51057: तदस्य परिमाणम् ===================== **Padacheda:** तत् | S | 1 | 1 | अस्य | S | 6 | 1 | परिमाणम् | S | 1 | 1 | Sutrartha --------- **'अस्य परिमाणम्' अस्मिन् अर्थे प्रथमासमर्थात् यथाविहितं प्रत्ययः भवति ।** 'परिमाणम्' इत्युक्ते मापनम् / राशिः (measurement / quantity / amount) । प्रथमासमर्थात् परिमाणवाचिशब्दात् 'अस्य' अस्मिन् षष्ठ्यर्थे यथाविहितं प्रत्ययः भवति । कानिचन उदाहरणानि एतानि - 1. प्रस्थः (kilogram) परिमाणमस्य सः प्रास्थिकः । अत्र औत्सर्गिकः ठञ्-प्रत्ययः भवति । 2. वाहम् परिमाणमस्य तत् वाहिकम् । अत्र **असमासे निष्कादिभ्यः** (5.1.20) इति ठक्-प्रत्ययः भवति । 3. शतम् परिमाणमस्य सः शतिकः शत्यः वा । अत्र **शताच्च ठन्यतावशते** (5.1.21) इति ठन् तथा यत् प्रत्ययः भवति । 4. वर्षशतं परिमाणमस्य वार्षशतिकः । अत्र औत्सर्गिकः ठञ्-प्रत्ययः भवति । 5. सहस्रम् परिमाणमस्य सः साहस्रः । **शतमानविंशतिकसहस्रवसनादण्** (5.1.27) इति अण् । विशेषः - वस्तुतः अस्मिन् सूत्रे 'तद्' इति प्रथमासमर्थः तथा च 'अस्य' इति षष्ठ्यर्थः (प्रत्ययार्थः) द्वयोरपि आवश्यकता नास्ति, यतः पूर्वसूत्रात् (**सोऽस्यांशवस्नभृतयः** (5.1.56)) इत्यस्मात् 'सः' तथा 'अस्य' द्वयोरपि अनुवृत्तिः भवितुमर्हति । तथापि आचार्यः अत्र द्वयोः अपि ग्रहणं कारयति । इदम् ग्रहणम् केवलं स्पष्टतायै कृतमस्तीति वक्तुं शक्यते, यतः अस्मिन् विषये कौमुद्याम् भाष्ये च किमपि नोक्तम् । परन्तु अस्मिन् विषये काशिकाकारः ब्रूते - ' पुनर्विधानसामर्थ्यादध्यर्धपूर्वद्विगोर्लुक् न भवति' । इत्युक्ते, **अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) अनेन सूत्रेण उक्तः लुक् अस्य सूत्रस्य विषये केषुचन स्थलेषु मा भूत् - इति स्पष्टीकर्तुमत्र पुनरुक्तिः कृता अस्ति । अस्मिन् विषये काशिकाकारः उदाहरणद्वयं ददाति - अ) द्वे षष्टी जीवितम् परिमाणमस्य द्विषाष्टिकः । अत्र औत्सर्गिकस्य ठञ्-प्रत्ययस्य **अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इत्यनेन लुक् न भवति । आ) तथैव, द्वे सप्तती परिमाणमस्य सः द्विसाप्ततिकः । लुकः अयं प्रतिषेधः केषाञ्चन-शब्दानां विषये एव भवति, सर्वत्र न - इति स्मर्तव्यम् । यथा - 'द्वौ बिस्तौ अस्य परिमाणम्' इत्यत्र **बिस्ताच्च** (5.1.31) इत्यनेन विकल्पेन लुक् कृत्वा 'द्विबिस्त' इति रूपम् तु सिद्ध्यति एव । Vasu English Summary -------------------- The affixes taught in प्राग्वतेष्ठञ् (5.1.18) etc. have the sense of 'this is its measure'. Vasu English Translation ------------------------ The affixes taught in प्राग्वतेष्ठञ् (5.1.18) etc. have the sense of 'this is its measure'. The word तद् shows that the word in construction should be in the nominative case. Thus प्रस्थः परिमाणमस्य = प्रास्थिको राशिः 'a heap whose mass is a *Prastha*.' So also खारीकः, शत्यः, शतिकः, साहस्रः, द्रौणिकः, कौडविकः, वार्षशतिकः, वार्षसहस्रिकः ॥ So also षष्ठिर्जीवित परिमाणमस्य षाष्ठिकः, द्विसाप्ततिकः ॥ Why the words तदस्य have been repeated in this *sutra*, when their *anuvritti* could have been drawn from the last aphorism, the word सोऽस्य and तदस्य being the same? The repetition shows that the affixes are again ordained, so that the elision taught in (5.1.28) does not apply. Thus द्वे षष्ठी परिमाणमस्य = द्विषाष्ठकः, द्विसाप्ततिकः, ॥ Here the affix is not elided by (5.1.28). Bhashya ------- तदस्य परिमाणम् (1939) Kashika ------- तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं परिमाणं चेत् तद् भवति। प्रस्थः परिमाणमस्य प्रास्थिको राशिः। खारशतिकः। शत्यः, शतिकः। साहस्रः। द्रौणिकः। कौडविकः। वर्षशतं परिमाणमस्य वार्षशतिकः। वार्षसहस्रिकः। षष्टिर्जीवितपरिमाणमस्येति षाष्टिकः। साप्ततिकः। समर्थविभक्तिः प्रत्ययार्थश्च पूर्वसूत्रादेवानुवर्तिष्यते, किमर्थं पुनरनयोरुपादानम्? पुनर्विधानार्थम्। द्वे षष्टी जीवितपरिमाणमस्य द्विषाष्टिकः। द्विसाप्ततिकः। पुनर्विधानसामर्थ्याद् **अध्यर्धपूर्वद्विगोर्लुग०** (५.१.२८) न भवति॥ Siddhanta Kaumudi ----------------- प्रस्थं परिमाणमस्य प्रास्थिको राशिः ॥ Balamanorama ------------ **तदस्य परिमाणम्** - तदस्य परिमाणम् । अस्मिन्नर्थे प्रतमान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । प्रास्थिक इति । 'आर्हात्' इत्यत्र परिमाणपर्युदासात् प्राग्वतीयष्ठञ् । अत्र संख्याऽपि परिमाणम् । यद्यपिअगोपुच्छसंख्यापरिमाणा॑दिति पृथग्ग्रहणात् संख्या न परिमाणम्,तथाप्यत्र परिच्छेदकत्वात् संख्यापि परिमाणम्, उत्तरसूत्रे संख्यायाः परिमाणेन विशेषणाल्लिङ्गात् । तेन षष्टिः परिमाणमस्य षाष्टिकमिति सिद्धम् । द्विषष्टआदिभ्यस्त्वनभिधानान्नेति भाष्ये स्पष्टम् । Tattvabodhini ------------- **तदस्य परिमाणम्** - तदस्य परिमाणम् । इह परिमाणशब्देन परिच्छेदकमात्रं गृह्रते, नतु सर्वतोमानमेव, उत्तरसूत्रे सङ्ख्यायाः परिमाणेन विशेषणात् । षष्टिर्जीवितं परिमाणमस्य षाष्टिकः ।सोऽस्ये॑ति वर्तमाने पुनःतदस्ये॑ति ग्रहणात्द्वे षष्टी जीवितं परिमाणमस्य द्विषाष्टिकस्त्रिषाष्टिकः॑ इत्यादौअध्यर्धे॑ति लुङ् न भवति । स्पष्टं चेदं काशिकादौ । पूर्वसूत्रमिति । तेन पञ्च गावः परिमाणमस्य पञ्चको गोसङ्घ इत्यादि सिध्यति । यदा तु प्रकत्यर्थस्यैव परिच्छेदिका संख्या -पञ्च गावोऽस्य सङ्घस्येति, तदा तु प्रत्ययो न भव ति, परिमाणस्या प्रत्ययार्थत्वाऽभावात् । एतच्चआर्हादगोपुच्छे॑ति सूत्रे कैयटे स्पष्टम् । संज्ञायां स्वार्थे प्रत्ययो वाच्यः । पञ्चैवेति । स्तोमे डविधिरिति । डित्करणमेकविंश इत्यत्र तिलोपार्थम् । त्रयस्त्रशादौ टिलोपार्थं च ।स्तोमे डविधिः । पञ्चदश मन्त्रा इतदि ।साम्ना स्तुवीत॑,एकं सामत्र्यृचे क्रियते॑इति हि श्रुतिः । तत्र त्र्यृचस्य पञ्चकृत्व आवृत्त्या पञ्चदशमन्त्राः । सप्तदशे स्तोमे अन्त्याया ऋचः सप्तकृत्व आवृत्तिः । प्रथममध्यमयोस्तु पञ्चकृत्व एव, एकविंशे स्तोमे तु त्र्यृचस्य सप्तकृत्व आवृत्तिरिति ज्ञेयम् । छन्दोगौरिति । सामगैरित्यर्थः । Padamanjari ----------- इह परिच्छदहेतुमात्रं परिमाणम्, न सर्वतो मानमेव; उतरसूत्रे संख्यायाः परिमाणेन विशेषणात्। खारशतिक इति। खारशब्दोऽकारान्तो वार्तिककारवचनात्साधुः, तेन हि'तदस्य परिमाणम्' इत्यत्र योगविभागः कर्तव्य इति दर्शयितुमुक्तम्-ठन्येभ्योऽपि दृश्यते खारशताद्यर्थम्ऽ इति। वार्षशतिक इति। यज्ञादौ परिमाणिनि प्रत्ययः। षष्टि जीवितपरिमाणस्येति। संवत् सरेषु षष्ठिशब्दः,संवत्सरसंख्याया हि जीवितं प्रायेण परिच्छद्यते, जीवितपरिच्छेदद्वारेण तद्वतोऽपि षष्टिः संवत्सराः परिमाणमिति। तदस्मिन्परिमाणिनि प्रत्ययः। ननु यस्य षष्टिर्जीवितपरिमाणं षष्टिमसौ भृतो भवति तत्र तमधीष्टो भृतो भूतो भावीत्येव सिद्धम्। एवं च द्विषाष्टिक इत्यादौ नैवाध्यर्द्धपूर्वति लुक्प्रसङ्गः, तस्यानार्हीयत्वात्, ततश्च समर्थविभक्तेः प्रत्ययार्थस्य च पुनरुपादानेन विधानमपि न कर्तव्यम्, न च जीवितपरिमाणादन्यत्र पुनर्विधानेन लुगबाव इत्यते ? एवं मन्ये-तमधीष्ट इत्यत्र कालादिति वर्तते, न च षष्टयादयः कालशब्दाः। अथ काले संख्येये वर्तमानत्वातेऽपि कालशब्दाः ? रमणीयादिष्वतिप्रसङ्गः, रमणीयं कालं भूत इति। तस्माद्यः कालं न व्यभिचरति स एव कालशब्द इति। द्विषाष्टिक इति।'संख्यायाः संवत्सरसंख्यस्य च' इत्युतरपदवृद्धिः ॥ Nyaas ----- `प्रास्थिको राशिः` इत्यादौ सर्वत्र ठञ्। `द्विषाष्टिकः` इत्यादि। `संख्यायायाः संवत्सरसंख्यस्य च` (7.3.15) इत्युत्तरपदवृद्धिः। `पुनर्विधानसामर्थ्यात्` इत्यादिना पुनर्विधानफलं दर्शयति। `द्विषाष्टिकः` इत्यादौ द्विः प्रत्यविधानम्, तत्र पूर्वसूत्रात्? समर्थविभक्तेः प्रत्यायार्थसयानुवृत्तेः प्रथमं प्रत्ययो विधीयते, तस्य `अध्यर्धपूर्व` (5.1.28) सूत्रेण लुग्भवति। नन्विह च यः सूत्रे समर्थविभक्तेः प्रत्ययार्थस्य चोपादनात्? पुनर्विधीयते तस्यापि पुनर्विधानमनर्थकं स्यात्॥ Prakriyasarvasvam ----------------- अस्मिन्नर्थे ठञ्ठगाद्याः स्युः । अत्र सङ्ख्यापि परिमाणम् । प्रास्थिको व्रीहिः । वार्षशतिकः कालः । अत्र क्वचिद् द्विगोलुग् न । तेन द्विषष्टिर्जीवित- परिमाणमस्येति ठञ् । 'सङ्ख्यायाः संवत्सर—' (७-३-१५) इत्युत्तरपदवृद्धिः । द्विषाष्टिकः पुरुषः । एवं दशसहस्रपरिमितो दशसाहस्रः सङ्घः । शतमानाद्यण् ॥