51072: पारायणतुरायणचान्द्रायणं वर्तयति ====================================== **Padacheda:** पारायण-तुरायण-चान्द्रायणम् | S | 2 | 1 | वर्तयति | T | | | Sutrartha --------- **'वर्तयति' अस्मिन् अर्थे द्वितीयासमर्थेभ्यः 'पारायण', 'तुरायण', 'चान्द्रायण' शब्देभ्यः ठञ्-प्रत्ययः विधीयते ।** 'पारायण', 'तुरायण' तथा 'चान्द्रायण' एते त्रयः शब्दाः अस्मिन् सूत्रे उक्ताः सन्ति । एतेभ्यः 'वर्तयति' (करोति / conducts) इत्यस्मिन् अर्थे औत्सर्गिकः ठञ्-प्रत्ययः विधीयते । शब्दानामर्थाः आदौ पश्यामः - 1. पारायण - वेदस्य प्रारम्भात् आरभ्य अन्तपर्यन्तम् क्रमेण अध्ययनम् । The process of studying a वेद from beginning all the way to the end. 2. तुरायण - वर्षस्य अन्ते क्रियमाणः कश्चन यज्ञविशेषः । A specific type of यज्ञ that is conducted at the end of the year. । 3.चान्द्रायण - काचन विशिष्टा भोजनपद्धतिः यस्याम् चन्द्रस्य कलामनुसृत्य भोजनस्य मात्रा निर्धार्यते । प्रायः तपस्विनः जनाः एतादृशमाचरणम् कुर्वन्ति, अतः अयम् कश्चन तपविशेषः अस्ति इत्यपि उच्यते । A specific technique of eating / fasting where the amount of food consumed on any particular day depends on the phase of moon on that day. Thus, for fifteen days, the amount gradually increases, and then for next fifteen days it gradually decreases, finally resulting in a complete fast on the new-moon day. एतेभ्यः शब्देभ्यः 'वर्तयति' (= करोति / executes / conducts) अस्मिन् अर्थे ठञ्-प्रत्ययः भवति । यथा - 1. पारायणम् वर्तयति सः पारायणिकः छात्रः । अयम् शब्दः केवलं छात्रस्य निर्देशम् कर्तुम् प्रयुज्यते, न हि गुरोः - यतः अध्ययनक्रियां शिष्यः करोति, न हि गुरुः । 2. तुरायणम् वर्तयति सः तौरायणिकः यजमानः । अयम् शब्दः केवलं यजमानस्य निर्देशार्थम् एव प्रयुज्यते, न हि ऋत्विजः / पुरोहितस्य ; यतः यद्यपि यज्ञस्य कर्ता ऋत्विज् / पुरोहितः अस्ति, तथापि सः धनम् स्वीकृत्य यज्ञं कारयति, अतश्च यज्ञस्य फलम् तु यजमानाय एव गच्छति । 3. चान्द्रायणम् वर्तयति सः चान्द्रायणिकः तपस्वी । स्मर्तव्यम् - **असमासे निष्कादिभ्यः** (5.1.21) इत्यत्र निर्दिष्टेन अनेन वार्त्तिकेन अत्र सङ्ख्यापूर्वपदानां विषये तदन्तविधिः अपि इष्यते । यथा - द्वे पारायणे वर्तयति सः द्वैपारायणिकः छात्रः । पञ्च तुरायणानि वर्तयति सः पाञ्चतुरायणिकः यजमानः । Vasu English Summary -------------------- The affix ठञ् (+/- -- इक , प्राग्वतेष्ठञ् (5.1.18)) comes in the sense of 'who performs this' after the words 1. पारायण 2. तुरायण and 3. चान्द्रायण being in the Accusative -2nd case in construction. Vasu English Translation ------------------------ The affix ठञ् (+/- -- इक , प्राग्वतेष्ठञ् (5.1.18)) comes in the sense of 'who performs this' after the words 1. पारायण 2. तुरायण and 3. चान्द्रायण being in the Accusative -2nd case in construction. The force of अर्हति ceases. Thus पारायणिक श्छात्र 'a pupil, who reads under a teacher': तौरायणिको यजमानः, चान्द्रायणिकस्तपस्वी ॥ The word पारायण means a 'teacher' (परस्य करोति) ॥ Bhashya ------- पारायणतुरायणचान्द्रायणं वर्तयति (1954) (ठञ्ञोऽधिकरणम्) (5656 वर्तयति निर्द्देशस्यानुपपत्तिबोधकवार्तिकम्॥ 1 ॥) - तद्वर्तयतीत्यनिर्देशस्तत्रादर्शनात् - (भाष्यम्) तद्वर्तयतीत्यनिर्देशः। अगमको निर्देशोऽनिर्देशः। पारायणं को वर्तयति? यः परस्य करोति। तुरायणं को वर्तयति? यश्चरुपुरोडाशान्निर्वर्तयति। तत्रादर्शनात्। न च तत्र प्रत्ययो दृश्यते॥ (5657 अन्यत्रप्रत्ययोत्पत्तिरूपदोषबोधकवार्तिकम्॥ 2 ॥) - इङ्यज्योश्च दर्शनात् - (भाष्यम्) इङ्यज्योश्च प्रत्ययो दृश्यते। यः पारायणमधीते स पारायणिक इत्युच्यते। यस्तुरायणेन यजते स तौरायणिक इत्युच्यते॥ (वार्तिकाक्षिप्तदोषनिवारकं सिद्धान्तभाष्यम्) यश्चैवाधीते यश्च परस्य करोति, उभौ तौ वर्तयतः। यश्च यजते यश्च पुरोडाशान्निर्वर्तयति, उभौ तौ वर्तयतः॥ उभयत्र कस्मान्न भवति? अनभिधानात्॥ Kashika ------- समर्थविभक्तिरनुवर्तते। अर्हतीति निवृत्तम्। पारायणादिभ्यो द्वितीयासमर्थेभ्यो वर्तयतीत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। पारायणं वर्तयत्यधीते पारायणिकश्छात्रः। तौरायणिको यजमानः। चान्द्रायणिकस्तपस्वी॥ Siddhanta Kaumudi ----------------- पारायणं वर्तयति पारायणिकश्छात्रः । तुरायणं यज्ञविशेषः, तं वर्तयत् तौरायणिको यजमानः । चान्द्रायणिकः ॥ Balamanorama ------------ **पारायणतुरायणचान्द्रायणं वर्तयति** - अथ तद्धिते प्राग्वतीये ठञधिकारे कालाधिकारो निरूप्यते — अतः परं ठञेवेति । आर्हीयेष्वर्थेषु प्राग्वतीयठञपवादा आर्हीयाष्ठगादयः । आर्हीयार्थेषु निरूपितेषु तत ऊध्र्वं ठगादिप्रत्ययानामनुवृत्तेरसम्भवात्प्राग्वतीयष्ठञेवानुवर्तत इत्यर्थः । पारायण ।द्वितीयान्तेभ्यः पारायणादिशब्देभ्यो वर्तयतीत्यर्थे ठञ्स्यादित्यर्थः । पारायणं वर्तयतीति । पारायणं — वेदाध्ययनम् । तद्वर्तयति=आवर्तयतीत्यर्थः । पारायणिकः छात्र इति । गुरौ त्वध्येतरि नायं प्रत्ययः, अनभिधानादिति भावः । तौरायणिको यजमान इति । ऋत्विजिनायं प्रत्ययः, अनभिधानादिति भावः । चान्द्रायणिक इति । चान्द्रायणं कृच्छ्रविशेषः । Tattvabodhini ------------- **पारायणतुरायणचान्द्रायणं वर्तयति** - पारायण । आदित आरभ्य आन्तादविच्छेदेन वेदस्याध्ययनं पारायणम् । तच्च शिष्येण च निर्वत्र्यते, अन्यतराऽसंनिधौ अध्ययनक्रियाया अनिष्पादनात्, तथापि शिष्ये एव प्रत्यय इष्यते न तु गुरावित्याकरे स्थितम् । तदाह -छात्र इति । यजमान इति । यद्यपि पुरोडाशादिनिर्वर्तनेन ऋत्विगपि यज्ञं वर्तयति, तथापि तत्रतौरायणिक॑इति न प्रयुज्यते, अनभिधानादिति भावः । चान्द्रायणं — — व्रतविशेषः । Padamanjari ----------- पारायणमुआदित आरभ्यान्तादविच्छेदेन वेदाध्ययनम्, तुरायणमुसंवत्सरसाध्यो इविर्यज्ञविशेषः, चान्द्रायणमुतपोविशेषः, वर्तनमुनिष्पादनम्। तत्र पारायणं गुरुणा शिष्येण च निर्वर्त्यते; अन्यतरासन्निधावध्ययनक्रियाया अनिष्पादनात्; शिष्य एव त्विष्यते। तथा तुरायणमुभौ वर्तयतः - ऋत्विग्यमानश्च; ऋत्विक् चरुपुरोडाशादि निर्वर्तयति, यजमानो देवतोद्देशेन द्रव्यं त्वजति; यजमान एव त्विष्यते। उभयत्र कस्मान्त भवति ? अनबिधानात् ॥ Prakriyasarvasvam ----------------- एभ्यस्तद्वर्तयतीत्यर्थे ठञ् स्यात् । कृत्स्नवेदजपं निर्वर्तयन् पारायणिकः । तुरायणाख्यं यज्ञं निर्वर्तयन् तौरायणिकः । चान्द्रायणिकः । प्राग्वतीयेषु सङ्ख्या- पूर्वाणामपीष्टम् । द्वैपारायणिकः ॥