51051: वस्नद्रव्याभ्यां ठन्कनौ ============================== **Padacheda:** वस्न-द्रव्याभ्याम् | S | 5 | 2 | ठन्कनौ | S | 1 | 2 | Sutrartha --------- **'हरति', 'वहति', 'आवहति' एतेषु अर्थेषु द्वितीयासमर्थात् 'वस्न'शब्दात् ठन्-प्रत्ययः तथा च 'द्रव्य'शब्दात् कन्-प्रत्ययः भवति ।** 'हरति' (देशान्तरं नयति / प्रापयति / carry to some other place), 'वहति' (उत्क्षिप्य नयति /lift and carry) तथा 'आवहति' (उत्पादयति / स्वसमीपे आनयति / manufactures / produces / brings something closer to oneself) एतेषु अर्थेषु वस्न (मूल्यम्) शब्दात् तथा 'द्रव्य' (धनम्) शब्दात् **आर्हादगोपुच्छ..** (5.1.19) इत्यनेन प्राप्तं ठक्-प्रत्ययं बाधित्वा यथासङ्ख्यम् ठन् तथा कन् प्रत्ययः भवति - 1. वस्नं हरति वहति आवहति वा, सः = वस्न + ठन् → वस्निकः । 2. द्रव्यम् हरति वहति आवहति वा, सः = द्रव्य + कन् → द्रव्यकः । Vasu English Summary -------------------- The affix ठन् (-/- -इक्) and कन् (-/- क) come respectively after the words वसन and द्रव्य , in the 2nd case in construction, in the same sense of 'who carries etc.'. Vasu English Translation ------------------------ The affix ठन् (-/- -इक्) and कन् (-/- क) come respectively after the words वसन and द्रव्य , in the 2nd case in construction, in the same sense of 'who carries etc.'. Thus वस्नं हरति वहति वा = वस्निकः, द्रव्यकः ॥ Kashika ------- वस्नद्रव्यशब्दाभ्यां द्वितीयासमर्थाभ्यां यथासंख्यं ठन् कन् इत्येतौ प्रत्ययौ भवतो हरत्यादिष्वर्थेषु । वस्नं हरति वहति वा वस्निकः। द्रव्यकः॥ Siddhanta Kaumudi ----------------- यथासंख्यं स्तः । वस्त्रं हरति वहत्यावहति वा वस्त्रिकः । द्रव्यकः ॥ Balamanorama ------------ **वस्नद्रव्याभ्यां ठन्कनौ** - वस्नद्रव्याभ्याम् । तद्धरतिवहत्वायवहतीत्यनुवर्तते इत्यभिप्रेत्याह — वस्नं हरतीत्यादि । Tattvabodhini ------------- **वस्नद्रव्याभ्यां ठन्कनौ** - वस्निक इति । वस्नं -मूल्यम् । Padamanjari ----------- वस्नशब्देन मूल्यमुच्यते ॥ Nyaas ----- पूर्वेण ठकि प्राप्ते तदपवादौ ठन्कनौ विधीयते॥ Prakriyasarvasvam ----------------- आभ्यां चतुष्वर्थेषु क्रमात् ठन्कनौ । वस्नं मूल्यम् । वस्निकः । द्रव्यकः ॥