51058: संख्यायाः संज्ञासंघसूत्राध्ययनेषु ======================================== **Padacheda:** संख्यायाः | S | 5 | 1 | संज्ञासङ्घसूत्राध्ययनेषु | S | 7 | 3 | Sutrartha --------- **प्रथमासमर्थात् सङ्ख्यावाचिशब्दात् संज्ञायाः निर्देशार्थम्, सङ्घस्य निर्देशार्थम्, सूत्राणाम् निर्देशार्थम् तथा अध्ययनस्य निर्देशार्थम् विशिष्ट-सन्दर्भेषु यथाविहितं प्रत्ययः भवति ।** **तत् अस्य परिमाणम्** (5.1.57) इत्यनेन परिमाणवाचिभ्यः शब्देभ्यः 'अस्य' अस्मिन् अर्थे यथाविहितं प्रत्ययः विधीयते । परन्तु केषुचन स्थलेषु सङ्ख्यावाचकं शब्दं स्वीकृत्य विशिष्ट-सन्दर्भे (in specific situations / references) 'परिमाणम्' इति प्रत्ययविधानम् इष्यते, यत् **तत् अस्य परिमाणम्** (5.1.57) इत्यनेन सामान्यसूत्रेण न भवति । एतान् प्रयोगान् स्पष्टीकर्तुम् एव अस्य सूत्रस्य निर्माणम् कृतमस्ति । अस्मिन् सूत्रे चत्वारः शब्दाः उच्यन्ते - संज्ञा, सङ्घः, सूत्रम्, तथा अध्ययनम् । एते विशिष्टाः सन्दर्भाः एतादृशाः - 1. **संज्ञा** - अस्य शब्दस्य अर्थः वार्त्तिककारेण स्पष्टीकृतः अस्ति - । इत्युक्ते, सङ्ख्याशब्दात् विशिष्टसंज्ञायाः निर्देशम् कर्तुम् 'स्वार्थे' एव यथाविहितं प्रत्ययः भवति (परिमाणार्थे न - इत्याशयः) । अत्र विग्रहवाक्ये 'परिमाणम्' इति शब्दः न दृश्यते । यथा - 'पञ्चक' इति काचन संज्ञा । पञ्च पक्षिणः एकत्ररूपेण डयन्ते चेत् 'पञ्चकाः शकुनयः' इति संज्ञा लोके प्रयुज्यते । तस्याः निर्देशः अत्र कृतः अस्ति । 'पञ्च एव शकुनयः पञ्चकाः' इति अत्र विग्रहवाक्यम् दीयते । अत्र पञ्च शब्दात् 'तदेव' अस्मिन् अर्थे (इत्युक्ते स्वार्थे) **सङ्ख्यायाः अतिशदन्तायाः कन्** (5.1.22) इति कन्-प्रत्ययः भवति । 2. **सङ्घ** - यत्र केचन पदार्थाः मिलित्वा सङ्घनिर्माणम् कुर्वन्ति, तत्र 'परिमाणमस्य' अस्मिन् अर्थे सङ्घस्य निर्देशं कर्तुम् यथाविहितं प्रत्ययः भवति । यथा - 'पञ्च परिमाणमस्य सङ्घस्य सः पञ्चकः ' । अत्र 'पञ्च' शब्दः वस्तुतः परिमाणवाचकः नास्ति, अतः **तत् अस्य परिमाणम्** (5.1.58) इत्यनेन अयम् प्रयोगः न सम्भवति । अत्र पञ्च-शब्दः केवलं सङ्ख्यारूपेण प्रयुज्यते । अस्यां स्थितौ 'पञ्चकः सङ्घः' एतादृशम् प्रयोगम् साधयितुम् इदम् सूत्रम् प्रयुज्यते । 3. **सूत्र** - यत्र सूत्राणाम् सङ्ख्या 'अध्यायरूपेण' उच्यते, तत्र वर्तमानसूत्रेण यथाविहितं प्रत्ययः भवति । यथा - 'अष्टौ अध्यायाः परिमाणमस्य तत् अष्टकम् पाणिनीयम्' । अत्र सूत्राणाम् सङ्ख्या 'अध्यायानाम्' निर्देशेन दीयते । इत्युक्ते, 'एतानि सूत्राणि अष्टसु अध्यायेषु विभाजितानि सन्ति' इति निर्देशः अत्र क्रियते । अस्यां स्थितौ 'अष्टौ अध्यायाः' इति परिमाणवाचिशब्दः नास्ति अतः अत्र **तत् अस्य परिमाणम्** (5.1.58) इत्यनेन अयम् प्रयोगः न सम्भवति । अतएव वर्तमानसूत्रे 'सूत्र' इत्यस्य ग्रहणम् कृतमस्ति । 4. **अध्ययन** - अध्ययनस्य प्रकाराः / पौनःपुन्यम् (repetion) दर्शयितुम् यथाविहितम् प्रत्ययः भवति । यथा - 'पञ्चरूपाणि अस्य अध्ययनस्य तत् पञ्चकमध्ययनम्' । यदि किञ्चन अध्ययनम् पञ्चप्रकारैः / पञ्चवारम् क्रियते, तर्हि तस्य निर्देशः पञ्चकमध्ययनम्' इत्यनेन भवति । अस्यां स्थितौ परिमाणवाचिशब्दस्य अभावात् **तत् अस्य परिमाणम्** (5.1.58) इत्यनेन प्रत्ययविधानम् न सम्भवति, अतः वर्तमानसूत्रे 'अध्यययन' इत्यस्य ग्रहणम् कृतमस्ति । सङ्क्षेपेण, प्रयोगे विद्यमानाः केचन साधुशब्दाः ये **तत् अस्य परिमाणम्** (5.1.57) इत्यनेन न साध्यन्ते, तेषाम् साधनार्थम् वर्तमानसूत्रस्य निर्माणम् कृतमस्ति । अत्र वार्त्तिकद्वयम् ज्ञातव्यम् - 1. - 'पञ्चदश' तथा अधिकाः सङ्ख्यावाचिकाः शब्दाः 'स्तोमम् परिमाणमस्य' अस्मिन् अर्थे 'ड'प्रत्ययं स्वीकुर्वन्ति । यथा - पञ्चदश स्तोमम् (मन्त्रम्) परिमाणमस्य सः पञ्चदशः स्तोमः । 2. - 'शन्' उत 'शत्' यस्य अन्ते अस्ति, तादृशात् शब्दात् , तथा च 'विंशति'शब्दात् वेदेषु भिन्नेषु विषयेषु परिमाणार्थे 'डिनि' प्रत्ययः कृतः दृश्यते । अस्मिन् प्रत्यये नकारोत्तरः इकारः 'नकारस्य इत्संज्ञा मा भूत्' इति ज्ञापयितुम् स्थापितः अस्ति । उदाहरणानि एतानि - [अ] 'पञ्चदशन्' - पञ्चदश अहानि (दिनानि) परिमाणमस्य = पञ्चदशन् + डिनि → पञ्चदश् + इन् [**टेः** (6.4.143) इति टिलोपः] → पञ्चदशिन् पञ्चदश अहानि परिमाणमस्य सः पञ्चदशी अर्धमासः । [आ] 'त्रिंशत्' - त्रिंशत् अहानि परिमाणमस्य = त्रिंशत् + डिनि → त्रिंश् + इन् [**टेः** (6.4.143) इति टिलोपः] → त्रिंशिन् त्रिंशत् अहानि परिमाणमस्य सः त्रिंशी मासः । [इ] विंशतिः गोत्राणि परिमाणमस्य = विंशति + डिनि → विंश् + इन् [**ते विंशतेर्डिति** (6.4.142) इति टिलोपः[ → विंशिन् विंशतिः गोत्राणि परिमाणम् एषाम् ते विंशिनः अङ्गिरसः ।A group of people who have the same main gotra but twenty sub-gotras - इत्याशयः । Vasu English Summary -------------------- The affixes प्राग्वतेष्ठञ् (5.1.18) etc. come after a word denoting a numeral in the sense of 'this is its measure when the word so formed means a Name, a Multitude, a Book or a fixed way and mode of study. Vasu English Translation ------------------------ The affixes प्राग्वतेष्ठञ् (5.1.18) etc. come after a word denoting a numeral in the sense of 'this is its measure when the word so formed means a Name, a Multitude, a Book or a fixed way and mode of study. The phrase तदस्य परिमाणं is understood here. The word in construction to which the affix is to be added should be in the nominative case. When it is a Name, the affix does not change the sense of the radical. Thus पंचकाः = पंचः 'the Five' as पंचका शकुनयः, त्रिकाः 'the Three' = शालङ्कायनाः ॥ The sense of the primitive is changed when it means संघ 'a multitude or flock'; as पंचकः संघः, अष्टकः ॥ So also when it means a सूत्र 'a Book', as, अष्टावध्यायाः परिमाणमस्य सूत्रस्य = अष्टकं पाणिनीयम् 'The *Ashtaka* of *Panini* viz, a Book comprising Eight *Adhyayas*'. So also वैयाघ्रपदीयम्, त्रिकं काशकृत्स्नम् ॥ Is not a collection of *Adhyayas* the same as संघः ? No, the word संघः is confined to a collection of living beings only. The word अध्ययन means 'study'. Its numerical measure (संख्या परिमाण) means the particular number of times, or ways in which it should be read. Thus पंचकोऽधीतः 'what is studied five-times or in five modes' सप्तकोऽधीतः so also अष्टकः or नवकः ॥ Vart:- The affix ड comes after the words पंचदश &c, when the word means a *Stoma*. As, पंचदश मन्त्राः परिमाणमस्य = पंचदशः स्तोमः, सप्तदशः स्तोमः &c. The indicatory ड् causes the elision of final (टि) by (6.4.143), in the cases of words like एकविंशः &c. In the case of पंचदशः the न् is elided by (6.4.141). Vart:- The affix डिनि comes in the *Chhandas* after words ending in शत् and शन्, as, पंचदशिनोर्द्धमासाः, त्रिंशिनो मासाः ॥ Vart:- So also after the word विंशति, as विंशिनोऽङ्गिरसः ॥ Bhashya ------- संख्यायाः संज्ञासंघसूत्राध्ययनेषु (1940) (अर्थाधिकरणम्) (5641 संख्येयमात्रार्थकत्वेनाऽप्राप्तौ प्रत्ययबोधकवार्तिकम्॥ 1 ॥) - संज्ञायां स्वार्थे - (भाष्यम्) संज्ञायां स्वार्थे प्रत्यय उत्पाद्यः। पञ्ञ्चैव पञ्ञ्चकाः शकुनयः। त्रिकाः शालङ्कायनाः। सप्तका ब्रह्मवृक्षाः॥ (5642 संघादिषु प्रत्ययबोधकवार्तिकम्॥ 2 ॥) - ततः परिमाणिनि - (भाष्यम्) ततः परः प्रत्ययः परिमाणिनीति वक्तव्यम्। पञ्ञ्चकः संघः। दशकः संघः॥ (5643 प्रथमवार्तिकाक्षेपयैकदेशिवार्तिकम्॥ 3 ॥) - जीवितपरिमाणे चोपसंख्यानम् - (भाष्यम्) जीवितपरिमाणे चोपसंख्यानं कर्तव्यम्। षष्टिर्जीवितपरिमाणमस्य - षाष्टिकः, साप्ततिकः॥ (5644 एकदेशिनिरासवार्तिकम्॥ 4 ॥) - जीवितपरिमाणे चेत्यनर्थकं वचनं कालादिति सिद्धत्वात् - (भाष्यम्) जीवितपरिमाणे चेत्यनर्थकं वचनम्॥ किं कारणम्? कालादिति सिद्धत्वात्। कालात् (5.1.78) इत्येव सिद्धम्। इह यस्य षष्टिर्जीवितपरिमाणं षष्टिमसौ भूतो भवति। तत्र तमधीष्टो भृतो भूतो भावीत्येव सिद्धम्॥ अवश्यं चैतदेवं विज्ञेयम्॥ (5645 एकदेशिवार्तिके दोषप्रदर्शकं वार्तिकम्॥ 5 ॥) - इह वचने हि लुक्प्रसङ्गः - (भाष्यम्) इह हि क्रियमाणे लुक् प्रसज्येत - द्विषाष्टिकः, त्रिषाष्टिकः। अनेन सति लुग्भवति। तेन सति कस्मान्न भवति? आर्हादित्युच्यते। न सिध्यति। किं कारणम्? न हीमे कालशब्दाः। किं तर्हि? संख्याशब्दा इमे। इमेऽपि कालशब्दाः। कथम्? संख्या संख्येये वर्तते। यदि तर्हि यो यः काले वर्तते स स कालशब्दः, रमणीयादिष्वतिप्रसङ्गो भवति। रमणीयं कालं भूतः, शोभनं कालं भूतः। अथ मतमेतत् - काले दृष्टः शब्दः कालशब्दः, कालं यो न व्यभिचरति - इति। न रमणीयादिष्वतिप्रसङ्गो भवति, जीवितपरिमाणे तूपसंख्यानं कर्तव्यम्। इह चोपसंख्यानं कर्तव्यम् - वार्षशतिकः, वार्षसहस्रिक इति। किं पुनः कारणं न सिध्यति? न हि वर्षशतशब्दः संख्या। किं तर्हि? संख्येये वर्तते वर्षशतशब्दः। एवं तर्हि - (5646 योगविभागबोधकवार्तिकम्॥ 6 ॥) - अन्येभ्योऽपि दृश्यते खारशताद्यर्थम् - (भाष्यम्) अन्येभ्योऽपि दृश्यत इति वक्तव्यम्। किं प्रयोजनम्? खारशताद्यर्थम्। खारशतिको राशिः। खारसहस्रिको राशिः॥ (सिद्धान्ताभिप्रायकं भाष्यम्) अयं तर्हि दोषः - ःइह वचने हि लुक्प्रसङ्ग इति। न ब्रूमो यत्र क्रियमाणे दोषस्तत्र कर्तव्यमिति। किं तर्हि? यत्र क्रियमाणे न दोषस्तत्र कर्तव्यम्। क्व च क्रियमाणे न दोषः? परमार्हात्। तत्तर्हि उपसंख्यानं कर्तव्यम्। न कर्तव्यम्। कालादित्येव सिद्धम्। ननु चोक्तं नेमे कालशब्दाः, किं तर्हि, संख्याशब्दा इति। ननु चोक्तमिमेऽपि कालशब्दाः। कथं? संख्या संख्येये वर्तते। ननु चोक्तं यदि तर्हि यो यः शब्दः काले वर्तते स स कालशब्दः, रमणीयादिष्वतिप्रसङ्गो भवतीति॥ (5647 सिद्धान्तवार्तिकम्॥ 7 ॥) - उक्तं वा - (भाष्यम्) किमुक्तम्? अनभिधानादिति। अनभिधानाद्रमणीयादिषूत्पत्तिर्न भविष्यति॥ (5648 उपसङ्ख्यानवार्तिकम्॥ 8 ॥) - स्तोमे डविधिः पञ्ञ्चदशाद्यर्थः - (भाष्यम्) स्तोमे डो विधेयः। किं प्रयोजनम्? पञ्ञ्चदशाद्यर्थः। पञ्ञ्चदशः स्तोमः। सप्तदशः स्तोम इति॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्ञ्चमस्याध्यायस्य प्रथमे पादे प्रथममाह्निकम्॥ Kashika ------- तदस्य परिमाणमिति वर्तते। संख्यावाचिनः प्रातिपदिकात् परिमाणोपाधिकात् प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति। संज्ञासंघसूत्राध्ययनेष्विति प्रत्ययार्थविशेषणम्। तत्र संज्ञायां स्वार्थे प्रत्ययो वाच्यः। पञ्चैव पञ्चकाः शकुनयः। त्रिकाः शालङ्कायनाः। संघ — पञ्च परिमाणमस्य पञ्चकः संघः। अष्टकः। सूत्र — अष्टावध्यायाः परिमाणमस्य सूत्रस्य अष्टकं पाणिनीयम्। दशकं वैयाघ्रपदीयम्। त्रिकं काशकृत्स्नम्। ननु चाध्यायसमूहः सूत्रसंघ एव भवति ? नैतदस्ति। प्राणिसमूहे संघशब्दो रूढः। अध्ययन — पञ्चकोऽधीतः। सप्तकोऽधीतः। अष्टकः। नवकः। अधीतिरध्ययनम्। तस्य संख्यापरिमाणं पञ्चावृत्तयः पञ्च वाराः पञ्च रूपाण्यस्याध्ययनस्य पञ्चकमध्ययनम्॥ स्तोमे डविधिः पञ्चदशाद्यर्थः॥ पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः स्तोमः। सप्तदशः। एकविंशः॥ शन्शतोर्डिनिश्छन्दसि॥ प॑ञ्चद॒शिनो॑ऽर्धमा॒साः (तै०सं०७.५.२०.१)। त्रिं॒शिनो॒ मासाः॑ (तै०सं०७.५.२०.१)॥ विंशतेश्चेति वक्तव्यम्॥ विंशिनोऽङ्गिरसः (गो०ब्रा०१.१.८)॥ Siddhanta Kaumudi ----------------- पूर्वसूत्रमनुवर्तते । तत्र । (वार्तिकम्) ॥ यद्वा द्व्येकयोरितिवत्संख्यामात्रवृत्तेः परिमाणिनि प्रत्ययः ॥ पञ्चैव पञ्चकाः शकुनयः । पञ्च परिमाणमेषामिति वा । सङ्घे पञ्चकः । सूत्रेऽष्टकं पाणिनीयम् । सङ्घशब्दस्य प्राणिसमूहे रूढत्वात्सूत्रं पृधगुपात्तम् । पञ्चकमध्ययनम् । (वार्तिकम्) ॥ पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः । सप्तदशः । एकविंशः । सोमयागेषु छन्दोगैः क्रियमाणा पृष्ठ्यादिसंज्ञिका स्तुतिः स्तोमः ॥ Balamanorama ------------ **संख्यायाः संज्ञासंघसूत्राध्ययनेषु** - सङ्ख्यायाः । अनुवर्तत इति । तथाचतदस्य परिमाण॑मित्यर्थे प्रथमान्तात्संख्यात्मकपरिमाणवाचिनो यथाविहितं प्रत्ययाः स्युरित्यर्थः । संज्ञायां स्वार्थे प्रत्ययो वाच्य इति । 'पञ्चकाः शकुनय' इत्यत्र पञ्च परिमाणमेषामित्यर्थो न संभवति, आ दशतः संख्याः संख्येये इति पञ्चन्शब्दस्य संख्येयवृत्तित्वेन पञ्च परिमाणमिति सामानाधिकरण्यानुपपत्तेः । अतः संज्ञायां स्वार्थ #एव संख्यायाः प्रत्यय इति पर्यवस्यतीति भावः । यद्वेति । द्विशब्दस्य एकशब्दस्य च संख्येयवृत्तित्वेऽपि 'द्व्येकयोः' इति समासवृत्तावेकत्वद्वित्वपरत्वमभ्युपगम्यते । अन्यथा 'द्व्येकयोः' इति द्विवचनानुपपत्तेः । तद्वत्पञ्चकाः शकुनय इति तद्धितवृत्तावपि पञ्चन्शब्दस्य पञ्चत्वसंख्यापरतया पञ्चत्वं परिमाणमस्येति सामानाधिकरण्यं स्वीकृत्य पञ्चत्ववाचिनः पञ्चन्शब्दात् पञ्चत्वरूपपरिमाणवति प्रत्यय उपपद्यत इत्यर्थः । तत्र संज्ञायां स्वार्ते उदाहरति — पञ्चैवेति । परिमाणिनि प्रत्ययमुदाहरति — पञ्च परिमाणमिति । पञ्चत्वमित्यर्थः । सङ्घे इति । उदाहरणं वक्ष्यत इत्यर्थः । पञ्चक इति । पञ्चत्वस्य सङ्घस्य परिमाणमित्यर्थः । सङ्घस्य पञ्चत्वं तु अवयवाद्वारा बोध्यम् । सूत्र इति । उदाह्यियत इति शेषः । अष्टकं पाणिनीयमिति ।सूत्र॑मिति शेषः । अष्टावध्यायाः परिमाणमस्येति विग्रहः । अत्राष्टत्वमध्यायद्वार#आ सूत्रेऽन्वेति । सूत्रशब्दश्च सूत्रसंघपरः, एकस्मिन्सूत्रे अष्टकत्वस्याऽसंभवात् । नन्वेवं सति सङ्घग्रहणेनैव सिद्धे सूत्रग्रहणं व्यर्थमित्यत आह — सङ्घशब्दस्येति । पञ्चकमध्ययनमिति । पञ्चावृत्तयः परिमाणमस्येति विग्रहः । स्तोमे डविधिरिति ।तदस्य परिमाण॑मित्यर्थे सङ्ख्यावाचिन उपसंख्यातव्य॑ इति शेषः । सामाधारमन्त्रसमूहे स्तोमशब्दः शक्त इति कैयटः । मनुष्यादिसमूहे तु स्तोमशब्दो लाक्षणिक इति तदाशयः । तदाह — पञ्चदश मन्त्रा इति । पञ्चदशः स्तोम इति । पञ्चदशन्शब्दाड्डप्रत्ययेटे॑रिति टिलोपः । सामाधारबूतपञ्चदशमन्त्रसमूह इत्यर्थः । ननु ङित्त्वाऽभावेऽपि 'नस्तद्धिते' इत्येव टिलोपसिद्धेर्ङित्त्वं व्यर्थमित्यत आह — एकविंश इति । एकविंशतिर्मन्त्राः परिमाणमस्य समूहस्येति विग्रहः । डप्रत्यये इति ।ति विंशतेर्डिती॑ति टिलोपः । मीमासकास्तु पृष्ठरथन्तरादिशब्दवाच्या प्रगीतमन्त्रसाध्या गुणवत्त्वेन वर्णनात्मिका स्तुतिरेव स्तोमः, स एव डप्रत्ययार्थः । प्रगीतपञ्चदशमन्त्रपरिमाणकः स्तोम इत्यर्थः । पञ्चदशत्वसंख्यात्मकपरिमाणं स्तुतौ मन्त्रद्वारा बोध्यम् । एवंच 'पञ्चदशेन स्तुवते' इत्यादौ धात्वर्थभूतस्तुतिसामानाधिकरण्यं पञ्चदसादिशब्दानामुपपद्यत इत्याहुः । तन्मतमवलम्ब्याह — सोमयागेष्वित्यादि । Padamanjari ----------- परिमाणोपाधिकादिति। नात्र रूढिपरिमाणं गृह्यते, किं तर्हि ? क्रियाशब्दः - परिमीयते येन तत्परिमाणम्। संख्यापि च परिमीयत इति नासम्भवि विषेषणम्, नन्वेवमप्यव्यभिचारादविशेषणम्, न ह्यपरिच्छेदिका संख्यास्ति, सत्यम्; इह तु प्रत्ययार्थस्य संघादेर्यदा परिच्छेदिका संख्या तदा प्रत्ययो यथा स्यात् - पञ्च गावः परिमाणमस्य पञ्चको गोसङ्ग इति; इह मा भूत् - पञ्च गावः संभूता अस्य ब्रह्मणसङ्घस्येति, न ह्यत्र सङ्घस्येयतागम्यते, तस्मात्प्रत्ययार्थस्य यदा परिच्छेदिका संख्या तदा यथा स्यादिति विशेषणमर्थवद्भवति। तत्रेत्यादि। इहादशभ्यः संख्याः संख्येये वर्तन्त, ?????? सख्यानमात्रे। तत्र य एव शकुनयः पञ्चत्वसंख्यायुक्ताः पञ्चन्शब्दवाच्यास्त एव पञ्चकशब्दस्यापि, ततश्च परिमाणपरिमाणिभावाभावात्स्वार्थ एव प्रत्ययो वक्तव्यः। यदा तु वृत्तिविषये सम्भवत्येव परिमाणी प्रत्ययार्थः - पञ्चत्वसंख्या परिमाणमेषां पञ्चकाः शंकुनय इति। पञ्चकमध्ययनमिति। पूर्वं तु पञ्चकोऽधीते इति सम्पाठापेक्षया पुंल्लिङ्गनिर्द्देशः, ठधीतेऽ इति च कृत इत्यर्थः। यथा-ओदनपाकं पचत्योदनपाकं करोतीत्यर्थः। स्तेमे डविधिरिति। सोमयागेषु च्छन्दोगैः क्रियमाणा पृष्टादिस्तुतिः स्तेमः। पञ्चदश मन्त्राः परिमाणमस्येति। साम्रा स्तुवीत, एकं साम तृचे कियते इति स्तुतिविधिः। तत्र त्रिकस्य पञ्चकृत्व आवृत्या पञ्चदश मन्त्रा भवन्ति, सप्तदशसोमे अन्त्यायाः सप्तकृत्व आवृत्तिः एकविशे तृचस्य। डित्करणमेकविशे तिलोपार्थम्, त्रयस्त्रिंशादौ टिलोपार्थं च। पञ्चदशः, सप्तदश इत्यत्र तु'नस्तद्धिते' इत्यनेनैव टिलोपः सिद्धः। शन्शतोर्डिनिरिति।'स्तोमे' इति न सम्बध्यते। अत्रापि डित्करणं शदन्तस्य टिलोपार्थम्। पञ्चदशिन इति। पञ्चदशाहानि परिमाणमेषामिति डिनिः। एतेन त्रिंशिनो व्याख्याताः। विंशिनोऽङ्गिरस इति। ठाङ्गिरसायास्य गौतमऽ इत्यादिप्रवरभेदेन भिन्नानि विंशतिरवान्तरगोत्राणि परिमाणमेषामित्यर्थः। योगश्चायं पूर्वस्यैव प्रपञ्चः ॥ Nyaas ----- `परिमाणोपाधिकात्` इति। परिमाणमुपाधिर्विशेषणं न सम्भवति, न हि शब्दः परिमाणं शब्दस्य सम्भवतीति? तदर्थस्य विशेषणं विज्ञास्यत इत्यदोषः। ननु चार्थस्यापि न सम्भवति, संख्या हि नैव परिमाणम्? नैष दोषः; नात्र रूढः परिमाणशब्दो गृह्रते, किं तर्हि? क्रियाशब्दः - परिमायते येन तत्? परिमाणमिति। संख्यायापि च परिमीयत इति सापि परिमाणम्। नन्वेवमपि विशेषणमनर्थकम्; न ह्रपरिच्छेदिका संख्यास्ति, सञ्चक्षाणा हि संख्योच्यते? सतद्यम्; परिच्छेदिकैव संख्या, सा तु स्वस्याभिदेयं परिच्छिनत्तीति षष्ठर्थमवश्यं न परिच्छिनत्ति। पञ्चास्य सङ्घस्य पुत्रा इति नात्र सह्घस्येयत्ता प्रतीयते। इह तु पञ्चसंख्या परिमाणमस्य सङ्घस्येति भवतीयत्ताप्रतीतिः सङ्घस्य। तस्मादुपपन्नं संख्यायाः परिमाणं विशेषणम्। `तत्र` इत्यादि। पञ्चशब्दोऽयं संख्येय एव वर्तते, न कदाचिदपि संख्यानमात्रे। ततश्च य एव संख्येयाः पञ्चत्वसंख्ययावच्छिन्नाः पञ्चशब्देनोच्यन्ते, प्रत्ययान्तेनापि त एव न हि तेषां भिन्नानामत्र संख्येयान्तरं परिमाणं प्रत्ययवाक्यं सम्भवपति। तस्मात्? संज्ञायां स्वार्थं एव प्रत्ययो वाच्यः। तथा चाह वार्त्तिककारः - `संज्ञायां स्वार्थे उत्पद्यते` इति। `पञ्चकोऽधीतः` इति पाठापेक्षया पुंल्लिङ्गः। `अधीतिरध्ययनम्` इति। अनेन भावसाधनमध्ययनशब्दं दर्शयति। यद्यधीयत इत्यध्ययनं कर्मसाधनोऽद्ययनशब्दः स्यात्, सूत्रग्रहणं पृथग्वक्तव्यं न स्यात्; अध्ययनग्रहणेनैव सिद्धत्वात्, सूत्रमप्यधीयत एव। `पञ्चावृत्त्यः` इति पाठे पुनः क्रियात्मिकाः पञ्च वारा इत्यादिना पर्यायान्तरेण पञ्चावृत्त्य इत्यस्यैवार्थं व्यक्तीकरोति। `स्तोमे डविधिः` इति। अत्रापि च्छन्दसीति सम्बध्यते। मन्त्रसमुदायः स्तोमः। `एकविंशः` इति। **अतो गुणे** (6.1.97) पररूपत्वं च, `ति विंशतेर्डिति (6.4.142) इति तिशब्दलोपः।`शन्शतोः` इत्यादि। शन्नित्येवमन्ताच्छन्दसि डिनिर्वक्तव्यः॥ Prakriyasarvasvam ----------------- संज्ञायां सङ्घादिषु च वाच्येषु परिमाणार्थे सङ्ख्याया उक्तप्रत्ययाः स्युः । (वा० ५-१-५८) । पञ्चैव पञ्चकाः शकुनयः । सङ्घे पञ्चकः सङ्घः । सङ्घशब्दप्रयोगे तु क्लीबे पुंसि वा । तेषां पञ्चकं द्विकं षट्कम् । सूत्रे अष्टाध्यायाः परिमाणमस्येत्यष्टकं पाणिनीयम् । अध्ययने, पञ्चकः पाठः । पञ्चवारपरिमित इत्यर्थः ॥ Vartika ------- तत्र संज्ञायां स्वार्थे प्रत्ययो वाच्यः । Sutra Prayogas -------------- * **कुसुमपञ्चकम्** (शिशुपालवधम्): `संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु` इति कप्रत्ययः। * **पञ्चकं** (शिशुपालवधम्): `संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु` इति सङ्घार्थे कन्प्रत्ययः।