यम् - [1] 'अशौचम्' अयमपि कश्चन शब्दः भाषायाम् प्रयुज्यते, परन्तु तस्य अर्थः भिन्नः अस्ति - अ) न विद्यते शौचम् यस्मिन् तत् अशौचम् - इति बहुव्रीहिसमासेन अत्र शब्दः सिद्ध्यति । आ) 'न शौचम्' इति नञ्-तत्पुरुषसमासेन अयम् शब्दः सिद्ध्यति । [2] नञ्-बहुव्रीहिसमासेन निर्मितः यः 'अशुचि' शब्दः, तस्य विषये अपि वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः तस्मात् शब्दात् अपि 'भावः' अस्मिन् अर्थेे **इगन्ताच्च लघुपूर्वात्** (5.1.131) इत्यनेनैव 'अण्' प्रत्ययः एव क्रियते । न विद्यते शुचिः यस्य सः अशुचिः, अशुचेः भावः अशौचमाशौचम् वा (**नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्** (7.3.30) इति उत्तरपदवृद्धिः, वैकल्पिका पूर्वपदवृद्धिश्च) । 3. **योपधाद्गुरूपोत्तमाद्वुञ्** (5.1.132) इत्यनेन 'रमणीयस्य भावः' अस्मिन् अर्थे 'रामणीयक' इति शब्दः सिद्ध्यति । परन्तु नञ्-तत्पुरुष-समासेन निर्मितः यः 'अरमणीय'शब्दः, तस्मात् 'अरमणीयस्य भावः' अस्मिन् अर्थे वर्तमानसूत्रेण वुञ्-प्रत्ययः निषिध्यते, अतः औत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवतः । अरमणीयस्य भावः अरमणीयत्वमरमणीयता वा । अनेन सूत्रेण उक्तः निषेधः 'चतुर', 'संगत', 'लवण', 'वट'. 'युध', 'कत', 'रस', 'लस' - एतेषाम् शब्दानां विषये न विद्यते । एतेषाम् सर्वेषाम् विषये **गुणवचनब्राह्मणादिभ्यः कर्मणि च** (5.1.124) अनेन सूत्रेण विहितः ष्यञ्-प्रत्ययः नञ्-तत्पुरुष-समासस्य विषये अपि विधीयते । यथा - 1. अचतुरस्य भावः आचतुर्यम् । 2. असंगतस्य भावः आसङ्गत्यम् 3. अलवणस्य भावः आलवण्यम् । 4. अवटस्य भावः आवट्यम् । 5. अयुधस्य भावः आयुध्यम् । विशेषः - काशिकायाः केषुचन संस्करणेषु 'युध' इत्यस्य स्थाने 'बुध' इति शब्दः दृश्यते । अबुधस्य भावः आबुध्यम् । 6. अकतस्य भावः आकत्यम् । 7. अरसस्य भावः आरस्यम् । 8. अलसस्य भावः आलस्यम् । विशेषः - **गुणवचनब्राह्मणादिभ्यः कर्मणि च** (5.1.124) अस्मिन् सूत्रे पाठितः ब्राह्मणादिगणः आकृतिगणः अस्तीति स्वीक्रियते, अतः च एते सर्वे शब्दाः ब्राह्मणादिगणे समाविश्यन्ते । अतएव एतेभ्यः ष्यञ्-प्रत्ययः भवति । स्मर्तव्यम् - 1. अनेन सूत्रेण उक्तः निषेधः केवलं नञ्-तत्पुरुषसमासस्य विषये एव अस्ति ; नञ्-बहुब्रीहिसमासस्य विषये न । यथा, 'न विद्यन्ते अस्य पटवः सः अपटुः' अस्मिन् अर्थे नञ्-बहुब्रीहिसमासेन जायमानात् 'अपटु' शब्दात् तु **इगन्ताच्च लघुपूर्वात्** (5.1.131) इत्यनेन अण्-प्रत्ययः भवत्येव - अपटोः भावः आपटवम् । 2. भावकर्मार्थप्रकरणे **गुणवचनब्राह्मणादिभ्यः कर्मणि च** (5.1.124) इत्यस्मात् अग्रे उक्ताः प्रत्ययाः 'भावः' अस्मिन् अर्थे तु सन्ति एव, परन्तु 'कर्म' अस्मिन् अर्थे अपि प्रोक्ताः सन्ति ।अस्यां स्थितौ वर्तमानसूत्रेण उक्तः निषेधः द्वयोः अपि अर्थयोः विषये स्वीक्रियते इति ज्ञेयम् । यथा - न शुचिः अशुचिः, अशुचेः कर्म अशुचित्वम्, अशुचिता । 3. यद्यपि अनेन सूत्रेण नञ्-तत्पुरुष-समासस्य विषये अपवादप्रत्ययविधानम् निषिध्यते, तथापि प्रारम्भे अपवाद-प्रत्ययं कृत्वा ततः नञ्-तत्पुरुषसमासविधानम् भवितुमर्हत्येव । यथा - शुचेः भावः शौचम् (अण्-प्रत्ययः), न शौचम् इति अशौचम् । 4. अस्मिन् सूत्रे उक्तः निषेधः 'भावः' अस्मिन् अर्थे विहितानाम् प्रत्ययानां विषये अस्ति । एतेभ्यः शब्देभ्यः 'कर्म' अस्मिन् अर्थे अपि एतादृशम् एव प्रत्ययविधानम् भवति वा - अस्मिन् विषये व्याख्यानेषु स्पष्टरूपेण किमपि न उच्यते । Vasu English Summary -------------------- The affixes denoting 'nature' taught hereafter do not come after a तत्-पुरुष compound formed by the negative particle नञ् with the exception of the the following - 1. चतुर 2. संगत 3. लवण 4. वट 5. बुध 6. कत 7. रस and 8. लस । Vasu English Translation ------------------------ The affixes denoting 'nature' taught hereafter do not come after a तत्-पुरुष compound formed by the negative particle नञ् with the exception of the the following - 1. चतुर 2. संगत 3. लवण 4. वट 5. बुध 6. कत 7. रस and 8. लस । Thus the words अपति, अपटु and अरमणीय will have two forms only i.e. अपतित्वम् or अपतिता, अपटुत्वम् or अपटुता, अरमणीयत्वम् or अरमणीयता ॥ While by (5.1.128), other compounds will have यक् also, as सैनापत्यम् ॥ An exception to this is आविदूर्य (7.2.25), as used by the author himself. Why do we say नञ् पूर्वात् "a *Tatpurusha* whose first member is नञ्"? Observe बार्हस्पत्यम्, प्राजापत्यम् ॥ Why do we say 'after a *Tatpurusha*?' Observe, when the word अपटु is a *Bahuvrihi* compound meaning नास्य पटवः सन्ति, its derivative will be आपटवम्. So also, आलाघवम् ॥ So also the compounds of चतुर &c, with नञ्, e.g. आचतुर्यम्, आसंगत्यम्, आलवण्यम्, आवट्यम्, आबुध्यम्, आकत्यम्, आरस्यम्, आलस्यम् ॥ In some texts, there is युध instead of बुध ॥ Bhashya ------- न नञ्ञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः (2003) (निषेधाधिकरणम्) (निषेधप्रयोजनाक्षेपभाष्यम्) कस्यायं प्रतिषेधः? त्वतलोरित्याह। नैतदस्ति प्रयोजनम्। इष्येते नञ्ञ्पूर्वात्तत्पुरुषात्वतलौ - अब्राह्मणत्वम्, अब्राह्मणतेति। अत उत्तरं पठति - (5694 निषेध्यकथनवार्तिकम्॥ 1 ॥) - न नञ्ञ्पूर्वादित्युत्तरस्य प्रतिषेधः - (भाष्यम्) न नञ्ञ्पूर्वात् इत्युत्तरस्य भावप्रत्ययस्य प्रतिषेधः क्रियते॥ (प्रयोजनाक्षेपभाष्यम्) नैतदस्ति प्रयोजनम्। परिगणिताभ्यः प्रकृतिभ्य उत्तरो भावप्रत्ययो विधीयते, न च तत्र काचिन्नञ्ञ्पूर्वा प्रकृतिर्गृह्यते। तदन्तविधिना प्राप्नोति। ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते। यत्र तर्हि तदन्तविधिरस्ति - पत्यन्तपुरोहितादिभ्यो यक्(5.1.128) इति। यद्येतावत्प्रयोजनं स्यात्तत्रैवायं ब्रूयात् - पत्यन्ताद्यग्भवति, नञ्ञ्पूर्वात्तत्पुरुषान्नेति॥ (प्रयोजनभाष्यम्) एवं तर्हि ज्ञापयत्याचार्यः - उत्तरो भावप्रत्ययो नञ्ञ्पूर्वाद्बहुव्रीहेर्भवतीति॥ (आक्षेपभाष्यम्) नेष्यते। त्वतलावेवेष्येते। अविद्यमानाः पृथवोऽस्यापृथुः, अपृथोर्भावः - अपृथुत्वम्, अपृथुतेति। (प्रयोजनभाष्यम्) एवं तर्हि ज्ञापयत्याचार्यः - उत्तरो भावप्रत्ययोऽन्यपूर्वात्तत्पुरुषाद्भवतीति। (आक्षेपभाष्यम्) नैवेष्यते। त्वतलावेवेष्येते। परमः पृथुः - परमपृथुः, परमपृथोर्भावः - परमपृथुत्वम्, परमपृथुता। (प्रयोजनभाष्यम्) एवं तर्हि ज्ञापयत्याचार्यः - उत्तरो भावप्रत्ययः सापेक्षाद्भवतीति। किमेतस्य ज्ञापने प्रयोजनम्? नञ्ञ्समासादन्यो भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् इत्युक्तं तदुपपन्नं भवति॥ (प्रयोजनाक्षेपभाष्यम्) एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति - सर्व एते तद्धिताः सापेक्षाद्भवन्तीति यदयं नञ्ञो गुणप्रतिषेधे संपाद्यर्हहितालमर्थास्तद्धिताः (6.2.155) इत्याह॥ Kashika ------- इत उत्तरे ये भावप्रत्ययाः ते नञ्पूर्वात् तत्पुरुषाद् न भवन्ति चतुरादीन् वर्जयित्वा। वक्ष्यति — **पत्यन्तपुरोहितादिभ्यो यक्** (५.१.१२८) इति। अपतित्वम्। अपतिता। अपटुत्वम्। अपटुता। अरमणीयत्वम्। अरमणीयता। नञ्पूर्वादिति किम् ? बार्हस्पत्यम्। प्राजापत्यम्। तत्पुरुषादिति किम्? नास्य पटवः सन्तीत्यपटुः, तस्य भाव आपटवम्। आलघवम्। अचतुरादिभ्य इति किम्? आचतुर्यम्। आसंगत्यम्। आलवण्यम्। आवट्यम्। आबुध्यम्। आकत्यम्। आरस्यम्। आलस्यम्॥ Siddhanta Kaumudi ----------------- इतः परं ये भावप्रत्ययास्ते नञ्तत्पुरुषान्न स्युश्चतुरादीन्वर्जयित्वा । अपतित्वम् । अपटुत्वम् । नञ्पूर्वात्किम् । बार्हस्पत्यम् । तत्पुरुषात्किम् । नास्य पटवः सन्तीत्यपटुस्तस्य भाव आपटवम् । अचतुरेति किम् । आचतुर्यम् । आसङ्गत्यम् । आलवण्यम् । आवट्यम् । आयुध्यम् । आकत्यम् । आरस्यम् । आलस्यम् ॥ Balamanorama ------------ **न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतर- सलसेभ्यः** - न नञ्पूर्वात् । इतः परमिति । त्वतल्विधेरूध्र्वमित्यर्थः, नञ्पूर्वादित्युत्तरस्य प्रतिषेध इति भाष्यादिति । भावः । चतुरादीनिति । चतुर, सङ्गत, लवण, वट, युध, कत, रस, लस, — एतान्वर्जयित्वेत्यर्थः । अपतित्वमिति । इह॒पत्यन्तपुरोहितादिभ्यः॑ इति यक्न भवति । अपटुत्वमिति । इह॒इगन्ताच्च लघुपूर्वा॑दित्यण्न भवति । बार्हस्पत्यमिति ।पत्यन्तपुरोहितादिभ्यः॑ इति यक् । आपटवमिति ।इगन्ताच्च लघुपूर्वा॑दित्यण् । अपटुशब्दस्य बहुव्रीहित्त्वात्तत्पुरुषत्वाऽभावान्नास्याऽणो निषेध इति भावः । आचतुर्यमिति । अचतुरस्य भावः । ब्राआहृणादित्वात्ष्यञ् । आसंगत्यमिति । असङ्गतशब्दात्ष्यञ् । आलवण्यमिति । अलवणशब्दात्ष्यञ् । आवटमिति । न वटः अवटः, तस्मात्ष्यञ् । आयुध्यमिति । आयुधशब्दात्ष्यञ् । आकत्यमिति । अकतशब्दात्ष्यञ् । आरस्यमिति । अरसशब्दात्ष्यञ् । आलस्यमिति । लसतीति लसः । न लसः अलसः । तस्मात्ष्यञ् । Tattvabodhini ------------- **न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतर- सलसेभ्यः** - अपतित्वमिति । इहपत्यन्ये ॑ति यग् न भवति । अपटुत्वमिति । इह तुइगन्ताच्च लघुपूर्वा॑दित्यण् न भवति । आचतुर्यमित्यादि । ब्राआहृणादित्वात् ष्यञ् । Padamanjari ----------- ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति त्वतलोरयं प्रतिषेध इति भ्रान्ति वारयति। इत उतरे ये प्रत्यया इति। एतच्च ठा च त्वात्ऽ इति सम्बन्धाल्लभ्यते। चतुरादीनीति। चतुराद्यन्ताÄस्तत्पुरुषान्नञ्पूर्वानित्यर्थः। ननु'पृथ्वादिभ्य इमनिज्वा' इत्यादिभिः परिणणिताभ्यः प्रकृतिभ्य उतरो बावप्रत्ययो विधीयते। न च तत्र काचिन्नञ्पूर्वा प्रकृतिर्गृह्यते। तदन्तविधिश्च ग्रहणवता प्रातिपदिकेन प्रतिषिध्धः। यत्र तर्हि स्वरूपग्रहणं नास्ति पत्यन्ताद्यग्भवति, हायनान्तादण् भवति, ठिगन्ताच्च लघुपूर्वात्ऽ,'योपदाद्गुरुपोतमाद्वुञ्' इति, तत्र नञ्पूर्वातत्पुरुषादस्त्येव प्रसङ्गस्तद्दर्शयति - वक्ष्यति पत्यन्त पुरोहितादिभ्यो यगिति। अपतित्वमपतितेति। ततु ठा च त्वात्ऽ इत्यधिकार इत्युक्तम्, ततश्च पत्यन्तेत्यनेनैव त्वतलोरप्यधिकृतयोविधानम्। ततः किम् ? यक इव त्वतलोरप्यं प्रतिषेधः प्राप्नोति। अस्त्वेवमधिकृतयो स्त्वतलोः प्रतिषेधः,'तस्य भावः' इत्यनेन पुनस्त्वतलौ भविष्यतः; बाधकाभावात्। यदि पत्यन्तादिप्वेवास्योपयोगः, पत्यन्तेत्यस्यैव पुरस्तादिदं पठितव्यम्, तदेवोतरत्राप्यनुवर्तिष्यते। एवं तर्ह्त्र प्रदेशे प्रतिषेधाधिकअरस्योपादानादिमनिजादीनामपि प्रतिषेदो विज्ञायते। ननु चोक्तम् -'तदन्तविध्यभावादप्रसङ्गः' इति ? एवं तर्ह्येतज्ज्ञापयति-अस्त्युतरत्र तदन्तविधिरित। किमेतस्य ज्ञापने प्रयोजनम् ? नञ्पूर्वाद्बहुव्रीहेरन्यपूर्वाच्च तत्पुरुषात्पृथ्वाद्यन्तादिमनिजादिः सिद्धो भवति - न विद्यन्ते पृथ्वो यस्य अपृथुः, परमपृथुः, तस्य भाव इति। नात्रोमनिजादिरिष्यते, अत एव वृत्तिकारेणापि नास्य पटवः सन्तीत्यपटुअरित्यादि व्यावर्त्य दर्शितम्, तस्मादिहास्य करणे प्रयोजनं चिन्त्यम्। आचतुर्यमित्यादौ ब्राह्मणादित्वात्ष्यञ् ॥ Nyaas ----- अधिकारोऽयम्। तेनोत्तरेषां भावप्रत्ययानां प्रतिषेधो विज्ञायते; न त्वतलोरिति मत्वाऽऽ-`इत उत्तरे ये भावप्रत्ययाः` इत्यादि। न तु **पृथ्वादिभ्य इमनिज्वा** (5.1.122) इत्येवमादिंभिर्योगैः परिगणिताभ्य एव प्रकृतिभ्यः प्रत्ययो विधीयते। न च तत्र काचित्? प्रकृतिर्नञ्पूर्वा गृह्रते, न च तदन्तविधिरस्ति; ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्। तस्मात् तत्र नञ्पूर्वात्? प्राप्तिर्नास्तीति नास्त्यस्योपयोगः? सत्यम्; यत्र त्वन्तग्रहण् - **पत्यन्तपुरोहितादिभ्यो यक्** (5.1.128) इत्येवमादिषु योगेष्वस्ति, यत्र च स्वरूपग्रहणं नास्ति **योपधाद्गुरूपोत्तमाद्वुञ्** (5.1.132) इत्येवमादिषु, तत्र नञ्पूर्वादपि प्राप्तिरस्तीति प्रतिषेधः क्रियते। `अपतित्वम्` इति। नञ्समासे कृत उत्तरकालं पत्यन्तादभावविवक्षायां **पत्यन्तपुरोहितादिभ्यो यक्** (5.1.128) इत्यादिना यग्न भवति। `अपटुत्वम्` इति। `इगन्त` (5.1.131) इत्यण्? न भवति। `अरमणीयत्वम्` इति। `योपदात्` (5.1.132) इत्यादिना वुञ्? न भवति। नास्य पटवः सन्तीत्यपटुरिति बहुव्रीहिरयम्, तेनास्मादिगन्तलक्षणोऽण्? भवति - `आपटवम्` इति। `आचतुर्यम्` इति। ब्राआहृणादित्वात्? ष्यञ्। ननु च नञ्समासा ब्राआहृणादिषु न षठन्ते, तत्कुतस्तेन ष्यञ्? नैष दोषः; आकृतिगणो हि ब्राआहृणादिरिष्यते। अचतुरादिप्रतिषेध एवाकृतिग्रहणस्य ज्ञापकम्॥ Prakriyasarvasvam ----------------- नञ्पूर्वात् तत्पुरुषादिमनिजादयो भावप्रत्यया न स्युः । तस्माद् अपतित्व- मपतित्वेत्यत्र पत्यन्ताद् यङ्न । चतुरसङ्गतादेस्तु नञि यथार्हं स्यादेव । तेन ष्यञ् । आचतुर्यम् । आसङ्गत्यम् । आलवण्यम् । आवटच्यम् । आबुध्यम् । आकत्यम् । आरस्यम् । आलस्यम् । तत्पुरुषादित्युक्तेर्बहुव्रीहौ ष्यञादिः स्यात् । आनृण्यम् इति । भोजोक्तोऽनुशतिकादिरत्रोच्यते । 'अनोः शतिकहोडसंवरणहर- त्संवत्सराणाम्' । (स० ७-१-३४) । शतेन क्रीतं शतिकं वस्त्रादि, तेनानुगतोऽ- नुशतिकः, तस्येदमानुशातिकम् । अनुहोडेन चरन्नानुहौडिकः । अनुसंवरणं देयमानुसांवरणिकम् । एवमानुसांवत्सरिकम् । कुरोः कतपाञ्चालयोः' (स० ७- १-३५) कुरुकतस्य पुत्रः कौरुकातयः । गर्गादिः । कुरुपाञ्चालेषु भवः कौरुपाञ्चालः । 'अधेर्देवभूतयोः' (स० ७-१-३६) । 'इहपराभ्यां लोकस्य' (स० ७-१-३७) । 'सर्वाद् भूमिपुरुषयोश्च' (स० ७-१-३८) चकाराल्लोकस्य च । 'अस्याद्धत्यहेत्योः' (स० ७-१-३९) । अस्यहत्यशब्दवानध्याय आस्यहात्यः । विमुक्तादिः । अस्य हेतिः प्रयोजनमस्येत्यास्यहैतिकः । निपातनादलुक् । 'वध्योगप्रयोगाभिगमाङ्गार- वेणुपरस्त्रीपुष्करसदुदकशुद्धसूत्रनडचतुर्विद्यासिहत्याशतकुम्भसुखशयनादीनां च' (स० ७-१-४०) वध्योगपौत्रौ वाध्यौगः । विदादिः अपत्याणि आङ्गारवैणवः । अत इञि औदकशौद्धिः । सौत्रनाडिश्च । आद्युक्तेः 'पुरीमाजातशात्रवीम् ' इति माधवोक्तावनुशतिकादित्वं व्याख्यातम् । 'राजपुरुषपरिमण्डलप्रतिभूसर्ववेदानां ष्यञि' (स० ७-१-४१) इति च । द्वारादिस्तु- स्त्रियं सौवीं सौबीमिव वहसि सौवादुमुदवीं गतिं धत्से च त्वं वचसि विसरत्सौवरगुणे । द्विजान् नित्यं सौवस्तिकयसि च शौवस्तिकपरः सति त्वय्यन्येषां नृवर ! चरति शौवनमिव'' ॥ ३१२ ॥ इति ॥