51068: पात्राद्घंश्च ==================== **Padacheda:** पात्रात् | S | 5 | 1 | घन् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **'अर्हति' अस्मिन् अर्थे द्वितीयासमर्थात् पात्रशब्दात् घन् तथा यत् प्रत्ययः भवतः ।** 'पात्रमर्हति सः' अस्मिन् अर्थे पात्रशब्दात् घन् तथा यत्-प्रत्ययौ भवतः । यथा - 1. पात्रमर्हति सः = पात्र + घन् → पात्र + इय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति इय्-आदेशः] → पात्र् + इय [**यस्येति च** (6.4.148) इति अकारलोपः] → पात्रिय प्रत्यये इत्संज्ञकः नकारः स्वरनिर्देशार्थम् स्थापितः अस्ति । **ञ्नित्यादिर्नित्यम्** (6.1.197) अनेन सूत्रेण 'पात्रिय' शब्दस्य आदिस्वरः उदात्तः भवेत्, इति अस्य प्रयोजनम् । 2. पात्रमर्हति सः = पात्र + यत् → पात्र् + य [**यस्येति च** (6.4.148) इति अकारलोपः] → पात्र्य प्रत्यये इत्संज्ञकः तकारः स्वरनिर्देशार्थम् स्थापितः अस्ति । **यतोऽनावः** (6.1.197) अनेन सूत्रेण 'पात्र्य' शब्दस्य आदिस्वरः उदात्तः भवेत्, इति अस्य प्रयोजनम् । स्मर्तव्यम् - 1. 'पात्र'शब्दः परिमाणवाची अपि अस्ति, तथा च भाजन (container) वाची अपि अस्ति । अतः अनेन सूत्रेण विहितौ घन्/ यत् प्रत्ययौ 'परिमाणम्' अस्मिन् अर्थे ठञ्-प्रत्ययं बाधित्वा, तथा च 'भाजनम्' अस्मिन् अर्थे ठक्-प्रत्ययं बाधित्वा विधीयन्ते । 2. अस्य सूत्रस्य आशयम् न्यासकारः इत्थम् वदति - चाण्डालादयः पात्रे भोजनम् खादन्ति चेत् तत् पात्रम् 'अशुद्धम्' जायते, तस्य अग्रे क्षालनेन अपि शुद्धिः न भवति । अतः चाण्डालादीन् अन्नदानम् कर्तव्यमस्ति चेत् तेभ्यः पात्रम् पुनः नः स्वीक्रीयते, इत्युक्ते पात्रदानमपि भवति । अतः 'पात्रमर्हति सः पात्रियः पात्र्यः वा चाण्डालः' इति प्रयोगः कियते । Vasu English Summary -------------------- The affix घञ् (-/- इयं) together with यत् (यं) comes in the sense of 'deserving that' after the word पात्र। Vasu English Translation ------------------------ The affix घञ् (-/- इयं) together with यत् (यं) comes in the sense of 'deserving that' after the word पात्र। This debars ठक् and ठञ् ॥ The word पात्र denotes measure also. Thus पात्रमर्हति = पात्र्यः or पात्रियः ॥ Kashika ------- पात्रशब्दाद् घन् प्रत्ययो भवति, चकाराद् यत् च, तदर्हतीत्यस्मिन्नर्थे। ठक्ठञोरपवादः। पात्रं परिमाणमप्यस्ति। पात्रमर्हति पात्रियः, पात्र्यः॥ Siddhanta Kaumudi ----------------- चाद्यत्तदर्हतीत्यर्थे । पात्रियः । पात्र्यः ॥ Balamanorama ------------ **पात्राद्घंश्च** - पात्राद्धंश्च । पात्रियः प्रात्र्य इति । पात्रमर्हतीत्यर्थः । Padamanjari ----------- ठक्ठञोरपवाद इति। तत्र ठकोऽपवादत्वमुपपादयति - पात्रं परिमाणमप्यस्तीति। भाजनविशेषस्तु प्रसिद्ध एव, तत्र ठकोऽपवादः, परिमाणवचने तु ठञ इत्यर्थः। पात्रिय इति। पात्रपरिमितं तण्डुलादिकं यः स्थाल्यादिरर्हति, सम्भवनधारणक्षमत्वात्, स एवमुच्यते। येन वा भुक्ते भोजनभाजनं संस्कारेण न शुद्ध्यति ॥ Nyaas ----- `ठक्ठञोरपवादः` इति। ननु च पात्रं भाजनम्, न परिमाणम्, अतस्तद्वाचिनष्ठक्? प्राप्नोति, तस्यैवापवादो युक्तः, तत्किमुच्यते ठक्ठञोरपवादः? इत्याह - `पात्रं परिमाणमप्यस्ति` इति। न केवलं भाजनमित्यपिशब्देन दर्शयति। तत्र यदा परिमाणे पात्रशब्दो वर्तते, तदा ठञोऽपवादः; यदा भाजने, तदा ठकः। पात्रं स्थाल्यादि। कोऽर्थः? चण्डालादिर्बाह्रश्च पात्रं परिमाणमर्हति। येन भुक्ते पुनर्न संस्कारेण भाजनं शुध्यति स पात्रियः, पात्र्य इति चोच्यते॥ Prakriyasarvasvam ----------------- यश्च स्यात् । अनीचजातित्वात् स्थाल्यादिपात्रे भोजनमर्हन् पात्रियः । पात्र्यः ॥