51109: प्रयोजनम् ================ **Padacheda:** प्रयोजनम् | S | 1 | 1 | Sutrartha --------- **'अस्य प्रयोजनम्' अस्मिन् अर्थे प्रथमासमर्थात् प्रयोजनवाचिशब्दात् यथाविहितं प्रत्ययः भवति ।** प्रयोजनम् इत्युक्ते उद्देशः / कारणम् / फलम् (goal / purpose) । प्रथमासमर्थात् उद्देशवाचीशब्दात् 'अस्य' इत्यस्मिन् अर्थे औत्सर्गिकः ठञ् प्रत्ययः भवति । वस्तुतस्तु कमपि शब्दम् स्वीकृत्य 'तत् अस्य प्रयोजनम्' इति अर्थः वक्तुं शक्यते । तथापि, अस्य सूत्रस्य प्रयोगः शिष्टप्रयोगमनुसृत्य एव करणीयः । अस्मिन् विषये व्याख्यानेषु लभ्यमानानि उदाहरणानि एतानि सन्ति - 1. इन्द्रमहः (= इन्द्रस्य उत्सवः) प्रयोजनमस्य तत् ऐन्द्रमहिकम् वाद्यम् । 2. गङ्गामहः (= गङ्गायाः उत्सवः) प्रयोजनमस्याः सा गाङ्गामहिकी पुष्पमाला । अत्र स्त्रीत्वे **टिड्ढाणञ्..** (4.1.15) इति ङीप्-प्रत्ययः क्रियते । Vasu English Summary -------------------- The affix ठञ् comes in the sense of 'that whose occasion or purpose is this' after a word in the Nominative 1st-Case in construction. Vasu English Translation ------------------------ The affix ठञ् comes in the sense of 'that whose occasion or purpose is this' after a word in the Nominative 1st-Case in construction. As इन्द्रमहः प्रयोजनमस्य = ऐन्द्रमहिकम्, गाङ्गामहिकम् ॥ Kashika ------- तदस्येत्येव। तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं प्रयोजनं चेत् तद् भवति। इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम्। गाङ्गामहिकम्॥ Siddhanta Kaumudi ----------------- तदस्येत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजनं फलं कारणं च ॥ Balamanorama ------------ **प्रयोजनम्** - प्रयोजनम् । तदस्येत्येवेति । अस्य प्रयोजनमित्यर्थे प्रथमान्ताट्ठञित्यर्थः । इन्द्रमह इति । इन्द्रोत्सव इत्यर्थः । 'मह उद्धव उत्सवः' इत्यमरः । प्रयोजनं फलं कारणं चेति । प्रयुज्यते प्रवृत्त्या निष्पाद्यते इति कर्मणि ल्युटि प्रयोजनशब्दः फलवाची । प्रयुज्यते प्रवर्तते पुरुषोऽनेनेति करणे ल्युटि प्रयोजनशब्दः प्रवर्तकवाचीत्यर्थः । Tattvabodhini ------------- **प्रयोजनम्** - इन्द्रमह इति । महः -उत्सवः । वैशाखो मन्थः । आषाढो दण्ड इति । वैशाखाऽऽषाढशब्दौ रूढिरूपेण मन्थदण्डयोर्वर्तेते । तयोस्तु यथा कथंचिद्व्युत्पत्तिः क्रियत इति हरदत्तः । विलोडनदण्डस्यैवाधारभूतः काष्ठविशेषोमन्थ॑इत्युच्यते । Padamanjari ----------- प्रयुज्यतेऽनेनेति प्रयोजनम्, करणे ल्युट्। किं पुनस्तत्फलम् ? यथाहुः - यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनमिति। इन्द्रमहःउइन्द्रोत्सवः ॥ Nyaas ----- प्रयोजयतीति प्रयोजनम्। **कृत्यल्युटो बहुलम्** (3.3.113) इति कर्तरि ल्युट्॥ Prakriyasarvasvam ----------------- तदस्य प्रयोजनमित्यर्थे ठञ् । तच्च फलं हेतुर्वेति रामः । पौष्टिकं कर्म । मोक्षार्थी मौक्षिको नरः । हेतौ-वैवाहिकः उत्सवः। अस्य हेतिः प्रयोजनमस्येति आस्यहैतिकः । अनुशतिकादित्वाद् वृद्धिः । तत्र गणे निपातनादलुक् ॥ Sutra Prayogas -------------- * **आलानिकं** (रघुवंशम्): `प्रयोजनम्` इति ठक्। * **कारुणिको** (रघुवंशम्): `प्रयोजनम्` इति ठञ्। * **वैवाहिकैः** (कुमारसम्भवम्): `प्रयोजनम्` इति ठक्। * **माङ्गलिकतूर्यकृतां** (किरातार्जुनीयम्): `प्रयोजनम्` इति ठञ् । * **सार्वकामिकम्** (किरातार्जुनीयम्): `प्रयोजनम्` इति ठक् प्रत्ययः। * **प्रापणिकात्** (शिशुपालवधम्): `तदस्य प्रयोजनम्` इति ठक्। * **सांयात्रिकान्** (शिशुपालवधम्): `प्रयोजनम्` इति ठक्-प्रत्ययः। * **सांनहनिकः** (शिशुपालवधम्): `तदस्य प्रयोजनम्` इति ठक्। * **माङ्गलिक्यः** (भट्टिकाव्यम्): `तदस्य प्रयोजनम्` इति ठञ् ।