51098: तेन यथाकथाचहस्ताभ्यां णयतौ ================================= **Padacheda:** तेन | S | 3 | 1 | यथाकथाच-हस्ताभ्याम् | S | 5 | 2 | ण-यतौ | S | 1 | 2 | Sutrartha --------- **'दीयते' तथा 'कार्यम्' एतयोः अर्थयोः 'यथाकथाच' शब्दात् ण-प्रत्ययः तथा च 'हस्त' शब्दात् यत्-प्रत्ययः भवति ।** 'यथाकथाच' इति किञ्चन अव्ययम् , 'अनादरेण' इति तस्य अर्थः । अस्मात् शब्दात् तृतीयासमर्थात् 'दीयते' तथा कार्यम्' एतयोः अर्थयोः ण-प्रत्ययः भवति । तथा च, 'हस्त' शब्दात् एतयोः द्वयोः अर्थयोः 'यत्' प्रत्ययः क्रियते । उदाहरणम् - 1. यथाकथाच दीयते कार्यम् वा तत् याथाकथाचम् । 2. हस्तेन दीयते कार्यं वा हस्त्यम् । ज्ञातव्यम् - 1. **तत्र च दीयते कार्यं भववत्** (5.1.96) इत्यस्मात् सूत्रात् अत्र 'दीयते' तथा 'कार्यम्' एतौ अर्थौ स्वीक्रियेते , परन्तु समर्थविभक्तिः न अनुवर्तति । अस्मिन् सूत्रे 'तेन' इति तृतीयासमर्थविधानम् कृतमस्ति, अतः अनेन सूत्रेण 'तेन दीयते' तथा 'तेन कार्यम्' अस्मिन् अर्थे एव प्रत्ययविधानम् कर्तव्यम् । 2. अनेन सूत्रेण द्वौ अर्थौ उच्येते - 'तेन दीयते', तथा च 'तेन कार्यम्' । प्रातिपदिकौ अप्यत्र द्वौ दत्तौ - 'यथाकथाच' तथा 'हस्त' । प्रत्ययौ अपि च द्वौ एव - ण तथा यत् । तर्हि अत्र 'यथासङ्ख्यत्वम्' भवति वा - इति प्रश्नः जायते । अस्य उत्तरम् काशिकाकारः ददाति - 'दीयते, कार्यम् इत्येतयोरर्थयोः प्रत्येकमभिसम्बधः, यथासङ्ख्यं न इष्यते' । इत्युक्ते, अर्थस्य विषये अत्र यथासङ्ख्यम् न इष्यते, केवलम् प्रातिपदिकस्य प्रत्ययस्य च विषये इष्यते । इत्युक्ते, 'यथाकथाच' इत्यस्मात् प्रातिपदिकात् द्वयोः अपि अर्थयोः ण-प्रत्ययः कर्तव्यः, तथैव च 'हस्त' इत्यस्मात् प्रातिपदिकात् अपि द्वयोः एव अर्थयोः 'यत्' प्रत्ययः कर्तव्यः । Vasu English Summary -------------------- The affixes ण and यत् come respectively after the words यथा-कथा-च and हस्त being in the Instrumental -3rd case in construction having the sense of what is 'given or is done in this way'. Vasu English Translation ------------------------ The affixes ण and यत् come respectively after the words यथा-कथा-च and हस्त being in the Instrumental -3rd case in construction having the sense of what is 'given or is done in this way'. The words दीयते and कार्य apply to both; the rule of यथासंख्यः (1.3. 10) not applying to it. The word यथाकथाच is an Indeclinable, meaning contempt. Of course this word cannot take any case-affix, it therefore only gives the sense of third case. As यथाकथाच दीयते कार्यं वा = याथाकथाचम्, हस्तेन दीयते कार्यं वा = हस्त्यम् ॥ Kashika ------- दीयते कार्यमिति वर्तते। तेनेति तृतीयासमर्थाभ्यां यथाकथाचहस्तशब्दाभ्यां यथासंख्यं णयतौ प्रत्ययौ भवतः। दीयते कार्यमित्येतयोरर्थयोः प्रत्येकमभिसंबन्धः, यथासंख्यं नेष्यते। यथाकथाचशब्दोऽव्ययसमुदायोऽनादरे वर्तते। तृतीयार्थमात्रं चात्र संभवति, न तु तृतीया समर्थविभक्तिः। यथाकथाच दीयते कार्यं वा याथाकथाचम्। हस्तेन दीयते कार्यं वा हस्त्यम्॥ Siddhanta Kaumudi ----------------- यथाकथाचेत्यव्ययसंघातात्तृतीयान्ताद्धस्तशब्दाच्च यथासंख्यं णयतौ स्तः । अर्थाभ्यां तु यथासंख्यं नेष्यते ॥ यथाकथाच दीयते कार्यं वा याथाकथाचम् । अनादरेण देयं कार्यं वेत्यर्थः । हस्तेन दीयते कार्यं वा हस्त्यम् ॥ Balamanorama ------------ **तेन यथाकथाचहस्ताभ्यां णयतौ** - तेन यथा । अर्थाभ्यामिति । प्रकृत्योः प्रत्ययोश्च यथासङ्ख्यम्, नतु दीयते कार्यमित्यनयोरित्यर्थः, वल्याख्यानादिति भावः । Padamanjari ----------- तृतीयासमर्थाभ्यामिति। तृतीयार्थयुक्ताभ्यामित्यर्थः। तथा च यथाकथाचशब्दं प्रति वक्ष्यति - तृतीयार्थमात्रं च सम्भवतीति हस्तशब्दे तु तृतीयान्तत्वमेव सम्भवतीति प्रत्येकमर्थसम्बन्ध इति। ननु यथासंख्यं प्राप्नोति ? तत्राह - यथासंख्यमत्र नेष्यते इति। प्रत्ययौ तु प्रति यथासंख्यं भवत्येव, अत्र च व्याख्यानमेव शरणम्। तृतीयार्थमात्रं च सम्भवतीति। अर्थस्तावत्सम्भवति - यथाकथाच दतमित्युक्ते, अनदरेण दतमिति प्रतीतेस्तावन्मात्रमेव सम्भवति। मात्रशब्दस्य व्यवच्छेद्यं दर्शयति - न त्विति। यथाकथाचशब्दस्य वाक्यत्वात्। प्रत्ययस्तु वचनसामर्थ्याद्वाक्यादपि भवति ॥ Nyaas ----- `यथासंख्यं नेष्यते` इति। अल्पाच्तरस्य हस्तशब्दस्य परनिपातो लक्षणव्यभिचारस्य वचनहेतुः। `तृतीयार्थमात्रञ्चात्र सम्भवति` इति। तृतीयार्थस्य गम्यमानत्वात्। तथा हि - यथाकथाच दत्तमित्युक्ते, अनादरेण दत्तमिति गम्यते। `न तृतीयासमर्थविभक्तिः` इति। यथाकथाचशब्दसय वाक्यत्वात्। प्रत्यस्तु वचनसामर्थ्याद्वाक्यादपि भवत्येव॥