51061: सप्तनोऽञ् छन्दसि ======================= **Padacheda:** सप्तनः | S | 5 | 1 | अञ् | S | 1 | 1 | छन्दसि | S | 7 | 1 | Sutrartha --------- **'अस्य वर्गस्य परिमाणम्' अस्मिन् अर्थे प्रथमासमर्थात् 'सप्तन्' शब्दात् वेदेषु अञ्-प्रत्ययः कृतः दृश्यते ।** 'सप्त अस्य वर्गस्य परिमाणम्' अस्मिन् अर्थे वेदेषु सप्त-शब्दात् अञ्-प्रत्ययः कृतः दृश्यते - सप्त अस्य वर्गस्य परिमाणम् = सप्त + अञ् → साप्त [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] यथा - ऋग्वेदे 1.20.7 इत्यत्र 'ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते' अयम् प्रयोगः दृश्यते । अत्र 'साप्तानि' इत्युक्ते 'सप्त येषां परिमाणम्, तानि वर्गाणि' इति अर्थः । अस्य सूत्रस्य विषये कौमुदीकारः अस्मिन् सूत्रे कानिचन वार्त्तिकानि अपि पाठयति । तानि एतानि - 1. । इत्युक्ते, 'तद् अस्य वर्गस्य परिमाणम्' अस्मिन् अर्थे वेदेषु 'शन्' तथा 'शत्' इत्यन्ताः शब्दाः 'डिनि' प्रत्ययमपि स्वीकुर्वन्ति । उदाहरणम् अ) पञ्चदशन् + डिनि → पञ्चदशिन् । यथा - 'आरण्यास्तेषां दश पञ्चदशिन एकादश दशिनः' इति मानवश्रौत्रसूत्रे उल्लेखः अस्ति । आ) त्रिंशत् + डिनि → त्रिंशिन् । वस्तुतः एतत् वार्त्तिकम् भाष्यकारेण **प्रमाणे द्वयसज्दघ्नञ्मात्रचः** (5.2.37) इत्यत्र पाठ्यते । 2. । 'विंशति' शब्दात् अपि , 'तद् अस्य वर्गस्य परिमाणम्' अस्मिन् अर्थे वेदेषु 'डिनि' प्रत्ययः कृतः दृश्यते ।विंशतिः परिमाणमस्य तत् = विंशति + डिनि -→ विंशिन् । एतत् वार्त्तिकम् अपि भाष्यकारः **प्रमाणे द्वयसज्दघ्नञ्मात्रचः** (5.2.37) इत्यत्र पाठयति । 3. । 'युष्मद्' तथा 'अस्मद्' एताभ्याम् सर्वनामशब्दाभ्याम् 'सादृश्यम्' दर्शयितुम् 'वतुँप्' प्रत्ययः भवति । यथा - अ) युष्मत् + वतुँप् → युष्मत् + वत् [इत्संज्ञालोपः] -> त्वत् + वत् [**प्रत्ययोत्तरपदयोश्च** (7.2.98) इत्यनेन 'युष्म' इत्यस्य 'त्व' आदेशः भवति ।] → त्वावत् [**आ सर्वनाम्नः** (6.3.91) इति आकारादेशः । **अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः ] यथा - ऋग्वेदे 6.30.4 - 'स॒त्यमित्तन्न त्वावाँ॑ अ॒न्यो अ॒स्तीन्द्र॑' । आ) अस्मत् + वतुँप् → अस्मत् + वत् [इत्संज्ञालोपः] → मत् + वत् [**प्रत्ययोत्तरपदयोश्च** (7.2.98) इत्यनेन 'अस्म' इत्यस्य 'म' आदेशः भवति ।] → मावत् [**आ सर्वनाम्नः** (6.3.91) इति आकारादेशः । **अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः ] यथा - ऋग्वेदे 1.17.2 - गन्ता॑रा॒ हि स्थोऽ॑वसे॒ हवं॒ विप्र॑स्य॒ माव॑तः । एतत् वार्त्तिकम् भाष्यकारः काशिकाकारः च **यद्तदेतेभ्यः परिमाणे वतुप्** (5.2.39) इत्यत्र पाठयति । Vasu English Summary -------------------- The affix अञ् (+/- अ) comes after the word सप्तन् in the छन्दस् (Vedas) when the meaning is that of a वर्ग। Vasu English Translation ------------------------ The affix अञ् (+/- अ) comes after the word सप्तन् in the छन्दस् (Vedas) when the meaning is that of a वर्ग। As सप्त साप्तान्यसृजन् ॥ The phrase तदस्य परिमाणं is understood here. Kashika ------- वर्ग इत्येव। तदस्य परिमाणमिति च। सप्तन्शब्दात् छन्दसि विषयेऽञ् प्रत्ययो भवति वर्गेऽभिधेये। स॒प्त साप्ता॑नि (तु० — तै०सं०५.४.७.५) असृजत्॥ Siddhanta Kaumudi ----------------- तदस्य परिमाणम् - (SK1723) इति वर्ग इति च । सप्त साप्तानि असृजत् (सप्त॑ सा॒प्तानि॑ असृजत् ॥ (वार्तिकम्) ॥ पञ्चदशिनोऽर्धमासाः । त्रिंशिनोमासाः । (वार्तिकम्) ॥ विंशिनोऽङ्गिरसः । (वार्तिकम्) ॥ त्वाववतः पुरूवसो (त्वाव॑वतः पुरूवसो) । न त्वावाँ अन्यः (न त्वावाँ॑ अ॒न्यः) । यज्ञं विप्रस्य मावतः (यज्ञं विप्र॑स्य मा॑वतः) ॥ Nyaas ----- संख्यालक्षणे कनि प्राप्ते सप्तञ्शब्दाच्छन्दस्यञ्विधानम्॥ Prakriyasarvasvam ----------------- तदस्य परिमाणमित्यर्थे वर्गे वाच्ये सप्तनः अञ् स्यात् । साप्तानि प्रीणाति । सप्तपरिमितान् वर्गानित्यर्थः ।