51096: तत्र च दीयते कार्यं भववत् ================================ **Padacheda:** तत्र | S | 0 | 0 | च | S | 0 | 0 | दीयते | T | | | कार्यम् | S | 1 | 1 | भववत् | S | 0 | 0 | Sutrartha --------- **'दीयते' तथा 'कार्यम्' एतयोः अर्थयोः सप्तमीसमर्थेभ्यः कालवाचिप्रातिपदिकेभ्यः 'तत्र भवः' इत्यस्मिन् अर्थे ये प्रत्ययाः उक्ताः सन्ति ते अत्रापि विधीयन्ते ।** अस्मिन् सूत्रे 'दीयते' तथा 'कार्यम्' ( = करणीयम् / कर्तुम् शक्यम् - इत्यर्थः) एतौ द्वौ अर्थौ उच्येते । एतयोः अर्थयोः कालवाचिभ्यः प्रातिपदिकेभ्यः अनेन सूत्रेण अतिदेशरूपेण प्रत्ययविधानम् कृतमस्ति ।कथम् अयमतिदेशः क्रियते? प्राग्दीव्यतीय-अधिकारे शैषिक-प्रकरणे **तत्र भवः** (4.3.53) अस्मिन् अर्थे कालवाचकेभ्यः प्रातिपदिकेभ्यः ये प्रत्ययाः उक्ताः सन्ति, ते एव अत्रापि प्रयोक्तव्याः - इति अस्य सूत्रस्य आशयः । **तत्र भवः** (4.3.53) अस्मिन् अर्थे कालवाचकेभ्यः प्रातिपदिकेभ्यः के के प्रत्ययाः उच्यन्ते ? मुख्यान् प्रत्ययान् अस्य सूत्रस्य उदाहरणानि स्वीकृत्य पश्यामः - 1. **कालात् ठञ्** (4.3.11) - सर्वेभ्यः कालवाचिभ्यः शब्देभ्यः ठञ्-प्रत्ययः भवति । यथा - मासे दीयते तत् मासिकम् धनम् । मासे कार्यम् तत् मासिकमध्ययनम् । 2. **निशाप्रदोषाभ्यां च** (4.3.14) - 'निशा'शब्दात् तथा 'प्रदोष'शब्दात् ठञ् तथा अण्-प्रत्ययौ भवतः । निशायां दीयते सा नैशिकी नैशी वा औषधिः । प्रदोषे दीयते सः प्रादोषिकः प्रादोषः वा प्रसादः । 3. **श्वसस्तुट् च** (4.3.15) इत्यनेन 'श्वः' शब्दात् ठञ्-प्रत्ययः तथा तुट्-आगमः भवति । श्वः दीयते कार्यम् वा तत् शौवस्तिकम् । 4. **संधिवेलाऽऽद्यृतुनक्षत्रेभ्योऽण्** (4.3.16) इत्यनेन ऋतुवाचिभ्यः शब्देभ्यः अण् प्रत्ययः भवति । ग्रीष्मे दीयते कार्यम् वा तत् ग्रैष्मम् ।वसन्ते दीयते कार्यम् वा तत् वासन्तम् । हेमन्ते दीयते कार्यम् वा तत् हैमनम् (**सर्वत्राण् च तलोपश्च** (4.3.32) इति तकारलोपः) । 5. **प्रावृष एण्यः** (4.3.17) - 'प्रावृष' (वर्षाऋतुः) शब्दात् एण्य-प्रत्ययः भवति । प्रावृषि दीयते कार्यम् वा तत् प्रावृषेण्यम् । 6. **वर्षाभ्यष्ठक्** (4.3.18) वर्षायाम् दीयते कार्यम् वा तत् वार्षिकम् । 7. **सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च** (4.3.19) - सायंकाले दीयते कार्यम् वा तत् सायन्तनम् । चिरकाले दीयते कार्यम् वा तत् चिरन्तनम् । एवमेव अनेन सूत्रेण तत्रस्थैश्च वार्त्तिकैः केचन अन्याः शब्दाः अपि सिद्ध्यन्ति - प्राह्णेतन, प्रगेतन, दिवातन - आदयः । अस्य सूत्रस्य विषये अन्यः एकः विशेषः अपि ज्ञेयः । अस्मात् सूत्रात् 'तत्र दीयते' इति स्वीकृत्य तस्य नूतनसूत्रम् कृत्वा तस्मिन् सूत्रे पूर्वसूत्रात् 'यज्ञाख्येभ्यः' इत्यस्य अनुवृत्तिः क्रियते । अनेन 'यज्ञाख्येभ्यः तत्र दीयते' इति सम्पूर्णं सूत्रम् सिद्ध्यति । अस्य सूत्रस्य अर्थः अयम् - सप्तमीसमर्थात् यज्ञवाचिशब्दात् 'तत्र दीयते' अस्मिन् अर्थे ठञ् प्रत्ययः भवति । यथा - राजसूये दीयते सः राजसूयिकः बलिः । स्मर्तव्यम् - 1. प्राग्दीव्यतीय-अधिकारे **साऽस्य देवता** (4.2.24) इत्यत्र **कालेभ्यो भववत्** (4.2.34) इति अन्यदेकम् सूत्रमपि अतिदेशरूपेण स्थापितमस्ति । अनेन सूत्रेण प्रथमासमर्थात् कालवाचिशब्दात् 'देवता' अस्मिन् अर्थे अपि **तत्र भवः** (4.3.53) इति सूत्रवत् एव प्रत्ययाः भवन्ति । अतः आहत्य चतुर्षु अर्थेषु समानमेव रूपम् सिद्ध्यति । यथा, 'मासः अस्य देवता', 'मासे भवम्' , 'मासे दीयते', 'मासे कार्यम्' - सर्वेषु अपि अर्थेषु 'मासिक' शब्दः प्रयुज्यते । तथा च, **कालात् ठञ्** (4.3.11) एतत् सूत्रम् शैषिकप्रकरणस्य अर्थनिरपेक्ष-अपवादेषु स्थापितमस्ति, अतः अन्येषु शैषिकेषु अर्थेषु अपि अस्य प्रयोगः भवितुमर्हति । यथा - मासे जातः मासिकः, मासे कृतः मासिकः - आदयः । 2. **कालात्** (5.1.78) इत्यस्य अधिकारः अत्र समाप्यते । अतः इतः परमुक्ताः प्रत्ययाः सर्वेभ्यः प्रातिपदिकेभ्यः भवितुमर्हन्ति, न हि केवलं कालवाचिभ्यः प्रातिपदिकेभ्यः । Vasu English Summary -------------------- The affixes having the sense of भव तत्र भवः (4.3.53) , कालाट्ठञ् (4.3.11) , come after a time-denoting word in the sense of 'what is given in that, and what is done in that'. Vasu English Translation ------------------------ The affixes having the sense of भव तत्र भवः (4.3.53) , कालाट्ठञ् (4.3.11) , come after a time-denoting word in the sense of 'what is given in that, and what is done in that'. As मासे भवम् = मासिकं (4.3.11). This word also means मासे दीयते and मासे कार्यं ॥ Similarly सांवत्सरिकं, प्रावृषेण्यं (4.3.17), वासन्तिकम् (4.3.20), वासन्तम् (4.3.16), हैमनम् (4.3.22), हैमन्तम् (4.3.16), हैमन्तिकम् (4.3.21), शारदम् (4.3.16). All these words mean also what is given or done in those seasons. The word वत् in भववत् means that all the rules of तत्रभवः (4.3.53) apply here. This *sutra* should be divided into two parts, one joining with the previous *sutra*, as तत्र च दीयते, यज्ञाण्येभ्यः, as आग्निष्टोमिकं भक्तं, राजसूयिकम्, वाजपेयिकम् ॥ So far does the word काल (5.1.78), bear rule. Hereafter general affixes will be taught. Bhashya ------- तत्र च दीयते कार्यं भववत् (1978) (अतिदेशाधिकरणम्) (5675 कार्यग्रहणाक्षेपवार्तिकम्॥ 1 ॥) ?B- कार्यग्रहणमनर्थकं तत्रभवेन कृतत्वात् - (भाष्यम्) कार्यग्रहणमनर्थकम्। किं कारणम्? तत्रभवेन कृतत्वात्। यद्धि मासे कार्यं मासे भवं तद्भवति, तत्र तत्र भवः (4.3.53) इत्येव सिद्धम्। (दीयते ग्रहणाक्षेपभाष्यम्) किमिदं भवान् कार्यग्रहणमेव प्रत्याचष्टे, न पुनर्दीयतेग्रहणमपि। यथैव हि यन्मासे कार्यं तन्मासे भवं भवति, एवं यदपि मासे दीयते तदपि मासे भवं भवति। तत्र तत्र भवः इत्येव सिद्धम्। न सिध्यति। न तन्मासे दीयते। किं तर्हि? मासे गते। एवं तंर्हि - औपश्लेषिकमधिकरणं विज्ञास्यते॥ (समाधानभाष्यम्) एवं तर्हि योगविभागोत्तरकालमिदं पठितव्यम् - तस्य दक्षिणा यज्ञाख्येभ्यः। तत्र च दीयते। ततः - कार्यं भववत् कालात् इति॥ Kashika ------- तत्रेति सप्तमीसमर्थात् कालवाचिनः प्रातिपदिकाद् दीयते कार्यमित्येतयोरर्थयोर्भववत् प्रत्ययो भवति। यथा — मासे भवं मासिकम्। सांवत्सरिकम्। प्रावृषेण्यम्। वासन्तिकम्, वासन्तम्। हैमनम्, हैमन्तम्, हैमन्तिकम्। शारदम्। वतिः सर्वसादृश्यार्थः। योगविभागश्चात्र कर्तव्यः। तत्र च दीयते, यज्ञाख्येभ्य इति। आग्निष्टोमिकं भक्तम्। राजसूयिकम्। वाजपेयिकम्। कालाधिकारस्य पूर्णोऽवधिः। अतः परं सामान्येन प्रत्ययविधानम्॥ Siddhanta Kaumudi ----------------- प्रावृषि दीयते कार्यं वा प्रावृषेण्यम् । शारदम् ॥ ठञधिकारे कालाधिकारस्य पूर्णोऽवधिः ॥ Balamanorama ------------ **तत्र च दीयते कार्यं भववत्** - तत्र च दीयते । 'तत्र दीयते'तत्र कार्य॑मित्यर्थयोः सप्तम्यन्तात्कालवाचिनो भववत्प्रत्ययाः स्युरित्यर्थः । प्रावृषेण्यमिति । 'प्रावृष एण्यः' इति भवार्थे विहित इहापि भवति । शारदमिति । शरदि दीयते कार्यं वेत्यर्थः । सन्धिवेलाद्यण्भवे विहित इहापि भवति । वस्तुतस्तु तत्र कार्यं दीयते इत्यर्थे यज्ञाख्येभ्यो भववत्प्रत्ययाः स्युरित्यर्थः । अग्निष्टोमे दीयते भक्तमाग्निष्योमिकम् । कार्यग्रहणादिग्निष्टोमे दीयते हिरण्यमित्यत्र न भवति । न ह्रग्निष्टोमे हिरण्यं क्रियत इति भाष्ये स्पष्टम् । इति प्राग्वतीये ठञधिकारे कालाधिकारः । Tattvabodhini ------------- **तत्र च दीयते कार्यं भववत्** - तत्र च । कालवाचिनः सप्तम्यन्तद्दीयते कार्यमित्येतयोरर्थयोर्मववत्प्रत्ययः स्यात् । प्रावृषेण्यमिति ।प्रावृष एण्य॑इति भवार्थे विहितः, स इहाप्यतिदिश्यत इति भावः । शारदमिति ।सन्दिवेलाद्यृतुनक्षत्रेभ्योण् । कालाधिकारस्य पूर्णोऽवधिः । Padamanjari ----------- हैमनमिति। यद्यपि भववत्प्रत्यया भवन्तीत्युक्तम्, तथापि'सर्वत्राण्च तलोपश्च' इत्यण्प्रत्ययोऽतिदिष्टे तत्सान्नयोगशिष्टस्तलोपोऽपि भवति। वतिः सर्वसादृश्यार्थ इति।'कालेभ्यो भववत्' इत्यत्रैतद् व्याख्यातम्। अग्निष्टोमे दीयते आग्निष्टोमिकं भक्तमिति। यद्येवम्, अग्निष्टोमस्य या दक्षिणा साग्निष्टोमे दीयते तत्र'यज्ञाख्येभ्यो दीयते इत्यनेनैव सिद्धम्, तथा यन्मासे कार्यं तन्मासे भघं भवति, ततश्च कार्यग्रहणमनर्थकम्, तत्र भवेन कृतत्वात् ? अत्राहुः -'ठ्द्विगोर्लुगनपत्ये' इति लुक् प्राप्नोति। अथानेनापि प्रत्यये सति लुक्कस्मान्न भवति, यावता'वतिः सर्वसादृश्यार्थे' इत्युक्तम् ? सत्यम्; प्रत्ययमात्रस्यातिदेशो न लुक्' ऽ, इति। तदपरे न सहन्ते - वतिः सर्वसादृश्यार्थः, तत्र तथा भवे तदन्तविधिर्न भवति, एवमत्रापि न भवितव्यम्। एवं च कृत्वा'तत्र च दीयते' इत्यत्रापि तदन्तविधिर्न भवति। विभक्ते तु योगे भवत्येव, तत्र भववदित्यस्याभावात्-द्वयोर्वाजपेययोर्दीयते द्वैवाजपेयिकी। सूक्ष्मदृशामेष सन्थाः ॥ Nyaas ----- `यथा मासे भवं मासिकम्` इत्यादि। **कालाट्ठञ्** (4.3.11) इति। `प्रावृषेण्यम्` इति। **प्रावृष एण्यः** (4.3.17) । `वासन्तं शारदम्` इति। सन्धिवेलादिसूत्रे (4.3.16) णाण्। `हैमनम्` इति। **हेमन्ताच्च** (4.3.21) इति, `सर्वत्राण्च तलोपश्च` (4.3.22) इति। वतिः सादृश्यार्थः। **कालेभ्यो भववत्** (4.2.34) इत्यत्रैतद्व्याख्यातम्। तत एवानुगन्तव्यम्। चकारः कालादित्यनुकर्षणार्थः, तेन चानुकृष्टत्वादुत्तरत्र नानुवर्तते, अत आह - `कालाधिकारस्य पूर्णोऽवधिः` इत्यादि। ननु च यन्मासे दीयते कार्यं च तन्मासे भवति; मासाधारत्वात्? तत्सत्तायाः। अतः **तत्र भवः** (4.3.53) इत्यनेनाणैव सिद्धमिति किमतिदेशेन? एवं तेन सत्यपि भवत्यर्थे कार्यदीयमानयोः कार्यतां दीयमानताञ्च कालान्तात्? तैः प्रत्ययैरपि ख्याययितुमतिदेशः। किञ्चानेन च तत्र भवानामपि न। तेन सति तस्मिन्? तदन्तविधेरिष्टत्वाद्द्वयोर्मासयोर्दीयते कार्यं वा - द्वैमासिकमिति। अथापि कथञ्चिद्भवार्थेऽपि तदन्तविधिर्गृह्रते, एवमपि **द्विगोः** (4.1.21) इति लुक्? स्यात्। ननु चात्रापि विधाने सत्यतिदेशादेव लुक्? प्राप्नोति? वचनसामर्थ्यान्? प्रत्ययमात्रस्यातिदेशो विज्ञास्यते, न सर्वकार्याणामित्यदोषः॥